ヴァールミーキのラーマーヤナ · サルガ 6.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.59.1
तस्मिन् हते राक्षससैन्यपाले
प्लवंगमानामृषभेण युद्धे।
भीमायुधं सागरवेगतुल्यं
विदुद्रुवे राक्षसराजसैन्यम् ॥ ६.५९.१ ॥
羅刹軍の守護者が猿の英雄に戦場で討たれると、海の波の勢いに等しい恐ろしい武器を持つ羅刹王の軍勢は、四方へ逃げ散った。
6.59.2
गत्वा तु रक्षोधिपतेः शशंसुः
सेनापतिं पावकसूनुशस्तम्।
तच्चापि तेषां वचनं निशम्य
रक्षोधिपः क्रोधवशं जगाम ॥ ६.५९.२ ॥
彼らは羅刹の主のもとへ行き、火神の子に討たれた将軍のことを報告した。その言葉を聞いて、羅刹の主は怒りに支配された。
6.59.3
संख्ये प्रहस्तं निहतं निशम्य
क्रोधार्दितः शोकपरीतचेताः।
उवाच तान् राक्षसयूथमुख्या-
निन्द्रो यथा निर्जरयूथमुख्यान् ॥ ६.५९.३ ॥
プラハスタが戦いで討たれたと聞き、怒りに苛まれ、悲しみに心を奪われた彼は、インドラが神々の長たちに語るように、羅刹の軍の長たちに語りかけた。
6.59.4
नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ६.५९.४ ॥
インドラの軍を砕いた、わが軍の守り手は、従者と象たちとともに討たれた。その敵を軽んじてはならない。
6.59.5
सोऽहं रिपुविनाशाय विजयायाविचारयन्।
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ ६.५९.५ ॥
それゆえ私自身が、ためらうことなく、敵の殲滅と勝利のために、あの驚くべき戦場の最前線へ行こう。
6.59.6
अद्य तद् वानरानीकं रामं च सहलक्ष्मणम्।
निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः।
अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥ ६.५९.६ ॥
今日、私は猴の軍勢とラクシュマナを伴うラーマを、燃え盛る火が森を焼くように、矢の奔流で焼き尽くそう。今日、猴の血で大地を潤そう。
6.59.7
स एवमुक्त्वा ज्वलनप्रकाशं
रथं तुरंगोत्तमराजियुक्तम्।
प्रकाशमानं वपुषा ज्वलन्तं
समारुरोहामरराजशत्रुः ॥ ६.५९.७ ॥
こう言い終えて、彼は火のように輝き、優れた馬の列に繋がれ、自らの身体の光で輝きながら燃え上がる戦車に登った。彼は神々の王の敵であった。
6.59.8
स शङ्खभेरीपणवप्रणादै-
रास्फोटितक्ष्वेडितसिंहनादैः ।
पुण्यैः स्तवैश्चापि सुपूज्यमान-
स्तदा ययौ राक्षसराजमुख्यः ॥ ६.५९.८ ॥
法螺、大鼓、小太鼓の音と、拍手、咆哮、獅子の吼え声のなか、吉祥な賛歌によって十分に讃えられ、羅刹王の中で第一の者はそのとき出発した。
6.59.9
स शैलजीमूतनिकाशरूपै-
र्मांसाशनैः पावकदीप्तनेत्रैः।
बभौ वृतो राक्षसराजमुख्यो
भूतैर्वृतो रुद्र इवामरेशः ॥ ६.५९.९ ॥
山や雲のような姿をし、肉を食らい、火のように輝く目をもつ羅刹たちに囲まれ、羅刹王の中の第一の者は、精霊たちに囲まれたルドラのように、神々の主のように輝いた。
6.59.10
ततो नगर्याः सहसा महौजा
निष्क्रम्य तद् वानरसैन्यमुग्रम्।
महार्णवाभ्रस्तनितं ददर्श
समुद्यतं पादपशैलहस्तम् ॥ ६.५९.१० ॥
そのとき、力強い彼は突然城から出て、大洋の雲のように轟き、木々と山々を手に掲げた、あの猛々しい猿の軍勢を見た。
6.59.11
तद् राक्षसानीकमतिप्रचण्ड-
मालोक्य रामो भुजगेन्द्रबाहुः।
विभीषणं शस्त्रभृतां वरिष्ठ-
मुवाच सेनानुगतः पृथुश्रीः ॥ ६.५९.११ ॥
その極めて猛々しい羅刹の軍勢を見て、蛇王のような腕をもち、大いなる威光を放つラーマは、軍に囲まれたまま、武器を持つ者の中で最も優れたヴィビーシャナに語った。
6.59.12
नानापताकाध्वजछत्रजुष्टं
प्रासासिशूलायुधशस्त्रजुष्टम्।
कस्येदमक्षोभ्यमभीरुजुष्टं
सैन्यं महेन्द्रोपमनागजुष्टम् ॥ ६.५९.१२ ॥
旗や幢、傘に満ち、槍・剣・三叉戟その他の武器を備え、恐れを知らぬ戦士と、インドラの象に等しい象が仕えるこの揺るぎない軍勢は誰のものか。
6.59.13
ततस्तु रामस्य निशम्य वाक्यं
विभीषणः शक्रसमानवीर्यः।
शशंस रामस्य बलप्रवेकं
महात्मनां राक्षसपुंगवानाम् ॥ ६.५९.१३ ॥
そこでラーマの言葉を聞いたインドラに等しい武勇のヴィビーシャナは、偉大な羅刹の勇士たちの力と武勇をラーマに語った。
6.59.14
योऽसौ गजस्कन्धगतो महात्मा
नवोदितार्कोपमताम्रवक्त्रः।
संकम्पयन्नागशिरोऽभ्युपैति
ह्यकम्पनं त्वेनमवेहि राजन् ॥ ६.५९.१४ ॥
王よ、象の肩に座し、朝日のように赤い顔をして、象の頭を震わせながら近づいてくる、あの大いなる魂の者を知れ。彼はアカンパナ(不動)である。
6.59.15
योऽसौ रथस्थो मृगराजकेतु-
र्धुन्वन् धनुः शक्रधनुःप्रकाशम्।
करीव भात्युग्रविवृत्तदंष्ट्रः
स इन्द्रजिन्नाम वरप्रधानः ॥ ६.५९.१५ ॥
戦車の上に立ち、獅子の旗を掲げ、インドラの虹のように輝く弓を振るい、恐ろしく牙をむいた象のように輝くあの者、それは勝者中の第一人者インドラジットである。
6.59.16
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो
धन्वी रथस्थोऽतिरथोऽतिवीरः।
