蚁垤《罗摩衍那》 · 篇 6.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.52.1
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ ६.५२.१ ॥
众猴见恐怖勇猛的罗刹烟眼(Dhūmrākṣa)出阵,皆欢欣鼓舞,渴望战斗,纷纷吼叫。
6.52.2
तेषां सुतुमुलं युद्धं संजज्ञे कपिरक्षसाम्।
अन्योन्यं पादपैर्घोरैर्निघ्नतां शूलमुद्गरैः ॥ ६.५२.२ ॥
猴众与罗刹之间爆发了极其激烈的大战,他们以可怖的树木、长矛和铁锤相互猛击。
6.52.3
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः।
वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः ॥ ६.५२.३ ॥
可怖的猴众被罗刹从四面砍杀,而罗刹也被猴众以树木击倒在地。
6.52.4
राक्षसास्त्वभिसंक्रुद्धा वानरान् निशितैः शरैः।
विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥ ६.५२.४ ॥
然而盛怒的罗刹以锋利的箭射穿了猴众;那些箭模样可怖,以鹤鸟(kaṅka)的羽毛为翎,飞行笔直。
6.52.5
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः।
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संश्रितैः ॥ ६.५२.५ ॥
他们手持可怖的棍棒、铁剑、铁锤、恐怖的铁杵以及奇异的三叉戟等兵器。
6.52.6
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः।
अमर्षजनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६.५२.६ ॥
即便被罗刹撕裂,那些大力的猴众因愤怒而振奋,仍像无所畏惧一般施展英勇的行动。
6.52.7
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ६.५२.७ ॥
他们身体被箭射穿,身躯被矛刺破,那些猴群首领便在那里抓起树木和巨石。
6.52.8
ते भीमवेगा हरयो नर्दमानास्ततस्ततः।
ममन्थू राक्षसान् वीरान् नामानि च बभाषिरे ॥ ६.५२.८ ॥
那些速度骇人的猴子怒吼着四处奔突,碾碎了勇猛的罗刹,并高声报出自己的名字。
6.52.9
तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्।
शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥ ६.५२.९ ॥
猴子与罗刹之间的那场战斗变得既奇异又可怖,各种巨石和多枝的树木都被用上了。
6.52.10
राक्षसा मथिताः केचिद् वानरैर्जितकाशिभिः।
प्रवेमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ ६.५२.१० ॥
一些被渴望胜利的猴子碾压的罗刹,这些以血为食的家伙,从口中吐出鲜血。
6.52.11
पार्श्वेषु दारिताः केचित् केचिद् राशीकृता द्रुमैः।
शिलाभिश्चूर्णिताः केचित् केचिद् दन्तैर्विदारिताः ॥ ६.५२.११ ॥
有的人两侧被撕裂;有的被树木堆积成堆;有的被巨石砸成粉末;还有的被牙齿撕裂。
6.52.12
ध्वजैर्विमथितैर्भग्नैः खड्गैश्च विनिपातितैः।
रथैर्विध्वंसितैः केचिद् व्यथिता रजनीचराः ॥ ६.५२.१२ ॥
一些夜行的罗刹因旗帜被摧毁折断、宝剑被打落、战车被毁坏而痛苦不堪。
6.52.13
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम्।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ ६.५२.१३ ॥
大地表面被如山般的象王、林居者的山峰、被踩踏的马匹及其骑手所覆盖。
6.52.14
वानरैर्भीमविक्रान्तैराप्लुत्योत्प्लुत्य वेगितैः।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिदारिताः ॥ ६.५२.१४ ॥
勇猛可怖的猴子们跳跃飞扑、迅猛冲来,用锋利的指甲撕裂罗刹的面孔。
6.52.15
विषण्णवदना भूयो विप्रकीर्णशिरोरुहाः।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ ६.५२.१५ ॥
面容沮丧、头发散乱的罗刹们被血腥气迷乱,再次倒在地上。
6.52.16
अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ ६.५२.१६ ॥
另一些极其愤怒、勇猛可怖的罗刹,用坚硬如金刚雷击的手掌向猴子猛扑过去。
6.52.17
वानरैः पातयन्तस्ते वेगिता वेगवत्तरैः।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥ ६.५२.१७ ॥
罗刹们被猴子击倒,又被更加迅捷的猴子急速打击,被拳头、脚、牙齿和树木击打倒地。
6.52.18
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः।
रोषेण कदनं चक्रे वानराणां युयुत्सताम् ॥ ६.५२.१८ ॥
罗刹中的雄牛烟眼见军队溃逃,怒火中烧,对奋力作战的猴子大肆屠杀。
6.52.19
प्रासैः प्रमथिताः केचिद् वानराः शोणितस्रवाः।
मुद्गरैराहताः केचित् पतिता धरणीतले ॥ ६.५२.१९ ॥
一些猴族战士被长矛刺伤,血流不止;另一些被铁棒击中,倒在地上。
6.52.20
परिघैर्मथिताः केचिद् भिन्दिपालैश्च दारिताः।
पट्टिशैर्मथिताः केचिद् विह्वलन्तो गतासवः ॥ ६.५२.२० ॥
