蚁垤《罗摩衍那》 · 篇 6.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.37.1
नरवानरराजानौ स तु वायुसुतः कपिः।
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ ६.३७.१ ॥
人类与猴王们,那风神之子猴子,熊王耆婆伽,以及罗刹毗缚奢那——
6.37.2
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः।
सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ ६.३७.२ ॥
跋利之子安伽达、善密多罗之子、猴子舍罗跋、与亲属同来的苏舍那,以及门陀与双毗陀——
6.37.3
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा।
अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥ ६.३७.३ ॥
迦阇、牛目、俱牟陀、那罗,以及波那娑,抵达敌境后聚集商议——
6.37.4
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता।
सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥ ६.३७.४ ॥
此即罗波那所守护的楞伽城,连阿修罗、龙、乾闼婆与天神也无法征服。
6.37.5
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये।
नित्यं संनिहितो यत्र रावणो राक्षसाधिपः ॥ ६.३७.५ ॥
以成事为先,就在罗刹之主罗波那常驻之处,商议定夺。
6.37.6
अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्।
वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः ॥ ६.३७.६ ॥
众人正在交谈之际,罗波那之弟毗缚奢那说出了文雅而意义深远的话。
6.37.7
अनलः पनसश्चैव सम्पातिः प्रमतिस्तथा।
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ॥ ६.३७.७ ॥
我的大臣阿那罗、波那娑、桑波蒂与普罗摩蒂已前往楞伽城,又回到了这里。
6.37.8
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्।
विधानं विहितं यच्च तद् दृष्ट्वा समुपस्थिताः ॥ ६.३७.८ ॥
他们都化作飞鸟,潜入敌军,看到其所布的阵势后便返回了。
6.37.9
संविधानं यथाहुस्ते रावणस्य दुरात्मनः।
राम तद् ब्रुवतः सर्वं याथातथ्येन मे शृणु ॥ ६.३७.९ ॥
罗摩啊,邪恶的罗波那所布的阵势,他们如何描述,我便如实告诉你,请听我说。
6.37.10
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति।
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥ ६.३७.१० ॥
东门由普拉哈斯塔率军驻守;南门则有威力强大的摩诃波尔奢与摩诃乌陀罗。
6.37.11
इन्द्रजित् पश्चिमं द्वारं राक्षसैर्बहुभिर्वृतः।
पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥ ६.३७.११ ॥
西门则是因陀罗耆多,被众多罗刹包围,他们手持长矛、利剑、弓箭、三叉戟与铁棍。
6.37.12
नानाप्रहरणैः शूरैरावृतो रावणात्मजः।
राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥ ६.३७.१२ ॥
罗波那之子被手持各种兵器的勇士围绕,成千上万的罗刹手执兵器而立。
6.37.13
युक्तः परमसंविग्नो राक्षसैः सह मन्त्रवित्।
उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥ ६.३७.१३ ॥
精通谋略的罗波那,极为焦虑,与罗刹们一同披挂整装,亲自驻守在城市的北门。
6.37.14
विरूपाक्षस्तु महता शूलखड्गधनुष्मता।
बलेन राक्षसैः सार्धं मध्यमं गुल्ममाश्रितः ॥ ६.३७.१४ ॥
毗噜波叉率领手持长矛、刀剑和弓箭的大军,与罗刹们一同驻守中央营阵。
6.37.15
एतानेवं विधान् गुल्माँल्लङ्कायां समुदीक्ष्य ते।
मामका मन्त्रिणः सर्वे शीघ्रं पुनरिहागताः ॥ ६.३७.१५ ॥
在楞伽仔细观察了这些营阵后,我的所有谋臣很快又回到了这里。
6.37.16
गजानां दशसाहस्रं रथानामयुतं तथा।
हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम् ॥ ६.३७.१६ ॥
象十千,车十千,马二十千,罗刹则超过一千万。
6.37.17
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः।
इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ ६.३७.१७ ॥
这些在战场上勇猛有力的侵犯者、夜行者,始终为罗刹王所珍视。
6.37.18
एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते।
परीवारः सहस्राणां सहस्रमुपतिष्ठते ॥ ६.३७.१८ ॥
人主啊,此处为战斗而备,每一位罗刹都有成千上万的随从相伴。
6.37.19
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः।
एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् ॥ ६.३७.१९ ॥
毗भीषण将楞伽城中大臣所传之消息告知后,这位大臂者向那些罗刹展示了(军队)。
