ヴァールミーキのラーマーヤナ · サルガ 6.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.57.1
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः।
किंचिद् दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ ६.५७.१ ॥
アカンパナの死を聞いて、ラークシャサの王ラーヴァナは怒り、顔にわずかに翳りが差した。彼はそれらの大臣たちを見つめた。
6.57.2
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च।
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः।
पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ॥ ६.५७.२ ॥
ラーヴァナはしばし思案し、大臣たちと協議した後、前日、ラークシャサの王としてラン カー市を巡り、すべての守備隊を視察した。
6.57.3
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्।
ददर्श नगरीं राजा पताकाध्वजमालिनीम् ॥ ६.५७.३ ॥
王はその都を見た。羅刹の大軍に守られ、多くの守備隊に囲まれ、旗と幟の飾りで彩られていた。
6.57.4
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः।
उवाचात्महितं काले प्रहस्तं युद्धकोविदम् ॥ ६.५७.४ ॥
都が包囲されているのを見て、ラークシャサの王ラーヴァナは、時を得て、戦に long けたプラハスタに、自分にとって益となる言葉を語った。
6.57.5
पुरस्योपनिविष्टस्य सहसा पीडितस्य ह।
नान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥ ६.५७.५ ॥
戦に秀でた者よ。包囲され、突然苦しめられている我々にとって、新たな戦いによる以外に逃れる道は見えない。
6.57.6
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम।
इन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ ६.५७.६ ॥
私か、クンバカルナか、お前か、我が将軍インドラジットか、ニクンバか——誰かがこのような重荷を担うべきだ。
6.57.7
स त्वं बलमतः शीघ्रमादाय परिगृह्य च।
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ६.५७.७ ॥
今すぐ軍勢を集めて率い、勝利のために、すべての森の住人たちがいる所へ出発せよ。
6.57.8
निर्याणादेव तूर्णं च चलिता हरिवाहिनी।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ६.५७.८ ॥
出発するやいなや猿の軍勢はすぐに動揺し、羅刹の王たちの咆哮を聞けば逃げ去るだろう。
6.57.9
चपला ह्यविनीताश्च चलचित्ताश्च वानराः।
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ६.५७.९ ॥
猿は落ち着きがなく、従順でなく、心も移ろいやすい。象が獅子の咆哮に耐えられないように、彼らはその音に耐えられないだろう。
6.57.10
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह।
अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥ ६.५७.१० ॥
その軍勢が逃げ去れば、ラーマはラクシュマナと共に、頼る者なく無力となり、プラハスタよ、お前の支配下に入るだろう。
6.57.11
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता।
प्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम् ॥ ६.५७.११ ॥
危機はもともと不確かなもの。ここではその不確かさは解消されていない。逆であれ順であれ、我らにとって益になると思うことを述べよ。
6.57.12
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः।
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ ६.५७.१२ ॥
ラーヴァナにこう言われて、軍の将プラハスタは羅刹の王にこう言った——アスラの王にウシャナス(シュクラ)が語ったように。
6.57.13
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ ६.५७.१३ ॥
王よ、私たちは以前、有能な大臣たちと共に協議しました。しかし互いに熟慮した結果、私たちの間に論争が生じたのです。
6.57.14
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया।
अप्रदाने पुनर्युद्धं दृष्टमेव तथैव नः ॥ ६.५७.१४ ॥
シーターを返すことが最善だと私は決めました。返さなければ、再び戦争になることは明らかです。
6.57.15
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया।
सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव ॥ ६.५७.१५ ॥
あなたから贈り物や敬意、さまざまな慰めの言葉で絶えず厚遇された私が、ふさわしい時に、どうしてあなたのためを思わずにいられましょうか。
6.57.16
नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च।
त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥ ६.५७.१६ ॥
私の命も、息子も、妻も、財産も守るに値しません。あなたのために戦いで命を捧げる私をご覧ください。
6.57.17
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः।
उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ॥ ६.५७.१७ ॥
主ラーヴァナにこのように語った後、軍の総司令官プラハスタは、目の前に立つ部隊長たちにこう言った。
6.57.18
समानयत मे शीघ्रं राक्षसानां महाबलम्।
मद्बाणानां तु वेगेन हतानां च रणाजिरे ॥ ६.५७.१८ ॥
ラークシャサの大いなる力を急いで私のもとへ連れて来い。そして私の矢の勢いによって戦場で倒れた者たちも連れて来い。
6.57.19
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम्।
तस्य तद् वचनं श्रुत्वा बलाध्यक्षा महाबलाः ॥ ६.५७.१९ ॥
「今日、肉食の鳥たちを森に住む者たちの肉で満たせ」。その言葉を聞いて、偉大な力を持つ軍の指揮官たちは……
6.57.20
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे।
सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः ॥ ६.५७.२० ॥
羅刹の館で彼らは軍勢を動員し、たちまちそこは種々の恐ろしい武器で満ちあふれた。
6.57.21
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला।
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ॥ ६.५७.२१ ॥
ラーンカーはその羅刹の勇士たちで象の群れのように満ち、聖火を供養し、バラモンに礼拝する者たちで……
6.57.22
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ।
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ ६.५७.२२ ॥
