Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.42.1

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ॥ ६.४२.१ ॥

于是那些罗刹来到罗波那的宫殿,禀报说城池已被罗摩与猴族围困。

6.42.2

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः।
विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत ॥ ६.४२.२ ॥

夜行者听闻城池被围,怒火中烧,加倍布置防守,登上了宫殿。

6.42.3

स ददर्श वृतां लङ्कां सशैलवनकाननाम्।
असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ६.४२.३ ॥

他看见楞伽城连同山岳、园林与森林,四面被渴望战斗的无数猴群包围。

6.42.4

स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम्।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ६.४२.४ ॥

看见大地都被猴群占满,他陷入沉思,思量该如何消灭他们。

6.42.5

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ६.४२.५ ॥

长久思索后,他强作镇定,长眼的罗波那望见了罗怙后裔与猴群。

6.42.6

राघवः सह सैन्येन मुदितो नाम पुप्लुवे।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६.४२.६ ॥

罗怙后裔罗摩欢喜地与军队一同跃起,望见楞伽城四面被罗刹守护与包围。

6.42.7

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ ६.४२.७ ॥

十车王之子罗摩看见装饰着五彩旗幡的楞伽城,怀着忧伤的心,立即朝悉多走去。

6.42.8

अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा।
पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ॥ ६.४२.८ ॥

这里,那双如小鹿般眼睛的、闍那伽之女悉多,因我而受苦;被忧愁煎熬,消瘦憔悴,躺在光秃秃的地上。

6.42.9

निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन्।
क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे ॥ ६.४२.९ ॥

righteous罗摩想着正受折磨的毗提诃之女,立即命令猴众去诛杀敌人。

6.42.10

एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा।
संघर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥ ६.४२.१० ॥

当行事毫不费力的罗摩说完这些话,急切奋进的跳跃猴众以狮吼之声震响四方。

6.42.12

शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा।
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ ६.४२.१२ ॥

他们说:“我们用山峰,或者仅用拳头,把这楞伽城摧散吧!”猴群的统帅们举起山岭的峰巅与大山顶,拔起各种树木,站立待命。

6.42.13

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ ६.४२.१३ ॥

罗刹之主注视之时,那些军队分成若干部分,为了使罗怙之子欢喜,便登上了楞伽城。

6.42.14

ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः।
लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः ॥ ६.४२.१४ ॥

他们面色赤红、身披金光,为罗摩甘愿舍生,手持娑罗树与山岳作战的猴军径直向楞伽前进。

6.42.15

ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः।
प्राकाराग्राण्यसंख्यानि ममन्थुस्तोरणानि च ॥ ६.४२.१५ ॥

这些猴军以树木、山峰与拳头,击碎楞伽无数的城墙顶端与门楼。

6.42.16

परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान्।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ ६.४२.१६ ॥

他们以尘土、山峰、草与木柴填满清澈水流的护城壕沟,猴军因此开辟了通路。

6.42.17

ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः।
कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा ॥ ६.४२.१७ ॥

于是千队、千万队、队长、数百千万队及其他猴军,纷纷攀上了楞伽。

6.42.18

काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवंगमाः।
कैलासशिखराग्राणि गोपुराणि प्रमथ्य च ॥ ६.४२.१८ ॥

猴军碾碎金色的门楼,击倒如同吉罗娑山峰般耸立的城楼,继续前进。

6.42.19

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
लङ्कां तामभिधावन्ति महावारणसंनिभाः ॥ ६.४२.१९ ॥

猴军跳跃、腾挪、咆哮,宛如巨象,向那座楞伽猛冲而去。

6.42.20

जयत्युरुबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ६.४२.२० ॥

愿大力的罗摩获胜,愿大力的罗什曼那获胜。愿受罗怙后裔庇护的国王须羯哩婆获胜。

6.42.21

इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ ६.४२.२१ ॥

众猴如此呼喊咆哮,能随意变化形体,奔向楞伽城的城墙。

6.42.22

वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ ६.४२.२२ ॥

毗罗波呼、苏波呼、那罗与波那娑,这些猴群统帅逼近城墙,在城边驻扎下来。与此同时,他们设立了营地。

6.42.23

पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ ६.४२.२३ ॥

东门处,强大的俱目陀被一千万只猴子环绕,围住城门而立;这些猴子自以为已经获胜。

6.42.24

सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः।
पनसश्च महाबाहुर्वानरैरभिसंवृतः ॥ ६.४२.२४ ॥

为辅佐他,猴子普罗伽娑被派到此处;大臂的波那娑也被猴群环绕,留在了那里。

6.42.25

दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ ६.४२.२५ ॥

英勇强大的猴子舍塔跋利抵达南门,四周环绕着二千万只猴子,围住城门而立。

6.42.26

सुषेणः पश्चिमद्वारं गत्वा तारापिता बली।
आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः ॥ ६.४२.२६ ॥

