蚁垤《罗摩衍那》 · 篇 6.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.56.1
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ ६.५६.१ ॥
阿伽帕那见到猴中之最所立的这一大功,便在战斗中激起了猛烈的愤怒。
6.56.2
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम्।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ ६.५६.२ ॥
那位年轻的战士怒火升腾,挥动着他那张至高的弓,看到敌人的所为,便对御者说了这番话。
6.56.3
तत्रैव तावत् त्वरितो रथं प्रापय सारथे।
एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे ॥ ६.५६.३ ॥
御者啊,快把战车直接驾到那里去。这些强大的猴子正在战场上杀死大量罗刹。
6.56.4
एते च बलवन्तो वा भीमकोपाश्च वानराः।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ६.५६.४ ॥
这些强大而怒气骇人的猴子,手持树木与山石作为武器,正立在我的面前。
6.56.5
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्।
एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम् ॥ ६.५६.५ ॥
我想杀死这些以战功自夸的猴子;看来罗刹的全部军力已被他们摧毁。
6.56.6
ततः प्रचलिताश्वेन रथेन रथिनां वरः।
हरीनभ्यपतद् दूराच्छरजालैरकम्पनः ॥ ६.५६.६ ॥
于是,乘驾着奔驰之马的车战勇士中最优秀的阿伽帕那,从远处便倾泻箭网,向猴子们猛扑过去。
6.56.7
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे।
अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः ॥ ६.५६.७ ॥
被阿甘帕那的箭所击溃的猴众,连站立都做不到,更遑论在战中搏斗;他们全都逃散了。
6.56.8
तान् मृत्युवशमापन्नानकम्पनशरानुगान्।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ ६.५६.८ ॥
见那些追随阿甘帕那箭矢的族人已落入死亡之手,大力的哈努曼走到他们身边站定。
6.56.9
तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ६.५६.९ ॥
众猴中的英雄们见这位大跳跃者,心中欢喜,便在战场上聚集,将他团团围住。
6.56.10
व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः।
बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ ६.५६.१० ॥
见哈努曼屹立不动,那些猴中的雄者便变得强盛,因为他们已依托于一位强者。
6.56.11
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ६.५६.११ ॥
然而阿甘帕那向屹立如山的哈努曼倾泻箭雨,犹如大因陀罗以暴雨倾盆而下。
6.56.12
अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः।
अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ ६.५६.१२ ॥
这大力的猴子不顾落在身上的箭流,决心要杀死阿甘帕那。
6.56.13
स प्रहस्य महातेजा हनूमान् मारुतात्मजः।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ ६.५६.१३ ॥
于是大光明的风神之子哈努曼笑着,仿佛要震动大地,向那罗刹冲去。
6.56.14
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ ६.५६.१४ ॥
当他咆哮、光芒闪耀时,他的形体变得无可抵挡,如同燃烧的烈火。
6.56.15
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ ६.५६.१५ ॥
他知道自己没有武器,满怀愤怒,那猴中之雄迅速拔起了一座山。
6.56.16
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः।
स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ ६.५६.१६ ॥
风神之子以单手抓住那座巨山,发出巨大的吼声,威猛地将它旋转。
6.56.17
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्।
पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥ ६.५६.१७ ॥
于是他冲向那罗刹之王阿甘帕那,正如往昔因陀罗在战斗中以金刚杵攻击那摩吒。
6.56.18
अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम्।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ ६.५६.१८ ॥
然而阿甘帕那看见那高举的山峰,便从远处以大箭和半月形箭将其射碎。
6.56.19
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम्।
विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः ॥ ६.५६.१९ ॥
罗刹的箭将空中的山峰劈裂,碎片散落坠落。哈努曼见此情景,怒不可遏。
6.56.20
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ ६.५६.२० ॥
这只猴子怒气与傲气充盈,走到阿湿伐迦尔纳树旁,迅速将它连根拔起,仿佛那是一座高耸的大山。
6.56.21
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः।
