ヴァールミーキのラーマーヤナ · サルガ 6.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.49.1
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ।
निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ ६.४९.१ ॥
恐ろしい矢の縛めに縛られたダシャラタの二人の息子は、血にまみれ、二匹の蛇のように荒い息をして横たわっていた。
6.49.2
सर्वे ते वानरश्रेष्ठाः ससुग्रीवमहाबलाः।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ ६.४९.२ ॥
あの強大な猿の勇士たちは全員、スグリーヴァと共に、二人の偉大な魂を取り囲み、悲しみに沈んで立っていた。
6.49.3
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्।
स्थिरत्वात् सत्त्वयोगाच्च शरैः संदानितोऽपि सन् ॥ ६.४९.३ ॥
その間に、勇猛なラーマは、その堅固さと内なる力によって、矢に縛られていたにもかかわらず意識を取り戻した。
6.49.4
ततो दृष्ट्वा सरुधिरं निषण्णं गाढमर्पितम्।
भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ ६.४९.४ ॥
そこで、血にまみれ、深く射抜かれ、悲しげな顔で横たわる弟を見て、苦悩したラーマは嘆き悲しんだ。
6.49.5
किं नु मे सीतया कार्यं लब्धया जीवितेन वा।
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ६.४९.५ ॥
今日、戦いに敗れて横たわる弟を見る私にとって、取り戻したシーターも、この命も、何の役に立つのか。
6.49.6
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता।
न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ ६.४९.६ ॥
人の世でシーターのような女性は探せば見つかるだろう。しかし、ラクシュマナのような弟、助力者、戦いの友は見つからない。
6.49.7
परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम्।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ६.४९.७ ॥
猴たちの目の前で、スミトラーの子に喜びを増す者ラクシュマナが死んだなら、私も彼らの前で命を捨てよう。
6.49.8
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्।
कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ॥ ६.४९.८ ॥
母カウサリヤーに何と言えばよいのか。カイケーイーに何と言えばよいのか。息子に会いたいと切望する母スミトラーにどう話せばよいのか。
6.49.9
विवत्सां वेपमानां च वेपन्तीं कुररीमिव।
कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ ६.४९.९ ॥
子牛を失った雌牛のように、雌のミサゴのように震えるスミトラーを、彼なしで戻ったら、どう慰めればよいのか。
6.49.10
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्।
मया सह वनं यातो विना तेनाहमागतः ॥ ६.४९.१० ॥
栄光あるシャトルグナとバラタに、どう伝えればよいのか。私と共に森へ行った者を欠いて、私は戻ってしまった。
6.49.11
उपालम्भं न शक्ष्यामि सोढुमम्बासुमित्रया।
इहैव देहं त्यक्ष्यामि नहि जीवितुमुत्सहे ॥ ६.४९.११ ॥
母スミトラーの非難には耐えられない。ここで身を捨てよう。もう生きていたくはない。
6.49.12
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ ६.४९.१२ ॥
悪行を重ねた、不義の私に恥あれ!私のために、ラクシュマナは倒れ、矢の寝台に死者のように横たわっている。
6.49.13
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण।
गतासुर्नाद्य शक्तोऽसि मामार्तमभिभाषितुम् ॥ ६.४९.१३ ॥
ラクシュマナよ、お前は常に深く悲しんでいたにもかかわらず私を慰めてくれた。今は命の息が去り、苦しむ私に語りかけることができない。
6.49.14
येनाद्य बहवो युद्धे निहता राक्षसाः क्षितौ।
तस्यामेवाद्य शूरस्त्वं शेषे विनिहतः शनैः ॥ ६.४९.१४ ॥
今日、戦いで地上に多くのラークシャサを倒した勇士よ、お前は今その同じ大地の上で、ゆっくりと打ち倒されて横たわっている。
6.49.15
शयानः शरतल्पेऽस्मिन् सशोणितपरिस्रुतः।
शरभूतस्ततो भासि भास्करोऽस्तमिव व्रजन् ॥ ६.४९.१५ ॥
この矢の寝床に横たわり、血を流しながら、矢そのものとなったお前は、沈みゆく太陽のように輝いている。
6.49.16
बाणाभिहतमर्मत्वान्न शक्नोषीह भाषितुम्।
रुजा चाब्रुवतो यस्य दृष्टिरागेण सूच्यते ॥ ६.४९.१६ ॥
矢に急所を射抜かれたため、お前はここで話すことができない。痛みに語れぬお前の赤い目が、それを示している。
6.49.17
