蚁垤《罗摩衍那》 · 篇 6.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.5.1
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता।
सागरस्योत्तरे तीरे साधु सा विनिवेशिता ॥ ६.५.१ ॥
Nīla 按照规制妥善守卫这支严整的大军,大军被恰当地安置在大海的北岸。
6.5.2
मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ।
विचेरतुश्च तां सेनां रक्षार्थं सर्वतोदिशम् ॥ ६.५.२ ॥
摩因达与德维维达这两位最优秀的猴子,在那里向四面八方巡行,以守护这支大军。
6.5.3
निविष्टायां तु सेनायां तीरे नदनदीपतेः।
पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ६.५.३ ॥
大军驻扎在江河之主大海的岸边时,罗摩看见站在身旁的罗什曼那,便说了这番话。
6.5.4
शोकश्च किल कालेन गच्छता ह्यपगच्छति।
मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ६.५.४ ॥
悲伤确实会随时间流逝而消退,但因我见不到我的爱人,我的悲痛日复一日地增长。
6.5.5
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च।
एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ६.५.५ ॥
我的爱人远在他方,这不使我痛苦;她被掳走,这也不使我痛苦;我所哀痛的,只是她的青春正在流逝。
6.5.6
वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश।
त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ ६.५.६ ॥
风啊,从我爱人所在的方向吹来吧;拂过她之后,也拂过我。在你身上我感到身体的触碰,在月亮里我感到目光的相遇。
6.5.7
तन्मे दहति गात्राणि विषं पीतमिवाशये।
हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ ६.५.७ ॥
它灼烧着我的肢体,仿佛我饮下了毒药。这正是我心爱的人被掳走时所说的话:“哈,我的夫君!”
6.5.8
तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा।
रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥ ६.५.८ ॥
以与她分离为燃料,以对她的思念之清焰为火,我的身体日夜在欲火中燃烧。
6.5.9
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना।
एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत् ॥ ६.५.९ ॥
啊,苏弥德罗!没有你,我将潜入大海而睡去。即使欲火如此燃烧,愿它也不要焚烧在水中沉睡的我。
6.5.10
बह्वेतत् कामयानस्य शक्यमेतेन जीवितुम्।
यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥ ६.५.१० ॥
对于渴慕之人,这已经很多了:仅凭此便可活下去——我与那双腿美好的她,同居于同一片大地之上。
6.5.11
केदारस्येवाकेदारः सोदकस्य निरूदकः।
उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ६.५.११ ॥
我就像没有田地的干旱之地,或有水之处却无水。因为我听说她仍然活着,我便靠着她的情意而活。
6.5.12
कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्।
विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ ६.५.१२ ॥
何时我能战胜敌人,再见到那腰身美好、双目如莲瓣般修长的悉多,如同见到富足的吉祥天女?
6.5.13
कदा सुचारुदन्तोष्ठं तस्याः पद्ममिवाननम्।
ईषदुन्नाम्य पास्यामि रसायनमिवातुरः ॥ ६.५.१३ ॥
何时我才能微微抬起她那如莲花般、牙齿与嘴唇都十分秀美的脸,像病人饮下仙丹一样饮尽它?
6.5.14
तौ तस्याः सहितौ पीनौ स्तनौ तालफलोपमौ।
कदा न खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः ॥ ६.५.१४ ॥
她那如棕榈果般饱满的双乳,何时会在她拥抱我时,微微颤动地贴近我?
6.5.15
सा नूनमसितापाङ्गी रक्षोमध्यगता सती।
मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ ६.५.१५ ॥
那位黑眼睛的贞洁女子身陷罗刹之中,虽以我为夫主,却找不到保护者,仿佛没有夫主一般。
6.5.16
कथं जनकराजस्य दुहिता मम च प्रिया।
राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ ६.५.१६ ॥
竟然,那位遮那迦王之女、我的爱妻、十车王的儿媳,怎会身处罗刹女之中而躺卧着?
6.5.17
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति।
विधूय जलदान् नीलान् शशिलेखा शरत्स्विव ॥ ६.५.१७ ॥
她将甩开那些不可撼动的罗刹而起身,如同秋日里月牙拨开蓝色的云彩而现身。
6.5.18
स्वभावतनुका नूनं शोकेनानशनेन च।
भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ ६.५.१८ ॥
悉多本性纤细,如今因悲伤与绝食,又因处境与时节的颠倒,必定更加消瘦了。
6.5.19
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्।
शोकं प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥ ६.५.१९ ॥
何时我将箭矢射入罗刹之王的胸膛,抛弃心中的悲伤,收回我的忧愁?
6.5.20
कदा नु खलु मे साध्वी सीतामरसुतोपमा।
सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ॥ ६.५.२० ॥
我那如天女般贞洁的悉多,何时怀着思念搂住我的脖颈,洒下喜悦的泪水?
6.5.21
कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्।
सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ ६.५.२१ ॥
何时我将骤然抛却这因与弥提拉公主分离而生的可怕悲伤,如同脱去不洁白的衣裳?
6.5.22
एवं विलपतस्तस्य तत्र रामस्य धीमतः।
दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥ ६.५.२२ ॥
当智慧的罗摩在那里如此哀叹时,白日将尽,光芒黯淡的太阳西沉了。
6.5.23
आश्वासितो लक्ष्मणेन रामः संध्यामुपासत।
स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ ६.५.२३ ॥
罗摩得到罗什曼那的安慰,一边思念莲瓣眼的悉多,一边在悲痛中举行了黄昏祭礼。