विस्फारयंश्चापमतुल्यमानं
नाम्नातिकायोऽतिविवृद्धकायः ॥ ६.५९.१६ ॥
また、ヴィンディヤやマヘーンドラの山のごとき、戦車に立つ弓の名手、偉大な御者にして極めて勇猛な英雄、比類なき大きさの弓を引く者——名はアティカーヤ、その身体は途方もなく大きい。
6.59.17
योऽसौ नवार्कोदितताम्रचक्षु-
रारुह्य घण्टानिनदप्रणादम्।
गजं खरं गर्जति वै महात्मा
महोदरो नाम स एष वीरः ॥ ६.५९.१७ ॥
新たに昇った太陽のように赤い目をし、鐘の音のような咆哮をあげて象またはロバに乗って吠える、その偉大な英雄こそマホーダラという名である。
6.59.18
योऽसौ हयं काञ्चनचित्रभाण्ड-
मारुह्य संध्याभ्रगिरिप्रकाशम्।
प्रासं समुद्यम्य मरीचिनद्धं
पिशाच एषोऽशनितुल्यवेगः ॥ ६.५९.१८ ॥
金の模様の馬具をつけた馬に乗り、夕暮れの雲の山のように輝き、光に縛られた槍を高く掲げて来るこの者は、雷のように速い夜叉鬼である。
6.59.19
यश्चैष शूलं निशितं प्रगृह्य
विद्युत्प्रभं किंकरवज्रवेगम्।
वृषेन्द्रमास्थाय शशिप्रकाश-
मायाति योऽसौ त्रिशिरा यशस्वी ॥ ६.५९.१९ ॥
鋭い三叉戟を手に、稲妻のように輝き、キンカラの金剛杵のような速さで、月のように輝く優れた雄牛にまたがって来るこの名高き三つの頭の者こそトリシラである。
6.59.20
असौ च जीमूतनिकाशरूपः
कुम्भः पृथुव्यूढसुजातवक्षाः।
समाहितः पन्नगराजकेतु-
र्विस्फारयन् याति धनुर्विधुन्वन् ॥ ६.५९.२० ॥
雨雲のような姿で、広く均整のとれた胸を持つクンバ。その旗印は蛇王のしるし。集中して弓を引き絞り、揺さぶりながら進んでいる。
6.59.21
यश्चैष जाम्बूनदवज्रजुष्टं
दीप्तं सधूमं परिघं प्रगृह्य।
आयाति रक्षोबलकेतुभूतो
योऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥ ६.५९.२१ ॥
金とダイヤモンドをはめ込んだ、煙を上げて燃える鉄の棍棒を手に来るこの者は、羅刹軍の旗印。驚くべき恐ろしい行いをするニクンバである。
6.59.22
यश्चैष चापासिशरौघजुष्टं
पताकिनं पावकदीप्तरूपम्।
रथं समास्थाय विभात्युदग्रो
नरान्तकोऽसौ नगशृङ्गयोधी ॥ ६.५९.२२ ॥
旗をなびかせ、火のように輝く姿で、弓と剣と矢の奔流に満ちた戦車に乗り、高くそびえ立つこの者、山の峰のような戦士、人々を滅ぼす者——それがこの者である。
6.59.23
यश्चैष नानाविधघोररूपै-
र्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।
भूतैर्वृतो भाति विवृत्तनेत्रै-
र्योऽसौ सुराणामपि दर्पहन्ता ॥ ६.५९.२३ ॥
さまざまな恐ろしい姿をし、虎、駱駝、大象、鹿、馬の顔を持ち、目を剥いた霊どもに囲まれて輝くこの者、神々の驕りさえ砕く者——それがこの者である。
6.59.24
यत्रैतदिन्दुप्रतिमं विभाति
छत्रं सितं सूक्ष्मशलाकमग्र्यम्।
अत्रैष रक्षोधिपतिर्महात्मा
भूतैर्वृतो रुद्र इवावभाति ॥ ६.५९.२४ ॥
月のように白く、細い骨組みを持つこの見事な傘が輝くところに、羅刹の主たるこの偉大な魂が、霊どもに囲まれ、ルドラのように現れる。
6.59.25
असौ किरीटी चलकुण्डलास्यो
नगेन्द्रविन्ध्योपमभीमकायः।
महेन्द्रवैवस्वतदर्पहन्ता
रक्षोधिपः सूर्य इवावभाति ॥ ६.५९.२५ ॥
冠を戴き、揺れる耳飾りで飾られた顔を持ち、山の王ヴィンディヤのように恐ろしい身体を持ち、インドラとヤマの驕りを砕くこの者——羅刹の主は太陽のように現れる。
6.59.26
प्रत्युवाच ततो रामो विभीषणमरिंदमः।
अहो दीप्तमहातेजा रावणो राक्षसेश्वरः ॥ ६.५९.२६ ॥
すると敵を征服するラーマはヴィビーシャナに答えた。「ああ!羅刹の王ラーヴァナの、なんと輝かしく大いなる威光であることか!」
6.59.27
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः।
न व्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ ६.५९.२७ ॥
ラーヴァナは太陽のように光線を放ち、直視しがたい。その姿は輝きに包まれ、私にははっきりとは見えない。
6.59.28
देवदानववीराणां वपुर्नैवंविधं भवेत्।
यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते ॥ ६.५९.२८ ॥
神々や阿修羅の勇士の身体はこのようではあり得ない。しかし羅刹王のこの身体はこのように輝いている。
6.59.29
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः।
सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः ॥ ६.५९.२९ ॥
皆が山のごとく、皆が山と戦う者であり、皆が輝く武器を手にしていた——その大いなる魂の持ち主の戦士たちである。
6.59.30
विभाति रक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः।
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ६.५९.३० ॥
その羅刹王は、燃え立ち恐ろしい姿をした、猛々しい肉体をもつ者どもに囲まれ、肉体をまとった死神のように輝いている。
6.59.31
दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः।
अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥ ६.५९.३१ ॥
