ヴァールミーキのラーマーヤナ · サルガ 6.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.48.1
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्।
विललाप भृशं सीता करुणं शोककर्शिता ॥ ६.४८.१ ॥
夫が殺され、そして力強いラクシュマナも倒れたのを見て、悲しみにやつれたシーターは、いたく痛ましく嘆き悲しんだ。
6.48.2
ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ६.४८.२ ॥
「あなたは息子を持つ身で、寡婦ではない」と私に告げた人相見たちは、今日ラーマが殺されてみれば、皆、賢者を装った偽りを言う者たちであった。
6.48.3
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ६.४८.३ ॥
「あなたは祭主の第一の妃であり妻である」と私を呼んだ祭祀者たちは、今日ラーマが殺されてみれば、皆、賢者を装った偽りを言う者たちであった。
6.48.4
वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम्।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ६.४८.४ ॥
勇敢な王たちの妃たちの中で夫に敬われる者だと私を知っていた人々は、今日ラーマが殺されてみれば、皆、賢者を装った偽りを言う者たちであった。
6.48.5
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ६.४८.५ ॥
集会で私を吉兆の女だと告げた再生族の占星術師たちは、今日ラーマが殺されてみれば、皆、賢者を装った偽りを言う者たちであった。
6.48.6
इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः।
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६.४८.६ ॥
名家の女性の足にあるこの蓮の印こそ、王たちが夫とともに、王権の灌頂において彼女らを聖別する徴なのだ。
6.48.7
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ६.४८.७ ॥
女性を寡婦となし、幸運から遠ざける凶兆の印は、私自身には見えません。見えるのは、私の吉相がすでに滅びている姿です。
6.48.8
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः।
तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ६.४८.८ ॥
女性の相によって真に「蓮華」と呼ばれるとされた印も、ラーマが殺された今、私にとっては偽りとなってしまいました。
6.48.9
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंहते मम।
वृत्ते चारोमके जङ्घे दन्ताश्चाविरला मम ॥ ६.४८.९ ॥
私の髪は細く、揃っていて、濃い青色です。眉は離れています。腿は丸く、体毛がありません。歯は密で、すき間がありません。
6.48.10
शङ्खे नेत्रे करौ पादौ गुल्फावूरू समौ चितौ।
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ ६.४८.१० ॥
私のこめかみ、両目、両手、両足、くるぶし、太腿は均整がとれ、形よく整っています。爪は滑らかに曲がり艶があり、指は揃っています。
6.48.11
स्तनौ चाविरलौ पीनौ मामकौ मग्नचूचुकौ।
मग्ना चोत्सेधनी नाभिः पार्श्वोरस्कं च मे चितम् ॥ ६.४८.११ ॥
私の両の乳房は寄り添い、ふくよかで、乳首は内に沈んでいます。臍は沈みながらも高く、脇腹と胸は整っています。
6.48.12
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च।
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥ ६.४८.१२ ॥
私の肌は宝石のように輝き、体毛は柔らかです。十二の相によって、私は安定した吉祥の相を備えた者と告げられました。
6.48.13
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्।
मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः ॥ ६.४८.१३ ॥
私の手足は完全で、大麦の粒のように欠けがなく、美しい色をしていました。少女の相を知る者たちは、私を微笑みの柔らかな女だと知っていたのです。
6.48.14
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह।
कृतान्तकुशलैरुक्तं तत् सर्वं वितथीकृतम् ॥ ६.४८.१४ ॥
運命を読むことに長けたバラモンたちは、夫とともに私が王位への灌頂を受けると告げていました。しかしそれはすべて虚しくされてしまいました。
6.48.15
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ ६.४८.१५ ॥
ジャナスターナを掃討し、知らせを得て、動かざる大海を渡ったあの二人の兄弟は、牛の蹄の跡ほどの水たまりで殺されたのです。
6.48.16
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत ॥ ६.४८.१६ ॥
確かに、ヴァルナの矢、アグニの矢、インドラの矢、ヴァーユの矢、そしてブラフマーの頭の矢――これらの武器を、ラグの二人の末裔は手にしていたのです。
6.48.17
अदृश्यमानेन रणे मायया वासवोपमौ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ ६.४८.१७ ॥
戦いの中、姿を見せぬ者の幻術によって、インドラに等しい私の夫、ラーマとラクシュマナは殺されました。守護者を持っていた私は、今や守る者のない身となったのです。
6.48.18
नहि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः।
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ ६.४८.१८ ॥
ラーガヴァ(ラーマ)の視界に入れば、戦場で敵が生きて帰ることはできません。たとえ心のように速い者であっても。