达罗之父、英勇的苏舍那来到西门,被千千万万猿猴簇拥着,包围了城门并驻扎在那里。

6.42.27

उत्तरद्वारमागम्य रामः सौमित्रिणा सह।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ ६.४२.२७ ॥

罗摩与罗什曼那(苏弥得拉之子)一同来到北门,猴王须羯哩婆也英勇地包围并驻守在那里。

6.42.28

गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ ६.४२.२८ ॥

身躯庞大的戈朗古罗与形貌可怖的伽瓦克沙,被千万猿众簇拥,二位大勇士立于罗摩身旁。

6.42.29

ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ ६.४२.२९ ॥

烟黑(达摩罗)是熊族中怒火可怖的勇士,灭敌者,被千千万万熊众簇拥,大勇而立于罗摩身旁。

6.42.30

संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः।
वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः ॥ ६.४२.३० ॥

毗庇沙那披甲持杵,大勇无比,被警觉的大臣们簇拥,立于大力者所在之处。

6.42.31

गजो गवाक्षो गवयः शरभो गन्धमादनः।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ६.४२.३१ ॥

象、伽瓦克沙、伽瓦雅、沙罗跋与香山,四面奔走,守护着猴军。

6.42.32

ततः कोपपरीतात्मा रावणो राक्षसेश्वरः।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा ॥ ६.४२.३२ ॥

于是罗刹之主罗波那心被愤怒充满,立即下令诸军出发。

6.42.33

एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम्।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ ६.४२.३३ ॥

罗刹们听到罗波那口中说出的这番话,立即以可怖的吼声突然齐声高呼。

6.42.34

ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः।
हेमकोणैरभिहता राक्षसानां समन्ततः ॥ ६.४२.३४ ॥

于是,罗刹四周,以金杵敲击的、鼓面如月般洁白的战鼓被唤醒,齐声响起。

6.42.35

विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ६.४२.३५ ॥

数以十万计的海螺,充满了可怖罗刹口中的气息,发出巨大的轰鸣。

6.42.36

ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः।
विद्युन्मण्डलसंनद्धाः सबलाका इवाम्बुदाः ॥ ६.४२.३६ ॥

那些身躯美丽、呈深蓝色的罗刹,手持海螺,披着闪电的光环,如同带着白鹤的乌云般闪耀。

6.42.37

निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥ ६.४२.३७ ॥

于是,在罗波那驱使下欣喜的大军,如同大海在时节涨潮般奔涌而出。

6.42.38

ततो वानरसैन्येन मुक्तो नादः समन्ततः।
मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ ६.४२.३८ ॥

于是猴兵之军从四面发出吼声,马拉亚山连同其山坡、高原与洞穴都充满了回响。

6.42.39

शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम्।
पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयत् ॥ ६.४२.३९ ॥

海螺与战鼓的轰鸣,以及勇捷战士如狮的吼声,使大地、天空和大海都响彻起来。

6.42.40

गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि।
रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः ॥ ६.४२.४० ॥

加上象群的嘶吼、马匹的嘶鸣、战车轮的隆隆声,以及罗刹的呼喊。

6.42.41

एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ६.४२.४१ ॥

就在此时,罗刹与猴兵之间爆发了一场惨烈的战斗,如同往昔诸神与阿修罗之间的那场战争。

6.42.42

ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः।
निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान् ॥ ६.४२.४२ ॥

他们挥舞燃烧的狼牙棒、矛、三叉戟和战斧,宣扬自己的勇武,将所有猴兵击杀。

6.42.43

तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः ॥ ६.४२.४३ ॥

同样,身躯庞大、迅捷的猴兵以树木、山峰,以及爪牙,将那些罗刹击杀。

6.42.44

राजा जयति सुग्रीव इति शब्दो महानभूत्।
राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः ॥ ६.४२.४४ ॥

“愿国王须羯哩婆胜利!”一阵巨大的呼声响起;他们高呼“国王胜利,胜利!”之后,每个人便开始讲述自己名字的来历。

6.42.45

राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान्।
वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ ६.४२.४५ ॥

然而,站在城墙上的其他可怕罗刹,用投枪和长矛刺穿了下到地面的猴族战士。

6.42.46

वानराश्चापि संक्रुद्धाः प्राकारस्थान् महीं गताः।
राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः ॥ ६.४२.४६ ॥

猴族战士也怒火中烧,跃入空中,用自己的臂膀将站在城墙上的和已下到地面的罗刹全部打落。

6.42.47

स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ६.४२.४७ ॥

罗刹与猴族之间那场激烈的厮杀,变成了一片血肉泥沼,景象宛如奇观。