幸いにも、この罪深き者が今日、私の目の前に現れた。今日、シーターの誘拐から生じた怒りを解き放とう。
6.59.32
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्।
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ६.५९.३२ ॥
このように言って、勇猛なラーマは弓を取り、ラクシュマナを伴って立ち、優れた矢を構えた。
6.59.33
ततः स रक्षोधिपतिर्महात्मा
रक्षांसि तान्याह महाबलानि।
द्वारेषु चर्यागृहगोपुरेषु
सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ६.५९.३३ ॥
そのとき、その大いなる魂の羅刹王は、あの大力の羅刹たちにこう言った。「門口や見張りの館、望楼に、完全に安心して、恐れることなく立っておれ。」
6.59.34
इहागतं मां सहितं भवद्भि-
र्वनौकसश्छिद्रमिदं विदित्वा।
शून्यां पुरीं दुष्प्रसहां प्रमथ्य
प्रधर्षयेयुः सहसा समेताः ॥ ६.५९.३४ ॥
私とあなたがたがここに来ていることを、森に住む猿どもがこの隙を知って集結し、がらんとした、攻めがたいこの都を突然打ち砕いて襲撃するかもしれない。
6.59.35
विसर्जयित्वा सचिवांस्ततस्तान्
गतेषु रक्षःसु यथानियोगम्।
व्यदारयद् वानरसागरौघं
महाझषः पूर्णमिवार्णवौघम् ॥ ६.५९.३५ ॥
やがて大臣たちを退け、羅刹たちが命に従って去ると、大魚が満ちた海の大波を裂くように、彼は猿の海の奔流を引き裂いた。
6.59.36
तमापतन्तं सहसा समीक्ष्य
दीप्तेषुचापं युधि राक्षसेन्द्रम्।
महत् समुत्पाट्य महीधराग्रं
दुद्राव रक्षोधिपतिं हरीशः ॥ ६.५९.३६ ॥
戦場で、燃える矢と弓を携えた羅刹の王が突然襲いかかってくるのを見て、猿の王は大きな山の峰を引き抜き、羅刹の主へと突進した。
6.59.37
तच्छैलशृङ्गं बहुवृक्षसानुं
प्रगृह्य चिक्षेप निशाचराय।
तमापतन्तं सहसा समीक्ष्य
चिच्छेद बाणैस्तपनीयपुङ्खैः ॥ ६.५९.३७ ॥
斜面に多くの木々を生やしたその山の峰を持ち上げ、夜の徘徊者めがけて投げつけた。突然襲いかかるのを見て、羅刹は金の羽根の矢でそれを断ち切った。
6.59.38
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे
शृङ्गे विदीर्णे पतिते पृथिव्याम्।
महाहिकल्पं शरमन्तकाभं
समादधे राक्षसलोकनाथः ॥ ६.५९.३८ ॥
高い斜面に大木の茂るその峰が砕けて地に落ちると、羅刹の世界の主は、死神に似た大蛇のような矢を弓につがえた。
6.59.39
स तं गृहीत्वानिलतुल्यवेगं
सविस्फुलिङ्गज्वलनप्रकाशम्।
बाणं महेन्द्राशनितुल्यवेगं
चिक्षेप सुग्रीववधाय रुष्टः ॥ ६.५९.३९ ॥
怒った彼は、風のように速く、火花を散らす燃え盛る炎のように輝き、インドラの雷霆に等しい速さのその矢を握り、スグリーヴァを殺すために放った。
6.59.40
स सायको रावणबाहुमुक्तः
शक्राशनिप्रख्यवपुःप्रकाशम्।
सुग्रीवमासाद्य बिभेद वेगाद्
गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ६.५९.४० ॥
ラーヴァナの腕から放たれたその矢は、インドラの雷霆のように輝く身をもってスグリーヴァに至り、勢いよく貫いた。グハ(スカンダ)が放った猛烈な槍がクラウンチャ山を貫いたように。
6.59.41
स सायकार्तो विपरीतचेताः
कूजन् पृथिव्यां निपपात वीरः।
तं वीक्ष्य भूमौ पतितं विसंज्ञं
नेदुः प्रहृष्टा युधि यातुधानाः ॥ ६.५९.४१ ॥
矢に苦しめられ、心を乱した英雄は、叫び声をあげて地に倒れた。彼が意識を失って地に伏しているのを見て、戦いで喜んだ羅刹たちは吠えた。
6.59.42
ततो गवाक्षो गवयः सुषेण-
स्त्वथर्षभो ज्योतिमुखो नलश्च।
शैलान् समुत्पाट्य विवृद्धकायाः
प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ६.५९.४२ ॥
そこでガヴァークシャ、ガヴァヤ、スシェーナ、リシャバ、ジョーティムカ、ナラは山頂を引き抜き、身体を巨大にして、羅刹の王へ突進した。
6.59.43
तेषां प्रहारान् स चकार मोघान्
रक्षोधिपो बाणशतैः शिताग्रैः।
तान् वानरेन्द्रानपि बाणजालै-
र्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ६.५९.४३ ॥
羅刹の王は鋭い鏃の数百本の矢で彼らの攻撃を無効にし、金で飾られた羽根をもつ矢の網で、それらの猿王たちをも貫いた。
6.59.44
ते वानरेन्द्रास्त्रिदशारिबाणै-
र्भिन्ना निपेतुर्भुवि भीमकायाः।
ततस्तु तद् वानरसैन्यमुग्रं
प्रच्छादयामास स बाणजालैः ॥ ६.५९.४४ ॥
神々の敵の矢に貫かれ、恐ろしい体の猿族の首領たちは地に倒れた。そして彼は、その猛々しい猿族の軍勢を矢の網で覆い尽くした。
6.59.45
ते वध्यमानाः पतिताश्च वीरा
नानद्यमाना भयशल्यविद्धाः।
शाखामृगा रावणसायकार्ता
जग्मुः शरण्यं शरणं स्म रामम् ॥ ६.५९.४५ ॥
殺され倒れた勇士たちは、恐怖という棘に刺され、叫び声を上げ、ラーヴァナの矢に苦しみ、頼るに値するラーマのもとへ庇護を求めて行った。
6.59.46
ततो महात्मा स धनुर्धनुष्मा-