6.48.19
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥ ६.४८.१९ ॥
時には過度の遅れはなく、死神は打ち破りがたい。そこでラーマは弟とともに戦いに倒れて横たわっている。
6.48.20
न शोचामि तथा रामं लक्ष्मणं च महारथम्।
नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम् ॥ ६.४८.२० ॥
ラーマと大戦車の勇士ラクシュマナのためにも、自分や母のためにも、苦行の義母のためほどには私は嘆かない。
6.48.21
सा तु चिन्तयते नित्यं समाप्तव्रतमागतम्।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥ ६.४८.२१ ॥
彼女は絶えず思う。誓いを果たして帰還した(ラーマ)にいつ会えるのか、シーターと、ラーガヴァとともにいるラクシュマナにいつ会えるのか、と。
6.48.22
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्।
मा विषादं कृथा देवि भर्तायं तव जीवति ॥ ६.४८.२२ ॥
嘆き悲しむ彼女に、羅刹女トリジャターは言った。女神よ、絶望してはなりません。あなたの夫はまだ生きています。
6.48.23
कारणनि च वक्ष्यामि महान्ति सदृशानि च।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ ६.४८.२३ ॥
女神よ、この二人の兄弟ラーマとラクシュマナがなお生きている、その大きく相応しい理由を私は告げましょう。
6.48.24
नहि कोपपरीतानि हर्षपर्युत्सुकानि च।
भवन्ति युधि योधानां मुखानि निहते पतौ ॥ ६.४८.२४ ॥
戦場で主君が討たれたとき、兵士たちの顔は怒りに覆われることも、喜びに逸ることもない。
6.48.25
इदं विमानं वैदेहि पुष्पकं नाम नामतः।
दिव्यं त्वां धारयेन् नेदं यद्येतौ गतजीवितौ ॥ ६.४८.२५ ॥
ヴァイデーヒーよ、これはプシュパカという名の神々しい空飛ぶ車です。もしこの二人が命を失っていたなら、これはあなたを運ばなかったでしょう。
6.48.26
हतवीरप्रधाना हि गतोत्साहा निरुद्यमा।
सेना भ्रमति संख्येषु हतकर्णेव नौर्जले ॥ ६.४८.२६ ॥
主だった勇士たちが倒れ、気力を失い動けなくなった軍勢は、水上で舵を失った舟のように陣の中をさまよっている。
6.48.27
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तपस्विनि।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ ६.४८.२७ ॥
苦行の女よ、しかし、動じることなく落ち着いたこの別の軍勢は、カークツトゥスタの二人、ラーマとラクシュマナを守っている。私は愛情からこれをあなたに告げる。
6.48.28
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ॥ ६.४८.२८ ॥
だからあなたは安心していなさい。喜ばしい推察から、カークツトゥスタの二人が無事であることを悟りなさい。私は愛情からあなたにこう言う。
6.48.29
अनृतं नोक्तपूर्वं मे न च वक्ष्यामि मैथिलि।
चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम ॥ ६.४८.२९ ॥
マイティリーよ、私は以前も偽りを語ったことがなく、今も語らない。あなたの善い振る舞いと穏やかな性質によって、あなたは私の心に入り込んだ。
6.48.30
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः।
तादृशं दर्शनं दृष्ट्वा मया चोदीरितं तव ॥ ६.४८.३० ॥
この二人は、インドラを筆頭とする神々とアスラたちでさえ、戦場で打ち負かすことはできない。そのような光景を見たからこそ、私はあなたにこう告げたのだ。
6.48.31
इदं तु सुमहच्चित्रं शरैः पश्यस्व मैथिलि।
विसंज्ञौ पतितावेतौ नैव लक्ष्मीर्विमुञ्चति ॥ ६.४८.३१ ॥
マイティリーよ、矢が生んだこの驚くべき光景を見よ。気を失って倒れた二人を、それでもラクシュミーは見捨てていない。
6.48.32
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ६.४८.३२ ॥
一般に、生気と寿命の尽きた男たちの顔を見れば、ただ変わり果てた姿があるだけである。
6.48.33
त्यज शोकं च दुःखं च मोहं च जनकात्मजे।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ ६.४८.३३ ॥
ジャナカの娘よ、悲しみと苦しみと迷いを捨てよ。ラーマとラクシュマナのために、今日生きることはできない。
6.48.34
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा।
कृताञ्जलिरुवाचेमामेवमस्त्विति मैथिली ॥ ६.४८.३४ ॥
その言葉を聞き、神の娘のようなシーターは合掌して言った。「そうでありますように。」
6.48.35
विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम्।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ६.४८.३५ ॥
思考のように速いプシュパカ車を引き返させ、悲しむシーターはトリジャタによってラーンカーへ連れ戻された。
6.48.36
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥ ६.४८.३६ ॥
それからトリジャタと共にプシュパカから降り、彼女は羅刹の女たちによってアショーカの園へと連れて行かれた。
6.48.37
प्रविश्य सीता बहुवृक्षखण्डां
तां राक्षसेन्द्रस्य विहारभूमिम्।
सम्प्रेक्ष्य संचिन्त्य च राजपुत्रौ
परं विषादं समुपाजगाम ॥ ६.४८.३७ ॥
多くの木立に満ちた羅刹王の遊楽の地に入り、それを見て、二人の王子を思い起こし、シーターは深い悲嘆に沈んだ。