Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.55.1

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः।
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ ६.५५.१ ॥

罗波那听说伐阇罗达陀罗被波利之子所杀,便对合掌站在面前的军队统帅说了这番话。

6.55.2

शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् ॥ ६.५५.२ ॥

让勇猛无敌的罗刹们迅速出发,由精通一切兵器与箭矢的阿堪帕那统率在前。

6.55.3

एष शास्ता च गोप्ता च नेता च युधि सत्तमः।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ ६.५५.३ ॥

他是战场上的统治者、守护者与领袖,乃是最优秀的人;他时常希望我昌盛,又时常热爱战争。

6.55.4

एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः ॥ ६.५५.४ ॥

他将战胜迦恭图二王子与大力的须羯哩婆,并杀死其余凶猛的猴众——此事毫无疑问。

6.55.5

परिगृह्य स तामाज्ञां रावणस्य महाबलः।
बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥ ६.५५.५ ॥

他领受了罗波那的命令,那位大力而迅捷的统帅便随即驱动了军队。

6.55.6

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः।
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ ६.५५.६ ॥

于是,手持种种兵器、目光凶恶、形貌可怖的诸罗刹首领,在军统帅的催促下冲了出来。

6.55.7

रथमास्थाय विपुलं तप्तकाञ्चनभूषणम्।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥ ६.५५.७ ॥

登上饰有熔金的宽大战车,形如云、色如云,发出如云雷般的巨大吼声,(他出阵了)。

6.55.8

राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः।
नहि कम्पयितुं शक्यः सुरैरपि महामृधे ॥ ६.५५.८ ॥

此时,被可怕的罗刹环绕的阿堪帕纳出阵了;在大战中,即使诸神也无法使他动摇。

6.55.9

अकम्पनस्ततस्तेषामादित्य इव तेजसा।
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ॥ ६.५५.९ ॥

于是阿堪帕纳在他们之中光辉如太阳,因渴望交战而愤怒,奔驰而出。

6.55.10

अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम्।
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥ ६.५५.१० ॥

忽然,拉车的马匹生出沮丧;那喜爱战斗之人的左眼也开始跳动。

6.55.11

विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः।
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम् ॥ ६.५५.११ ॥

他面色变得苍白,声音哽咽;在吉日之中,此时却降临了一个带着狂风的凶日。

6.55.12

ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः।
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥ ६.५५.१२ ॥

所有飞禽走兽都发出凶厉、令人恐惧的叫声;他肩膀宽厚如狮,勇猛如虎。

6.55.13

तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्।
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥ ६.५५.१३ ॥

他不顾那些凶兆,径直走向战场;那罗刹出发时,众罗刹也随他一同出发。

6.55.14

बभूव सुमहान् नादः क्षोभयन्निव सागरम्।
तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥ ६.५५.१४ ॥

一声巨大的吼声响起,仿佛要搅动大海;那声音使猴众的大军惊恐不已。

6.55.15

द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम्।
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् ॥ ६.५५.१५ ॥

双方挥舞树木与山岩,奋起而战,猴众与罗刹之间爆发了极其惨烈的战斗。

6.55.16

रामरावणयोरर्थे समभित्यक्तदेहिनः।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ॥ ६.५५.१६ ॥

为了罗摩与罗波那,他们都不顾自身性命;个个都是力大无比的英雄,都像山岳一般。

6.55.17

हरयो राक्षसाश्चैव परस्परजिघांसया।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ॥ ६.५५.१७ ॥

猴众与罗刹彼此都想杀死对方,在激战中以极大的气势怒吼;他们的吼声响彻四方。

6.55.18

शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम्।
रजश्चारुणवर्णाभं सुभीममभवद् भृशम् ॥ ६.५५.१८ ॥

他们因愤怒而彼此咆哮的巨大声响传来,泛着赤红色的尘土变得极其骇人。

6.55.19

उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश।
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना ॥ ६.५५.१९ ॥

猴子与罗刹扬起的尘土笼罩了十方;那如丝绸般淡黄的尘土使他们彼此看不见。

6.55.20

संवृतानि च भूतानि ददृशुर्न रणाजिरे।
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा ॥ ६.५५.२० ॥

战场上生灵被遮蔽而不可见;旗帜、幡旗、盾牌,甚至马匹都看不见。

6.55.21

आयुधं स्यन्दनो वापि ददृशे तेन रेणुना।
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥ ६.५५.२१ ॥

在那尘土中连兵器和战车也看不见,但他们怒吼着相互扑击的声音极其巨大。

6.55.22

श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे।
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे ॥ ६.५५.२२ ॥

战斗中只听见喧嚣,人形不可辨认;猴子们极为愤怒,竟击打猴子。

6.55.23

राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा।
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥ ६.५५.२३ ॥

那时,在黑暗中,罗刹杀死了罗刹;猴子与罗刹在击杀敌人的同时,也击杀了自己人。

6.55.24

रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्।
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः ॥ ६.५५.२४ ॥

那时他们把大地浸透鲜血,使其如涂满泥浆一般;然后尘土被血流洒湿,便平息落下。

6.55.25

शरीरशवसंकीर्णा बभूव च वसुंधरा।
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः ॥ ६.५५.२५ ॥

大地被尸体与躯体所覆盖,遍布树木、长矛、铁棍、投枪、巨石与铁杵。

6.55.26

राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा।
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान् ॥ ६.५५.२६ ॥

罗刹与猴众迅速以力相击,以如铁杵般的臂膀相搏,如山岳一般激战。

6.55.27

हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे।
राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः ॥ ६.५५.२७ ॥

行事凶猛的猴众在战场上击杀罗刹;罗刹则极度愤怒,手持长矛与铁杵。

6.55.28

कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः।
अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः ॥ ६.५५.२८ ॥

罗刹以极其凶猛的兵器在那里杀死猴众;罗刹大军统帅阿嵌鞞那大怒。

6.55.29

संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्।
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥ ६.५५.२९ ॥

他鼓励所有勇猛凶悍的罗刹;而猴众也以巨大的树木与巨石击打罗刹。

6.55.30

विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ ६.५५.३० ॥

他们奋勇冲上,以勇力斩断兵刃,将罗刹撕裂。与此同时,英勇的猴将俱牟陀与那罗上前。

6.55.31

मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्।
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे ॥ ६.५५.३१ ॥

摩因达与德维维达怒不可遏,以无与伦比的速度冲上前去。这些大英雄在罗刹大军的前线以树木猛击。

6.55.32

कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम् ॥ ६.५५.३२ ॥

那些猴中之雄轻而易举地造成了巨大的杀戮。众人以各式兵器猛烈地碾压罗刹。