नादाय रामः सहसा जगाम।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य
उवाच रामं परमार्थयुक्तम् ॥ ६.५९.४६ ॥
すると大いなる魂のラーマは弓を取り、突然前へ進んだ。ラクシュマナは合掌して近づき、至上の目的に専心するラーマに語りかけた。
6.59.47
काममार्य सुपर्याप्तो वधायास्य दुरात्मनः।
विधमिष्याम्यहं चैतमनुजानीहि मां विभो ॥ ६.५९.४७ ॥
尊き方よ、私はこの邪悪な者を殺すに十分な力があります。必ず彼を滅ぼします。力ある方よ、どうか私に許しをお与えください。
6.59.48
तमब्रवीन्महातेजा रामः सत्यपराक्रमः।
गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ ६.५९.४८ ॥
すると真の武勇を持つ大いなる光輝のラーマは彼に言った。「行け、ラクシュマナよ。戦いに全力を尽くせ。」
6.59.49
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः।
त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ६.५९.४९ ॥
ラーヴァナは大いなる力を持ち、戦いにおいて驚くべき武勇を誇る。たとえ三界が怒り立ったとしても、彼を制することは難しい。疑いはない。
6.59.50
तस्यच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय।
चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः ॥ ६.५९.५० ॥
彼の弱点を探り、自分の隙にも注意せよ。心を集中させ、目と弓で自らを守れ。
6.59.51
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च।
अभिवाद्य च रामाय ययौ सौमित्रिराहवे ॥ ६.५९.५१ ॥
ラーghava(ラーマ)の言葉を聞き、彼を抱きしめて敬い、ラーマに恭しく礼をして、スミトラーの子は戦場へと向かった。
6.59.52
स रावणं वारणहस्तबाहुं
ददर्श भीमोद्यतदीप्तचापम्।
प्रच्छादयन्तं शरवृष्टिजालै-
स्तान् वानरान् भिन्नविकीर्णदेहान् ॥ ६.५९.५२ ॥
象の鼻のような腕を持つラーヴァナを彼は見た。恐ろしく輝く弓を高く掲げ、矢の雨の網でヴァーナラたちを覆っていた。彼らの身体は砕けて散乱していた。
6.59.53
तमालोक्य महातेजा हनूमान् मारुतात्मजः।
निवार्य शरजालानि विदुद्राव स रावणम् ॥ ६.५९.५३ ॥
彼を見て、大いに輝く風神の子ハヌマーンは矢の網を遮り、ラーヴァナめがけて突進した。
6.59.54
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम्।
त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत् ॥ ६.५९.५४ ॥
彼の戦車に近づき、右腕を振り上げてラーヴァナを脅かしながら、賢いハヌマーンはこの言葉を述べた。
6.59.55
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः।
अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ ६.५९.५५ ॥
神々、ダーナヴァ、ガンダルヴァ、ヤクシャ、そしてラークシャサからお前は不死の恩恵を得た。しかしヴァーナラたちからはお前に恐れがある。
6.59.56
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः।
विधमिष्यति ते देहे भूतात्मानं चिरोषितम् ॥ ६.५९.५६ ॥
見よ、私の右腕は五本の枝を持つ木のように高く掲げられている。長くお前の身体に宿る命の息を砕くであろう。
6.59.57
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः।
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ६.५९.५७ ॥
ハヌマーンの言葉を聞いて、恐ろしい武勇のラーヴァナは、怒りで目を赤くしてこう言った。
6.59.58
क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि।
ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ६.५९.५८ ॥
速やかに、恐れずに打て、永遠の名声を得よ。そののち、猿よ、武勇の知れたお前を私は滅ぼそう。
6.59.59
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत्।
प्रहतं हि मया पूर्वमक्षं तव सुतं स्मर ॥ ६.५९.५९ ॥
ラーヴァナの言葉を聞いて、風の子は言った。「思い出せ、以前私はお前の息子アクシャを打ち倒した。」
6.59.60
एवमुक्तो महातेजा रावणो राक्षसेश्वरः।
आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६.५९.६० ॥
そう言われた大光輝の羅刹王ラーヴァナは、力をこめて掌で風の子の胸を打った。
6.59.61
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः।
स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥ ६.५९.६१ ॥
その掌の一撃に打たれ、彼は何度もよろめいた。しかし、光輝ある大智者は、しばし踏みとどまって立った。
6.59.62
आजघान च संक्रुद्धस्तलेनैवामरद्विषम्।
ततः स तेनाभिहतो वानरेण महात्मना ॥ ६.५९.६२ ॥
怒り狂った彼は神々の敵を掌で打った。するとその大いなる魂の猿に打たれ、
6.59.63
दशग्रीवः समाधूतो यथा भूमितलेऽचलः।
संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ॥ ६.५९.६३ ॥
大地に立つ山のように十頭の羅刹王は完全に揺さぶられた。戦場で掌に打たれたラーヴァナを見て、