6.37.20
लङ्कायां सचिवैः सर्वं रामाय प्रत्यवेदयत्।
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ ६.३७.२० ॥
他将从楞伽城大臣处得知的一切都报告给罗摩;然后,他对莲花瓣眼的罗摩作出如下回答。
6.37.21
रावणावरजः श्रीमान् रामप्रियचिकीर्षया।
कुबेरं तु यदा राम रावणः प्रतियुद्ध्यति ॥ ६.३७.२१ ॥
罗波那的弟弟、尊贵的毗भीषण,为了使罗摩欢喜,说道:罗摩啊,当罗波那与俱毗罗交战时……
6.37.22
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः।
पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्।
सदृशा ह्यत्र दर्पेण रावणस्य दुरात्मनः ॥ ६.३७.२२ ॥
于是六十万罗刹出发;凭借勇力、威能、光辉与精神的尊严,以及恶魂罗波那的骄傲,他们在此与他相等。
6.37.23
अत्र मन्युर्न कर्तव्यः कोपये त्वां न भीषये।
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥ ६.३७.२३ ॥
此处不应心生愤怒;我并非想激怒你或使你惊惧。你凭借威力,确实足以制服诸天神。
6.37.24
तद्भवांश्चतुरङ्गेण बलेन महता वृतम्।
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥ ६.३७.२४ ॥
因此,你被庞大的四军所环绕,将这支猴军布成战阵,必定能摧毁罗波那。
6.37.25
रावणावरजे वाक्यमेवं ब्रुवति राघवः।
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥ ६.३७.२५ ॥
罗瓦那之弟与罗陀之后对话时,为了对抗敌人,他说出了这些话。
6.37.26
पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः।
प्रहस्तं प्रतियोद्धा स्याद् वानरैर्बहुभिर्वृतः ॥ ६.३७.२६ ॥
在楞伽东门,猴中之雄尼罗,被众多猴子围绕,将与普拉哈斯塔对阵。
6.37.27
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः।
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ ६.३७.२७ ॥
瓦利之子安伽达,被大军围绕,应在南门进攻;大胁与大腹也应在那里。
6.37.28
हनूमान् पश्चिमद्वारं निष्पीड्य पवनात्मजः।
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥ ६.३७.२८ ॥
风之子哈努曼,其自性不可度量,被众猴围绕,应压向西门而入。
6.37.29
दैत्यदानवसङ्घानामृषीणां च महात्मनाम्।
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥ ६.३७.२९ ॥
以伤害提耶与达那婆众及大心仙人为乐的卑劣者,拥有所得恩赐之力。
6.37.30
परिक्रमति यः सर्वान् लोकान् संतापयन् प्रजाः।
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥ ६.३७.३० ॥
为了诛杀那位游走诸界、折磨众生的罗刹王,我自己已经下定决心。
6.37.31
उत्तरं नगरद्वारमहं सौमित्रिणा सह।
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ ६.३७.३१ ॥
我与绍弥德罗一同压迫北城门,进入罗波那及其军队所在之处。
6.37.32
वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्।
राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ॥ ६.३७.३२ ॥
让强大的猴王、勇猛的熊王以及罗刹王的幼弟都留在中军。
6.37.33
न चैव मानुषं रूपं कार्यं हरिभिराहवे।
एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले ॥ ६.३७.३३ ॥
战斗中猴子不得化为人形;让这一点作为我们猴军中的暗号。
6.37.34
वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति।
वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ॥ ६.३७.३४ ॥
在我们自己人之中,猴子本身便是我们的标记;而我们则以人形与敌人作战。
6.37.35
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा।
आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ ६.३७.३५ ॥
我自己与大力的兄弟罗什曼那同行,我的朋友毗ibhīṣaṇa为第五人。
6.37.36
स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्।
सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः।
रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥ ६.३७.३६ ॥
智慧的主罗摩为完成大事如此对毗ibhīṣaṇa说罢,见到苏维罗山最为秀美的山坡,便决意登上此山。
6.37.37
ततस्तु रामो महता बलेन
प्रच्छाद्य सर्वां पृथिवीं महात्मा।
प्रहृष्टरूपोऽभिजगाम लङ्कां
कृत्वा मतिं सोऽरिवधे महात्मा ॥ ६.३७.३७ ॥
于是大德罗摩以庞大的军队遮蔽了整个大地,面带喜色,决意诛灭敌人,向楞伽进发。