Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.40.1

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्।
उपारोहत् ससुग्रीवो हरियूथैः समन्वितः ॥ ६.४०.१ ॥

そこでラーマはスグリーヴァとともに、猿の群れに囲まれて、周囲二ヨージャナのスヴェーラ山の頂に登った。

6.40.2

स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन्।
त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥ ६.४०.२ ॥

そこでしばし立ち止まり、十方を見渡して、ヴィシュヴァカルマンが造った、トリクータの美しい頂の都を見た。

6.40.3

ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम्।
तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ६.४०.३ ॥

彼は、美しい林で飾られ、よく整えられたラṅカーを見た。そしてその門楼の頂に立つ、近づき難い羅刹の王をも見た。

6.40.4

श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्।
रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ॥ ६.४०.४ ॥

白い牦牛の尾の払子に囲まれ、勝利の傘で飾られ、赤栴檀を塗られ、宝石の装身具で飾られていた。

6.40.5

नीलजीमूतसंकाशं हेमसंछादिताम्बरम्।
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ ६.४०.५ ॥

紺青の雷雲のようで、衣は金で覆われ、胸にはアイラーヴァタの牙の先による深い傷跡があった。

6.40.6

शशलोहितरागेण संवीतं रक्तवाससा।
संध्यातपेन संछन्नं मेघराशिमिवाम्बरे ॥ ६.४०.६ ॥

赤い衣をまとい、血の色の月光のような赤い光に包まれ、夕日の光に覆われて、空に浮かぶ雲の塊のようであった。

6.40.7

पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः।
दर्शनाद् राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ६.४०.७ ॥

猿の王たちが見守り、ラーガヴァ(ラーマ)もまた見守る中、羅刹王を目にしてスグリーヴァは突然立ち上がった。

6.40.8

क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च।
अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ६.४०.८ ॥

怒りの勢い、勇気、力に満ちたスグリーヴァは山頂から立ち上がり、城門楼の台の上へ跳び移った。

6.40.9

स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना।
तृणीकृत्य च तद् रक्षः सोऽब्रवीत् परुषं वचः ॥ ६.४०.९ ॥

しばし立ち止まり、恐れのない心で見つめ、その羅刹を一本の草のように見なして、厳しい言葉を発した。

6.40.10

लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस।
न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ ६.४०.१० ॥

私は世界の主ラーマの友であり僕である、羅刹よ。今日、お前は私によって解放されるのではない。王の主の威光によってのみお前は解放されるのだ。

6.40.11

इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि।
आकृष्य मुकुटं चित्रं पातयामास तद् भुवि ॥ ६.४०.११ ॥

こう言うや、スグリーヴァは突然跳び上がり、その上へ飛びかかった。見事な冠をつかんで引き、地に落とさせた。

6.40.12

समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः।
सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥ ६.४०.१२ ॥

素早く近づいてくるのを見て、夜の徘徊者は言った。「スグリーヴァよ、私の目の届かぬところで、お前は首を失うことになるだろう。」

6.40.13

इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत् तले।
कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥ ६.४०.१३ ॥

こう言うと、彼はすぐに立ち上がり、両腕で彼を掌の上へ叩きつけた。

6.40.14

परस्परं स्वेदविदिग्धगात्रौ
परस्परं शोणितरक्तदेहौ।
परस्परं श्लिष्टनिरुद्धचेष्टौ
परस्परं शाल्मलिकिंशुकाविव ॥ ६.४०.१४ ॥

汗にまみれ血に赤く染まった身体で、互いにしっかりと絡み合い、動きを封じられて、シャールマリとキンシュカの二本の木のようであった。

6.40.15

मुष्टिप्रहारैश्च तलप्रहारै-
ररत्निघातैश्च कराग्रघातैः।
तौ चक्रतुर्युद्धमसह्यरूपं
महाबलौ राक्षसवानरेन्द्रौ ॥ ६.४०.१५ ॥

拳の打撃、掌の打撃、前腕の衝撃、指先の一撃をもって、その二人の大力の者、羅刹と猿王は、耐えがたい戦いを繰り広げた。

6.40.16

कृत्वा नियुद्धं भृशमुग्रवेगौ
कालं चिरं गोपुरवेदिमध्ये।
उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ
पादक्रमाद् गोपुरवेदिलग्नौ ॥ ६.४०.१६ ॥

極めて激しい勢いの二人は、門の壇の中央で長く激しく組み合った。互いを持ち上げ、身をかがめ、足の運びで門の壇にしがみついた。

6.40.17

अन्योन्यमापीड्य विलग्नदेहौ
तौ पेततुः सालनिखातमध्ये।
उत्पेततुर्भूमितलं स्पृशन्तौ
स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥ ६.४०.१७ ॥