यथैव मां वनं यान्तमनुयातो महाद्युतिः।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ ६.४९.१७ ॥
私が森へ行く時、この大いに輝く者が私に従ってくれたように、私もまた彼に従ってヤマの住処まで行こう。
6.49.18
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः।
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ ६.४९.१८ ॥
いつも愛しい親族で、常に私に従ってくれたこの者は、不徳な私の悪い策略のために、今このような状態に陥った。
6.49.19
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे।
परुषं विप्रियं चापि श्रावितं तु कदाचन ॥ ६.४९.१९ ॥
勇士ラクシュマナは激しく怒ったときでさえ、私に厳しく不快な言葉を口にしたことを、私は覚えていない。
6.49.20
विससर्जैकवेगेन पञ्चबाणशतानि यः।
इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ॥ ६.४९.२० ॥
一度の猛攻で五百本の矢を放ち、矢と武器においてカールタヴィーリヤさえも凌ぐラクシュマナ。
6.49.21
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः।
सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥ ६.४९.२१ ॥
偉大なるインドラの武器さえ武器で防ぎ得た者、高価な寝台にふさわしい者が、今は大地に打ち倒されて横たわっている。
6.49.22
तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः।
यन्मया न कृतो राजा राक्षसानां विभीषणः ॥ ६.४९.२२ ॥
空しい嘆きは必ず私を焼き尽くすだろう、疑いはない。私はラークシャサの王としてヴィビーシャナを立てなかったのだから。
6.49.23
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि।
मत्वा हीनं मया राजन् रावणोऽभिभविष्यति ॥ ६.४९.२३ ॥
スグリーヴァよ、今すぐここから引き返すべきだ。王よ、私が力を失ったと思えば、ラーヴァナはお前を打ち負かすだろうから。
6.49.24
अङ्गदं तु पुरस्कृत्य ससैन्यं सपरिच्छदम्।
सागरं तर सुग्रीव नीलेन च नलेन च ॥ ६.४९.२४ ॥
スグリーヴァよ、アンガダを先頭に立て、軍勢と随行の者たちを率いて、ニーラやナラとともに海を渡れ。
6.49.25
कृतं हि सुमहत्कर्म यदन्यैर्दुष्करं रणे।
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ ६.४९.२५ ॥
戦において他者には困難な大功がなされた。熊の王と牛尾の猿の主に、私は満足している。
6.49.26
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च।
युद्धं केसरिणा संख्ये घोरं सम्पातिना कृतम् ॥ ६.४९.२६ ॥
アンガダが功を成し、マインダとドヴィヴィダもなした。戦いではケーサリンとサンパーティが恐ろしい戦いをした。
6.49.27
गवयेन गवाक्षेण शरभेण गजेन च।
अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ॥ ६.४९.२७ ॥
ガヴァヤ、ガヴァークシャ、シャラバ、ガジャ、そして他の猿たちは、私のために命を捨てて戦った。
6.49.28
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः।
यत्तु शक्यं वयस्येन सुहृदा वा परं मम ॥ ६.४९.२८ ॥
スグリーヴァよ、運命は人間には乗り越えられない。しかし友や善意の者が私のためにできたことは、なされた。
6.49.29
कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा।
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ॥ ६.४९.२९ ॥
スグリーヴァよ、不法を畏れるおまえは、すべてをなした。猿の中の雄牛たちよ、あなたがたは友の務めを成し遂げた。
6.49.30
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ।
शुश्रुवुस्तस्य ये सर्वे वानराः परिदेवितम् ॥ ६.४९.३० ॥
私はあなたがた皆に許可を与える。望む所へ行ってよい。彼の嘆きを聞いたすべての猿たちよ。
6.49.31
वर्तयांचक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ६.४९.३१ ॥
黒くない眼をしたヴァーナラたちは、眼から涙を流した。
6.49.32
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः।
आजगाम गदापाणिस्त्वरितं यत्र राघवः ॥ ६.४९.३२ ॥
そこでヴィビーシャナは全軍を配置し、棍棒を手にして、急いでラーガヴァのいるところへ来た。
6.49.33
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्।
वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ६.४९.३३ ॥
青い眼膏の山のように速く近づく彼を見て、ヴァーナラたちはみなラーヴァナの息子だと思い逃げ去った。