6.59.64
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः।
अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ ६.५९.६४ ॥
聖仙、猿、シッダ、神々は阿修羅とともに鬨の声を上げた。やがて大いに輝く羅刹王は我に返り、こう言った。
6.59.65
साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः।
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ ६.५९.६५ ॥
「見事だ、猿よ、その武勇は! 我が敵ではあるが、お前は称賛に値する。」ラーヴァナがこのように言うと、マールティ(ハヌマーン)はこの言葉を返した。
6.59.66
धिगस्तु मम वीर्यस्य यत् त्वं जीवसि रावण।
सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ॥ ६.५९.६६ ॥
「我が武勇の恥よ、ラーヴァナ、お前がまだ生きているとは! 愚か者め、今一度打たせよ! なぜ自慢するのか。」
6.59.67
ततस्त्वां मामको मुष्टिर्नयिष्यति यमक्षयम्।
ततो मारुतिवाक्येन कोपस्तस्य प्रजज्वले ॥ ६.५९.६७ ॥
「その時、我が拳がお前をヤマの館へ送るであろう」。マールティの言葉に、彼の怒りは燃え上がった。
6.59.68
संरक्तनयनो यत्नान्मुष्टिमावृत्य दक्षिणम्।
पातयामास वेगेन वानरोरसि वीर्यवान् ॥ ६.५९.६८ ॥
赤く充血した目の勇士は、力を込めて右の拳を握り、猿の胸を激しく打った。
6.59.69
हनूमान् वक्षसि व्यूढे संचचाल पुनः पुनः।
विह्वलं तु तदा दृष्ट्वा हनूमन्तं महाबलम् ॥ ६.५९.६९ ॥
胸に打撃を受けたハヌマーンは、幾度もよろめいた。大力のハヌマーンが動揺するのを見て、(一同は唖然とした)。
6.59.70
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात्।
राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ॥ ६.५९.७० ॥
大戦車兵、羅刹の主、勇猛な十頸の王は、戦車に乗ってすばやくニーラへ向かって進み出た。
6.59.71
पन्नगप्रतिमैर्भीमैः परमर्माभिभेदनैः।
शरैरादीपयामास नीलं हरिचमूपतिम् ॥ ६.५९.७१ ॥
蛇のように恐ろしく、急所を貫く矢で、彼は猿軍の将ニーラを攻め立てた。
6.59.72
स शरौघसमायस्तो नीलो हरिचमूपतिः।
करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥ ६.५९.७२ ॥
矢の雨に囲まれた猿軍の将ニーラは、片手で山の頂を持ち上げ、羅刹の主へ投げつけた。
6.59.73
हनूमानपि तेजस्वी समाश्वस्तो महामनाः।
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ६.५९.७३ ॥
輝かしく大志を抱くハヌマーンも立ち直り、戦いを望んで辺りを見回し、怒りをこめてこう言った。
6.59.74
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्।
अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ६.५९.७४ ॥
ニーラと戦い、さらに別の者とも戦っているラークシャサの王ラーヴァナに襲いかかるのは相応しくない。
6.59.75
रावणोऽथ महातेजास्तं शृङ्गं सप्तभिः शरैः।
आजघान सुतीक्ष्णाग्रैस्तद् विकीर्णं पपात ह ॥ ६.५९.७५ ॥
すると大いに輝くラーヴァナは、七本の鋭い矢でその山頂を射抜き、山頂は砕けて落ちた。
6.59.76
तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः।
कालाग्निरिव जज्वाल कोपेन परवीरहा ॥ ६.५९.७६ ॥
山の頂が砕け散ったのを見て、猿の軍勢の主、敵の勇士を討つ者は、劫末の火のように怒りに燃え上がった。
6.59.77
सोऽश्वकर्णद्रुमान् शालांश्चूतांश्चापि सुपुष्पितान्।
अन्यांश्च विविधान् वृक्षान् नीलश्चिक्षेप संयुगे ॥ ६.५९.७७ ॥
ニーラは戦いで、アシュヴァカルナ樹、サーラ樹、花盛りのマンゴー樹、その他さまざまな木を投げつけた。
6.59.78
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः।
अभ्यवर्षच्च घोरेण शरवर्षेण पावकिम् ॥ ६.५९.७८ ॥
ラーヴァナはそれらの木に近づいて切り倒し、さらに恐ろしい矢の雨をパーヴァキ(ニーラ)に降り注いだ。
6.59.79
अभिवृष्टः शरौघेण मेघेनेव महाचलः।
ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह ॥ ६.५९.७९ ॥
矢の流れに覆われ、雲に包まれた大山のように、彼は身の丈を小さくして旗竿の先端に降り立った。
6.59.80
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम्।
जज्वाल रावणः क्रोधात् ततो नीलो ननाद च ॥ ६.५९.८० ॥
火の子が旗竿の先に立っているのを見て、ラーヴァナは怒りに燃え上がった。そこでナラは吼えた。
6.59.81
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्।
लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः ॥ ६.५९.८१ ॥
旗の先に、弓の先に、冠の先にその猿が現れるのを見て、ラクシュマナもハヌマーンもラーマも大いに驚いた。
6.59.82
रावणोऽपि महातेजाः कपिलाघवविस्मितः।
