Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.39.1

तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥ ६.३९.१ ॥

众猴王在苏维罗山上度过了那一夜,英勇的猴军统帅们望见了楞伽城的森林与园苑。

6.39.2

समसौम्यानि रम्याणि विशालान्यायतानि च।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ ६.३९.२ ॥

他们望见那些平坦、柔和、秀美、广阔而开阔、悦目的园林,都惊叹不已。

6.39.3

चम्पकाशोकबकुलशालतालसमाकुला।
तमालवनसंछन्ना नागमालासमावृता ॥ ६.३९.३ ॥

遍布瞻蔔、无忧、 bakula、娑罗与多罗树,被多摩罗林覆盖,环绕着一行行那伽树。

6.39.4

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैः सुपुष्पितैः।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥ ६.३९.४ ॥

四周遍布盛开的 hintāla、arjuna、nīpa、saptaparṇa、tilaka、karṇikāra 与 pāṭala 树。

6.39.5

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ६.३९.५ ॥

楞伽城以众多种类的神奇树木而闪耀,树梢繁花盛开,藤蔓缠绕,宛如因陀罗的阿摩罗跋提。

6.39.6

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६.३९.६ ॥

点缀着五彩繁花、嫩红的新芽,绿草茵茵的草地,以及蓝色而奇妙的林带。

6.39.7

गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ६.३९.७ ॥

那里的树木开满芬芳而极其美丽的花朵,结满果实,宛如人们佩戴着饰品。

6.39.8

तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ ६.३९.८ ॥

那片森林如同Caitraratha与Nandana,迷人,四季俱全,美妙,充满蜜蜂,光彩照人。

6.39.9

दात्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः।
रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥ ६.३९.९ ॥

在舞动的孔雀之间,森林瀑布旁传来了大鸟、鸳鸯和鸟类的鸣叫,以及杜鹃的啼声。

6.39.10

नित्यमत्तविहंगानि भ्रमराचरितानि च।
कोकिलाकुलखण्डानि विहंगाभिरुतानि च ॥ ६.३९.१० ॥

鸟儿常常欢快沉醉,蜜蜂来往穿梭,杜鹃遍布各处,鸟鸣回荡。

6.39.11

भृङ्गराजाधिगीतानि कुररस्वनितानि च।
कोणालकविघुष्टानि सारसाभिरुतानि च।
विविशुस्ते ततस्तानि वनान्युपवनानि च ॥ ६.३९.११ ॥

那些由Bhṛṅgarāja鸟所歌唱、充满鸢鸟鸣叫、回荡着koṇālaka之声和鹤鸟叫声的森林与园林,他们走了进去。

6.39.12

हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः।
तेषां प्रविशतां तत्र वानराणां महौजसाम् ॥ ६.३९.१२ ॥

那些欢喜、快乐、英勇、能随意变化形貌的猴子——当那些大力的猴子进入那里时。

6.39.13

पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः।
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ ६.३९.१३ ॥

一阵因接触花朵而芬芳的风吹来,令人嗅之愉悦。猴中英雄的其他统领得到须羯哩婆许可,离开各自的队伍,向饰满旌旗的楞伽前进。

6.39.14

वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्विपान्।
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥ ६.३९.१४ ॥

惊吓飞鸟,使鹿与象疲惫,以自己的吼声震动那座楞伽城,吼叫者中的精锐向前进发。

6.39.15

कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्।
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥ ६.३९.१५ ॥

那些速度极快的猴子踩踏大地,使其震颤;脚下扬起的尘土猛然向上飞腾。

6.39.16

ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ ६.३९.१६ ॥

熊、狮、水牛、象、鹿和鸟,被那声音惊吓,惶恐地向十方逃散。

6.39.17

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्।
समन्तात् पुष्पसंछन्नं महारजतसंनिभम् ॥ ६.३९.१७ ॥

三峰山的一座山峰高耸入云,四周盛开鲜花,宛如巨大的白银。

6.39.18

शतयोजनविस्तीर्णं विमलं चारुदर्शनम्।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥ ६.३९.१८ ॥

这座山峰延展百由旬,洁净美丽,光滑庄严而宏大,即便飞鸟也难以到达。

6.39.19

मनसापि दुरारोहं किं पुनः कर्मणा जनैः।
निविष्टा तस्य शिखरे लङ्का रावणपालिता ॥ ६.३९.१९ ॥

即使以心念也难以攀登,何况人以行动?在其山顶坐落着由罗波那守护的楞伽城。

6.39.20

दशयोजनविस्तीर्णा विंशद्योजनमायता।
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः।
काञ्चनेन च शालेन राजतेन च शोभते ॥ ६.३९.२० ॥

此城宽十由旬,长二十由旬,以如白云般高耸的城楼,以及金银的城墙而光彩夺目。

6.39.21

प्रासादैश्च विमानैश्च लङ्का परमभूषिता।
घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ ६.३९.२१ ॥

楞伽城以宫殿与楼阁极尽庄严,如同炎热过后的云朵,又似毗湿奴的中间一步。

6.39.22

यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ ६.३९.२२ ॥

其中有一座以千根柱子装饰的宫殿,形如凯拉萨山峰,仿佛划过天空。

6.39.23

चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्।
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ ६.३९.२३ ॥

那是罗刹王的圣殿,是城市的装饰,整个军队中的一百名罗刹日夜守护着它。

6.39.24

मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम्।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ ६.३९.२४ ॥

令人愉悦、充满黄金、以山岳为装饰、以多种矿物绘成斑斓色彩、并以花园为饰的(楞伽)。

6.39.25

नानाविहगसंघुष्टां नानामृगनिषेविताम्।
नानाकुसुमसम्पन्नां नानाराक्षससेविताम् ॥ ६.३९.२५ ॥

那座城市,回响着各种鸟的鸣叫,栖息着各种鹿,遍布各色花朵,居住着各类罗刹。

6.39.26

तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः।
रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ ६.३९.२६ ॥

这座繁荣富饶的城市,光辉的罗什曼那之兄罗摩与猴众一同望见了——罗波那的这座城。

6.39.27

तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥ ६.३९.२७ ॥

罗摩——罗什曼那之兄,勇猛的英雄——望见那座布满巨大宫殿、宛如天界的城市,心中充满了惊叹。

6.39.28

तां रत्नपूर्णां बहुसंविधानां
प्रासादमालाभिरलंकृतां च।
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन ॥ ६.३९.२८ ॥

那座城市充满珠宝,布局精妙,装饰着成排的宫殿,以巨大的机关与城门著称,罗摩率大军望见了它。