澄ましバターの香りを運ぶ芳しい風が吹き、彼らはマントラで清められた様々な形の花輪を手に取った。
6.57.23
संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा।
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ ६.५७.२३ ॥
戦いの備えを整え歓喜した羅刹たちは、弓と鎧を携えて勢いよく飛び出した。
6.57.24
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्।
अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम् ॥ ६.५७.२४ ॥
王ラーヴァナを見て、彼らはプラハスタを取り囲んだ。そして王に別れを告げ、恐ろしいベーリー太鼓を打ち鳴らした。
6.57.25
आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्।
हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम् ॥ ६.५७.२५ ॥
プラハスタは用意された戦車に乗った。そこには素早い馬が繋がれ、熟練の御者がおり、よく制御されていた。
6.57.26
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्।
उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ॥ ६.५७.२६ ॥
その戦車は大雲の轟きのように響き、まさに月と太陽のように輝いた。蛇の旗によって難攻不落で、美しい天蓋と良く整えられた装備を備えていた。
6.57.27
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया।
ततस्तं रथमास्थाय रावणार्पितशासनः ॥ ६.५७.२७ ॥
それは金の格子で飾られ、その輝きで笑っているかのようであった。そしてラーヴァナから託された命を帯びたプラハスタが、その戦車に乗った。
6.57.28
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः।
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः।
वादित्राणां च निनदः पूरयन्निव मेदिनीम् ॥ ६.५७.२८ ॥
大軍に囲まれて、彼は速やかにラーンカーを出発した。すると、雨雲の雷鳴のような太鼓の轟きと、楽器の音が大地を満たすかのように響いた。
6.57.29
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ।
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ॥ ६.५७.२९ ॥
軍の将が出発すると、法螺貝の音が聞こえた。恐ろしい声で吠えながら、羅刹たちが前へと進んだ。
6.57.30
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ ६.५७.३० ॥
恐ろしい姿と巨大な体をもち、プラハスタの前に進んだのは、ナラーンタカ、クンバハヌ、マハーナーダ、サムンナタであった。これらプラハスタの臣下たちは、彼を取り囲んで出発した。
6.57.31
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ।
गजयूथनिकाशेन बलेन महता वृतः ॥ ६.५७.३१ ॥
陣形を整えた極めて恐ろしい軍勢とともに、東門から出て行った。象の群れのような大軍に囲まれていた。
6.57.32
सागरप्रतिमौघेन वृतस्तेन बलेन सः।
प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः ॥ ६.५७.३२ ॥
大海のように押し寄せる軍勢に囲まれ、怒れるプラハスタは、カーラ、アンタカ、ヤマのように出て行った。
6.57.33
तस्य निर्याणघोषेण राक्षसानां च नर्दताम्।
लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ६.५७.३३ ॥
彼の出陣の轟きと羅刹たちの咆哮に、ラṅカーのすべての生き物が歪んだ声で叫んだ。
6.57.34
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः।
मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ ६.५७.३४ ॥
肉と血を食べる鳥たちが雲一つない空に入り、戦車に向かって左回りの不吉な輪を描いた。
6.57.35
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे।
अन्तरिक्षात् पपातोल्का वायुश्च परुषं ववौ ॥ ६.५७.३५ ॥
火炎を吐く恐ろしい山犬たちが吠えた。空から流星が落ち、荒々しい風が吹いた。
6.57.36
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे।
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ॥ ६.५७.३६ ॥
惑星たちは互いにぶつかり合って輝かず、羅刹の戦車の上に、荒々しい雷鳴をともなう雲が立ち込めた。
6.57.37
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान्।
केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः ॥ ६.५७.३७ ॥
血が雨のように彼に降り注ぎ、前を進む者たちをも濡らした。旗の頂に、南に顔を向けた一羽の禿鷲が舞い降りた。
6.57.38
नदन्नुभयतः पार्श्वं समग्रां श्रियमाहरत्।
सारथेर्बहुशश्चास्य संग्राममवगाहतः ॥ ६.५७.३८ ॥
両側で吠えながら、それは彼の輝かしい威容を奪い去った。戦いに幾度も身を投じた御者の威容も、同じく奪われた。
6.57.39
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः।
निर्याणश्रीश्च या च स्याद् भास्वरा च सुदुर्लभा ॥ ६.५७.३९ ॥
馬を御する御者の手から鞭が落ちた。出立の輝き、すなわち輝かしく極めて稀な威光もまた失われた。
6.57.40
सा ननाश मुहूर्तेन समे च स्खलिता हयाः।
प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्।
युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥ ६.५७.४० ॥
その輝きは一瞬で失われ、平地でさえ馬は躓いた。徳と武勇で名高いプラハスタが戦いに出た時、猿の軍勢は様々な武器を携えて彼に向かって進撃した。
6.57.41
अथ घोषः सुतुमुलो हरीणां समजायत।
वृक्षानारुजतां चैव गुर्वीर्वै गृह्णतां शिलाः ॥ ६.५७.४१ ॥
そのとき猿たちの凄まじい喧騒が起こった。木々を折り、重い岩を掴んでいたのである。
6.57.42
नदतां राक्षसानां च वानराणां च गर्जताम्।
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ६.५७.४२ ॥
咆哮する羅刹と雷鳴のような猿たちの中で、両軍は歓喜に沸いた。羅刹の群れと森に住む猿たちである。
6.57.43
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्।
परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ६.५७.४३ ॥
速く力強い戦士たちが互いの死を望み、呼び合い挑み合う大きな喧騒が聞こえる。
6.57.44
ततः प्रहस्तः कपिराजवाहिनी-
मभिप्रतस्थे विजयाय दुर्मतिः।
विवृद्धवेगां च विवेश तां चमूं
यथा मुमूर्षुः शलभो विभावसुम् ॥ ६.५७.४४ ॥
そこで邪心のプラハスタは勝利のために猴王の軍勢へ進み、死を望む蛾が火に飛び込むように、速さを増したその軍勢へと突入した。