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ ६.५९.८२ ॥
偉大な威光のラーヴァナも猿の素早さに驚き、燃え盛る不思議な火の矢を呼び寄せた。
6.59.83
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवंगमाः।
नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥ ६.५९.८३ ॥
そこで喜んだ猿たちは的を射当て、戦場でナラの素早さに慌てふためくラーヴァナを見て、声を上げた。
6.59.84
वानराणां च नादेन संरब्धो रावणस्तदा।
सम्भ्रमाविष्टहृदयो न किंचित् प्रत्यपद्यत ॥ ६.५९.८४ ॥
猿の咆哮に怒りを募らせたラーヴァナは、動揺に心を乱され、何の対策も思いつかなかった。
6.59.85
आग्नेयेनापि संयुक्तं गृहीत्वा रावणः शरम्।
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥ ६.५९.८५ ॥
火の武器を込めた矢を手に取り、夜の徘徊者ラーヴァナは旗竿の頂に立つナラを見据えた。
6.59.86
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः।
कपे लाघवयुक्तोऽसि मायया परया सह ॥ ६.५९.८६ ॥
そこで大いなる威光の羅刹王ラーヴァナは言った。「猿よ、お前は最上の幻術と共に敏捷だ。」
6.59.87
जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर।
तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ॥ ६.५९.८७ ॥
「猿よ、もし力があるなら、自らの命を守れ。お前は自分の幾多の姿を幾度も作り出している。」
6.59.88
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः।
जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ॥ ६.५९.८८ ॥
「それでも、私が放ち神器に駆られた矢が、命を守ろうとするお前を命から突き落とすだろう。」
6.59.89
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः।
संधाय बाणमस्त्रेण चमूपतिमताडयत् ॥ ६.५९.८९ ॥
こう言うと、大腕の羅刹王ラーヴァナは神器を帯びた矢を番え、軍の総帥を打った。
6.59.90
सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः।
निर्दह्यमानः सहसा स पपात महीतले ॥ ६.५९.९० ॥
神器に放たれた矢で胸を打たれたニーラは、燃えながら突然地に倒れた。
6.59.91
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा।
जानुभ्यामपतद् भूमौ न तु प्राणैर्वियुज्यत ॥ ६.५९.९१ ॥
父の威光との結びつきと自らの輝きとによって、彼は膝を折って地に倒れたが、命は離れなかった。
6.59.92
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः।
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ६.५९.९२ ॥
気を失った猿を見て、戦いに逸る十頭のラーヴァナは、雷雲のような轟音の戦車に乗り、サウミトリへ突進した。
6.59.93
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन्।
धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान् ॥ ६.५९.९३ ॥
戦いの只中でサウミトリの前に進み出て、その行く手を遮り、燃えるように立った威力ある羅刹王は、弓を大きく引き絞った。
6.59.94
तमाह सौमित्रिरदीनसत्त्वो
विस्फारयन्तं धनुरप्रमेयम्।
अवेहि मामद्य निशाचरेन्द्र
न वानरांस्त्वं प्रतियोद्धुमर्हसि ॥ ६.५९.९४ ॥
不屈の勇気を持つサウミトリは、計り知れない弓を引き絞る彼に言った。「夜歩く者の王よ、今日はこの私を知るがよい。猿たちと戦うのは、お前にふさわしくない。」
6.59.95
स तस्य वाक्यं प्रतिपूर्णघोषं
ज्याशब्दमुग्रं च निशम्य राजा।
आसाद्य सौमित्रिमुपस्थितं तं
रोषान्वितं वाचमुवाच रक्षः ॥ ६.५९.९५ ॥
彼の響き渡る言葉と、恐ろしい弦の音を聞いて、王は前に立つサウミトリに近づき、怒りに満ちた羅刹はこの言葉を発した。
6.59.96
दिष्ट्यासि मे राघव दृष्टिमार्गं
प्राप्तोऽन्तगामी विपरीतबुद्धिः।
अस्मिन् क्षणे यास्यसि मृत्युलोकं
संसाद्यमानो मम बाणजालैः ॥ ६.५९.९६ ॥
「ラーガヴァよ、幸いにもお前は私の視界に入った。心の道を誤った、終焉へ向かう者よ!今この瞬間、私の矢の網に囲まれ、お前は死の世界へ行くのだ。」
6.59.97
तमाह सौमित्रिरविस्मयानो
गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम्।
राजन् न गर्जन्ति महाप्रभावा
विकत्थसे पापकृतां वरिष्ठ ॥ ६.५९.९७ ॥
驚くことのないラクシュマナは、牙を剥いて吠えるその者に言った。「王よ、大いなる力を持つ者は吠えない。罪人の中で最も優れた者よ、おまえは大言を吐いている。」
6.59.98
जानामि वीर्यं तव राक्षसेन्द्र
बलं प्रतापं च पराक्रमं च।
अवस्थितोऽहं शरचापपाणि-
रागच्छ किं मोघविकत्थनेन ॥ ६.५९.९८ ॥
「羅刹の王よ、お前の勇気、力、威光、武勇はわたしが知っている。わたしは弓矢を手に立っている。来い。空しい大言にどんな意味があろうか。」
6.59.99
स एवमुक्तः कुपितः ससर्ज
रक्षोधिपः सप्त शरान् सुपुङ्खान्।
ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खै-
श्चिच्छेद बाणैर्निशिताग्रधारैः ॥ ६.५९.९९ ॥
そう言われて怒った羅刹の王は、美しい羽根の七本の矢を放った。ラクシュマナは、金色の模様の羽根と鋭い刃先の矢でそれらを断ち切った。
6.59.100
तान् प्रेक्षमाणः सहसा निकृत्तान्
निकृत्तभोगानिव पन्नगेन्द्रान्।
लङ्केश्वरः क्रोधवशं जगाम
ससर्ज चान्यान् निशितान् पृषत्कान् ॥ ६.५९.१०० ॥
それらが突然切り落とされるのを見て、とぐろを断たれた大蛇のように、ラン卡の王は怒りに身を任せ、別の鋭い矢を放った。
6.59.101
स बाणवर्षं तु ववर्ष तीव्रं
रामानुजः कार्मुकसम्प्रयुक्तम्।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः
शरांश्च चिच्छेद न चुक्षुभे च ॥ ६.५९.१०१ ॥
弓から放たれたその激しい矢の雨を、ラーマの弟ラクシュマナは剃刀の矢、半月の矢、鋭い耳の矢、バッラ矢で断ち切り、動じなかった。
6.59.102
स बाणजालान्यपि तानि तानि
मोघानि पश्यंस्त्रिदशारिराजः।
विसिस्मिये लक्ष्मणलाघवेन
पुनश्च बाणान् निशितान् मुमोच ॥ ६.५९.१०२ ॥
放った幾多の矢の群れがすべて無益に終わるのを見て、神々の敵の王はラクシュマナの俊敏さに驚嘆し、再び鋭い矢を放った。
6.59.103
स लक्ष्मणश्चापि शिताञ् शिताग्रान्
महेन्द्रतुल्योऽशनिभीमवेगान्।
संधाय चापे ज्वलनप्रकाशान्
ससर्ज रक्षोधिपतेर्वधाय ॥ ६.५९.१०३ ॥
大インドラに等しいラクシュマナも、雷のように恐ろしい速さと火のように輝く鋭い矢を弓につがえ、羅刹王を討つために放った。
6.59.104
स तान् प्रचिच्छेद हि राक्षसेन्द्रः
शिताञ् शराल्ँ लक्ष्मणमाजघान।
शरेण कालाग्निसमप्रभेण
स्वयंभुदत्तेन ललाटदेशे ॥ ६.५९.१०४ ॥
羅刹王はそれらの矢を断ち切り、ラクシュマナに一本の矢を放った。それは劫火のように輝き、自生神(ブラフマー)が授けたもので、彼の額に突き刺さった。
6.59.105
स लक्ष्मणो रावणसायकार्त-
श्चचाल चापं शिथिलं प्रगृह्य।
पुनश्च संज्ञां प्रतिलभ्य कृच्छ्रा-
च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ ६.५९.१०५ ॥
ラーヴァナの矢に苦しめられたラクシュマナは、緩んだ弓を握ったままよろめいた。やがて辛うじて意識を取り戻し、インドラの敵の弓を断ち切った。
6.59.106
निकृत्तचापं त्रिभिराजघान
बाणैस्तदा दाशरथिः शिताग्रैः।
स सायकार्तो विचचाल राजा
कृच्छ्राच्च संज्ञां पुनराससाद ॥ ६.५९.१०६ ॥
彼の弓が断ち切られると、ダシャラタの息子は鋭い先端の矢三本で彼を射た。矢に苦しめられた王はよろめき、辛うじて意識を取り戻した。
6.59.107
स कृत्तचापः शरताडितश्च
मेदार्द्रगात्रो रुधिरावसिक्तः।
जग्राह शक्तिं स्वयमुग्रशक्तिः
स्वयंभुदत्तां युधि देवशत्रुः ॥ ६.५९.१०७ ॥
弓は折れ、矢に射られ、脂と血にまみれた体のまま、その猛き力の神々の敵は、戦いの中でスヴァヤンブー(梵天)が与えた槍を自ら掴んだ。
6.59.108
स तां सधूमानलसंनिकाशां
वित्रासनां संयति वानराणाम्।
चिक्षेप शक्तिं तरसा ज्वलन्तीं
सौमित्रये राक्षसराष्ट्रनाथः ॥ ६.५९.१०८ ॥
羅刹の王は、戦いで猿たちを恐れさせる、煙をあげる炎のように燃え盛るその槍を、勢いよくサウミトリ(ラクシュマナ)へ投げつけた。
6.59.109
तामापतन्तीं भरतानुजोऽस्त्रै-
र्जघान बाणैश्च हुताग्निकल्पैः।
तथापि सा तस्य विवेश शक्ति-
र्भुजान्तरं दाशरथेर्विशालम् ॥ ६.५९.१०९ ॥
バラタの弟は、迫る槍を武器と、供犠の火のような矢で打ち落としたが、それでもなお槍はダシャラタの息子の広い両腕の間へ突き入った。
6.59.110
स शक्तिमाञ् शक्तिसमाहतः सन्
जज्वाल भूमौ स रघुप्रवीरः।
तं विह्वलन्तं सहसाभ्युपेत्य
जग्राह राजा तरसा भुजाभ्याम् ॥ ६.५९.११० ॥
槍に打たれたその羅怙の英雄は燃え上がって地に倒れた。王は突然近づき、よろめく彼を素早く両腕で抱きとめた。
6.59.111
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः।
शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ॥ ६.५९.१११ ॥
ヒマラヤ、マンダラ、メルー、あるいは神々とともなう三界でさえ、腕で持ち上げることはできよう。しかしバラタの弟は持ち上げることができない。
6.59.112
शक्त्या ब्राह्म्या तु सौमित्रिस्ताडितोऽपि स्तनान्तरे।
विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ॥ ६.५९.११२ ॥
梵天の槍に胸の中央を打たれたが、スミトラの子は自らがヴィシュヌの測り知れぬ一部であることを思い起こした。
6.59.113
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः।
तं पीडयित्वा बाहुभ्यां न प्रभुर्लङ्घनेऽभवत् ॥ ६.५९.११३ ॥
すると神々の棘であるその羅刹は、ダーナヴァの驕りを砕くスミトラの子を両腕で押さえつけたが、持ち上げることはできなかった。
6.59.114