互いを押し合い、身体を絡ませたまま、二人はサーラの堀の中へ落ちた。やがて大地に触れて跳ね起き、しばし立ち止まって荒い息をついていた。

6.40.18

आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रैः
संयोजयामासतुराहवे तौ।
संरम्भशिक्षाबलसम्प्रयुक्तौ
सुचेरतुः सम्प्रति युद्धमार्गैः ॥ ६.४०.१८ ॥

互いに抱き合い締め合い、腕を軛として、二人は戦いに組み合った。怒りと修練と力に満ちた二人は、今や戦いの道を巧みに動き回った。

6.40.19

शार्दूलसिंहाविव जातदंष्ट्रौ
गजेन्द्रपोताविव सम्प्रयुक्तौ।
संहत्य संवेद्य च तौ कराभ्यां
तौ पेततुर्वै युगपद् धरायाम् ॥ ६.४०.१९ ॥

二人は牙の生え揃った虎と獅子のように、二頭の子象のように組み合っていた。互いにぶつかり合い手で掴み合って、二人は同時に大地に倒れ込んだ。

6.40.20

उद्यम्य चान्योन्यमधिक्षिपन्तौ
संचक्रमाते बहु युद्धमार्गे।
व्यायामशिक्षाबलसम्प्रयुक्तौ
क्लमं न तौ जग्मतुराशु वीरौ ॥ ६.४०.२० ॥

互いを持ち上げ投げ合いながら、二人は戦いの道を長く動き回った。鍛錬と技と力を備えた二人の勇士は、すぐには疲れなかった。

6.40.21

बाहूत्तमैर्वारणवारणाभै-
र्निवारयन्तौ परवारणाभौ।
चिरेण कालेन भृशं प्रयुद्धौ
संचेरतुर्मण्डलमार्गमाशु ॥ ६.४०.२१ ॥

象の鼻のような最上の腕で、二人は敵の象のように互いを押し止めた。長い時を経て、激しく戦い続けた二人は、やがて円を描く道を素早く動き回った。

6.40.22

तौ परस्परमासाद्य यत्तावन्योन्यसूदने।
मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ॥ ६.४०.२२ ॥

互いに近づき、相手を殺そうと意気込んだ二人は、餌を奪い合う二匹の猫のように、何度も何度も立ち止まった。

6.40.23

मण्डलानि विचित्राणि स्थानानि विविधानि च।
गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥ ६.४०.२३ ॥

奇妙な円を描く動き、さまざまな構え、牛の尿の跡のように蛇行する見事な動き、そして進退の動き。

6.40.24

तिरश्चीनगतान्येव तथा वक्रगतानि च।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ ६.४०.२४ ॥

横向きと曲線の動き、打撃からの回避、それをかわすことと、周りを駆け回ること。

6.40.25

अभिद्रवणमाप्लावमवस्थानं सविग्रहम्।
परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ ६.४०.२५ ॥

突撃、飛びかかること、踏みとどまること、組み合っての格闘、振り返ること、脇へ退くこと、逃走、そして飛び降りること。

6.40.26

उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ।
तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ ६.४०.२६ ॥

進むことと退くこと。戦の道に熟達した二人、猿の王と羅刹王ラーヴァナは、互いに相対して動き回った。

6.40.27

एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः।
आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः ॥ ६.४०.२७ ॥

その間に羅刹は自らの幻術の力を用いようと取りかかった。それを知って、猿の王もまた。

6.40.28

उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः।
रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ ६.४०.२८ ॥

そのとき彼は勝者のように疲れなく、空へと舞い上がった。ラーヴァナはここに立ち尽くし、猿の王に欺かれたのであった。

6.40.29

अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति-
र्निशिचरपतिमाजौ योजयित्वा श्रमेण।
गगनमतिविशालं लङ्घयित्वार्कसूनु-
र्हरिगणबलमध्ये रामपार्श्वं जगाम ॥ ६.४०.२९ ॥

そこで、戦において名声を得た猿の王の筆頭は、夜を行く者の王を苦心の末に戦いに引き止め、広大な空を飛び越えて、猿の軍勢の中のラーマのそばへ、太陽の子が向かった。

6.40.30

पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः।
रघुवरनृपसूनोर्वर्धयन् युद्धहर्षं
तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ ६.४०.३० ॥

風のように速いハヌマーンは大いに喜んで軍勢に入り、ラグ族の最良の王子の戦いの歓喜を高め、木々や獣の群れの長たちに敬われた、猿の主である。