प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ ६.५६.२१ ॥
他抓住那粗大的树干,这位大光辉者怀着极大的喜悦将它高高举起,在战场上挥舞旋转。
6.56.22
प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान्।
हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम् ॥ ६.५६.२२ ॥
哈努曼极度愤怒,疾速奔跑,猛力折断树木,并用双脚撕裂大地。
6.56.23
गजांश्च सगजारोहान् सरथान् रथिनस्तथा।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ ६.५६.२३ ॥
智慧的哈努曼击杀了象群及其象夫,车辆及其车兵,还有步行的罗刹。
6.56.24
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम्।
हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ ६.५६.२४ ॥
罗刹们看见愤怒的哈努曼手持大树,宛如夺命的阎摩,于是四散奔逃。
6.56.25
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्।
ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च ॥ ६.५६.२५ ॥
勇士阿kampana看见愤怒地向他扑来、令罗刹恐惧的哈努曼,顿时心神激荡,怒吼起来。
6.56.26
स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः।
निर्बिभेद महावीर्यं हनूमन्तमकम्पनः ॥ ६.५६.२६ ॥
阿kampana以十四支锐利、穿透身躯的箭矢,射穿了这位大力的哈努曼。
6.56.27
स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः।
हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ ६.५६.२७ ॥
哈努曼就这样被铁箭和锐利的枪矛所覆盖,英雄的身影仿佛一座高耸的山峦,连同它的山坡拔地而起。
6.56.28
विरराज महावीर्यो महाकायो महाबलः।
पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ ६.५६.२८ ॥
这位大勇、身躯庞大、力量强大的哈努曼光辉闪耀,宛如盛开的无忧树,又如无烟之火。
6.56.29
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्।
शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ ६.५६.२९ ॥
于是哈努曼拔起另一棵树,以无与伦比的速度举起,迅速击中罗刹之王阿kampana的头部。
6.56.30
स वृक्षेण हतस्तेन सक्रोधेन महात्मना।
राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ६.५६.३० ॥
那罗刹被这位愤怒的伟大灵魂、猴王之主所挥的树击中,倒地而死。
6.56.31
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ६.५६.३१ ॥
众罗刹见罗刹王Akampana倒卧在地,皆惊恐不安,如同大地震动时树木摇颤。
6.56.32
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः।
लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः ॥ ६.५६.३२ ॥
众罗刹弃下兵器,被败北后,遭众猴追逐,惊惧地向楞伽逃去。
6.56.33
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः।
भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः ॥ ६.५६.३३ ॥
披头散发,惊慌失措,傲气尽失,战败的他们惊恐逃窜,劳累的汗水从身上流淌。
6.56.34
अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात्।
पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ६.५६.३४ ॥
彼此推挤,惊恐地进入城中,惶惑不安,一次又一次回头张望。
6.56.35
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः।
समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ६.५६.३५ ॥
罗刹既已入楞伽,诸大力猴群聚集一处,共同向Hanumān致敬。
6.56.36
सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत्।
हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ ६.५६.३६ ॥
欢喜的Hanumān也因具备善德,依各人之分,以善意回敬那些猴子。
6.56.37
विनेदुश्च यथाप्राणं हरयो जितकाशिनः।
चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ६.५६.३७ ॥
胜利而自豪的猴子们全力咆哮,并在那里再次拖拽仍然活着的罗刹。
6.56.38
स वीरशोभामभजन्महाकपिः
समेत्य रक्षांसि निहत्य मारुतिः।
महासुरं भीमममित्रनाशनं
विष्णुर्यथैवोरुबलं चमूमुखे ॥ ६.५६.३८ ॥
那位大猿摩如提与罗刹交战并将其杀死,获得了英雄的光辉,正如大力的毗湿奴在军前斩杀可怖的大阿修罗、摧毁敌人者时所闪耀的那样。
6.56.39
अपूजयन् देवगणास्तदाकपिं
स्वयं च रामोऽतिबलश्च लक्ष्मणः।
तथैव सुग्रीवमुखाः प्लवंगमा
विभीषणश्चैव महाबलस्तदा ॥ ६.५६.३९ ॥
于是诸天神众尊敬那只猴子;至勇的罗摩本人与罗什曼那同样如此,还有以须羯里婆为首的跳跃猴众,以及大力的毗毗沙那,也都向他致敬。