一些被铁棍砸碎,一些被标枪刺穿;一些被利剑击碎,踉跄倒下,气绝身亡。
6.52.21
केचिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः।
केचिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ॥ ६.५२.२१ ॥
一些林中的猴族战士浑身浴血,倒毙于地;另一些被愤怒的罗刹在战场上驱散,四散溃逃,终致灭亡。
6.52.22
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः।
विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥ ६.५२.२२ ॥
一些人心口被刺穿,侧身躺卧;另一些被三叉戟撕裂,肠子流了出来。
6.52.23
तत् सुभीमं महद्युद्धं हरिराक्षससंकुलम्।
प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् ॥ ६.५२.२३ ॥
那场极其可怖的大战,猴族与罗刹交织,兵器密布,乱石与树木遍地,景象骇人。
6.52.24
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्।
मन्दस्तनितगीतं तद् युद्धगान्धर्वमाबभौ ॥ ६.५२.२४ ॥
弓弦的嗡鸣如琴弦般悦耳,节拍如打嗝般跳跃,又如闷雷的歌唱——那战场上的乾闼婆之乐便这样显现了。
6.52.25
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि।
हसन् विद्रावयामास दिशस्ताञ्छरवृष्टिभिः ॥ ६.५२.२५ ॥
然而手持弓箭的法努罗克沙在战阵前沿笑着,以箭雨将猴群驱散向四面八方。
6.52.26
धूम्राक्षेणार्दितं सैन्यं व्यथितं प्रेक्ष्य मारुतिः।
अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ ६.५२.२६ ॥
风之子看到军队被法努罗克沙侵扰而慌乱,勃然大怒,抓起一块巨石向前冲去。
6.52.27
क्रोधाद् द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः।
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ ६.५२.२७ ॥
他因愤怒双眼通红加倍,勇武堪比其父,将那块巨石掷向法努罗克沙的战车。
6.52.28
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात्।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ ६.५२.२८ ॥
看到巨石向自己坠落,他匆忙举起战锤,迅速从战车上跃下,稳稳地立于大地之上。
6.52.29
सा प्रमथ्य रथं तस्य निपपात शिला भुवि।
सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ ६.५२.२९ ॥
那巨石碾碎了他的战车,连同车轮、车轭、马匹、旗帜与弓一起坠落于地。
6.52.30
स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः।
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ ६.५२.३० ॥
风之子哈努曼击碎了他的战车,然后用连同树干与枝条的大树,对罗刹展开屠杀。
6.52.31
विभिन्नशिरसो भूत्वा राक्षसा रुधिरोक्षिताः।
द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥ ६.५२.३१ ॥
头颅破裂、浑身血污的罗刹,以及被树木压碎的其他人,纷纷倒在地上。
6.52.32
विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः।
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ ६.५२.३२ ॥
击溃罗刹大军后,风之子哈努曼举起一座山峰,向烟目冲去。
6.52.33
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्।
विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥ ६.५२.३३ ॥
见他冲来,勇猛的烟目举起狼牙棒,怒吼一声,突然向哈努曼猛扑过去。
6.52.34
तस्य क्रुद्धस्य रोषेण गदां तां बहुकण्टकाम्।
पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ॥ ६.५२.३४ ॥
愤怒的烟目用那满是尖刺的狼牙棒,猛击哈努曼的头部。
6.52.35
ताडितः स तया तत्र गदया भीमवेगया।
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ॥ ६.५२.३५ ॥
被那股可怕力量的狼牙棒击中,这位拥有风之力的猴子却毫不在意这一击。
6.52.36
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत्।
स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः ॥ ६.५२.३६ ॥
他将一座山峰砸向烟目的头顶正中;烟目全身伸展开来,被山峰击中。
6.52.37
पपात सहसा भूमौ विकीर्ण इव पर्वतः।
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः ॥ ६.५२.३७ ॥
见达摩罗叉已死,他忽然倒地,如同崩散的山岳。残存的夜行者惊恐万分,在猴子的追击下逃入楞伽城。
6.52.38
स तु पवनसुतो निहत्य शत्रून्
क्षतजवहाः सरितश्च संविकीर्य।
रिपुवधजनितश्रमो महात्मा
मुदमगमत् कपिभिः सुपूज्यमानः ॥ ६.५२.३८ ॥
那位风神之子杀死众敌,冲散了血流成河的河水,因杀戮敌人而疲惫,这位大德之人受到猴子们的极大尊敬,心中感到喜悦。