ततः क्रुद्धो वायुसुतो रावणं समभिद्रवत्।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ ६.५९.११४ ॥
そこで怒った風神の子はラーヴァナに突進し、雷のような拳でその胸を怒りに任せて打った。
6.59.115
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः।
जानुभ्यामगमद् भूमौ चचाल च पपात च ॥ ६.५९.११५ ॥
その拳の一撃により、羅刹の王ラーヴァナは膝をついて地に伏し、よろめいて倒れた。
6.59.116
आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु।
विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ॥ ६.५९.११६ ॥
口や目や耳から大量の血があふれ、めまいに襲われ身動きもできず、彼は戦車の床に座り込んだ。
6.59.117
विसंज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत्।
विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ॥ ६.५९.११७ ॥
彼は意識を失って気絶し、自分の場所に留まることさえできなかった。戦場で恐るべき武勇を誇るラーヴァナが意識を失っているのを見て——
6.59.118
ऋषयो वानराश्चैव नेदुर्देवाश्च सासुराः।
हनूमानथ तेजस्वी लक्ष्मणं रावणार्दितम् ॥ ६.५९.११८ ॥
聖仙、ヴァーナラ、神々とアスラもみな声を上げた。そのとき輝かしいハヌマーンは、ラーヴァナに苦しめられたラクシュマナを見た。
6.59.119
आनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम्।
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः।
शत्रूणामप्यकम्प्योऽपि लघुत्वमगमत् कपेः ॥ ६.५९.११९ ॥
ハヌマーンは両腕で彼を抱え上げ、ラーガヴァの近くへ連れて行った。風の子の友情と至高の信愛により、敵でさえ動かせなかった彼は、その猿にとっては軽くなった。
6.59.120
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि निर्जितम्।
रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत् ॥ ६.५९.१२० ॥
戦いで打ち負かされたスミトラーの子ラクシュマナを離れ、その槍は再びラーヴァナの戦車のあの場所へ戻った。
6.59.121
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे।
आददे निशितान् बाणाञ्जग्राह च महद्धनुः ॥ ६.५९.१२१ ॥
大いなる威光のラーヴァナもまた、あの大戦で意識を取り戻し、鋭い矢を取り、大弓を手にとった。
6.59.122
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ ६.५९.१२२ ॥
敵を滅ぼすラクシュマナは元気を取り戻し、槍の傷から解放されて、ヴィシュヌの分身として自らの測り知れぬ本性を思い起こした。
6.59.123
निपातितमहावीरां वानराणां महाचमूम्।
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ ६.५९.१२३ ॥
戦場で猿の大軍の大英雄たちが倒れるのを見て、ラーガヴァはラーヴァナへと突進した。
6.59.124
अथैनमनुसंक्रम्य हनूमान् वाक्यमब्रवीत्।
मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥ ६.५९.१२४ ॥
するとハヌマーンは彼に近づいて言った。「私の背に乗り、この羅刹を制圧なさい。」
6.59.125
विष्णुर्यथा गरुत्मन्तमारुह्यामरवैरिणम्।
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ॥ ६.५९.१२५ ॥
神々の敵に立ち向かうためヴィシュヌがガルダに乗るように、風の子の言葉を聞いてラーghaヴァは乗った。
6.59.126
अथारुरोह सहसा हनूमन्तं महाकपिम्।
रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥ ६.५९.१२६ ॥
すると彼は突然、大猿ハヌマーンに乗った。人の主は戦場で戦車に立つラーヴァナを見た。
6.59.127
तमालोक्य महातेजाः प्रदुद्राव स रावणम्।
वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ ६.५९.१२७ ॥
彼を見て、大いに輝くお方はラーヴァナへと突進された。怒れるヴィシュヌが武器を振り上げ、ヴィローチャナの子バリへ向かったように。
6.59.128
ज्याशब्दमकरोत् तीव्रं वज्रनिष्पेषनिष्ठुरम्।
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ ६.५९.१२८ ॥
ラーマは金剛杵の衝突のように荒々しく激しい弦音を響かせ、深い声で羅刹王に語りかけた。
6.59.129
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्।
क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि ॥ ६.५९.१२९ ॥
「止まれ、止まれ!私にこのような非礼を働いておきながら、羅刹の虎よ、どこへ行って逃れるつもりか?」
6.59.130
यदीन्द्रवैवस्वतभास्करान् वा
स्वयंभुवैश्वानरशंकरान् वा।
गमिष्यसि त्वं दशधा दिशो वा
तथापि मे नाद्य गतो विमोक्ष्यसे ॥ ६.५९.१३० ॥
インドラ、ヴィヴァスヴァットの子ヤマ、太陽、スヴァヤンブー、ヴァイシュヴァーナラ、シャンカラのもとへ行こうとも、あるいは十方へ逃げようとも、今日お前は私から逃れられまい。
6.59.131
यश्चैष शक्त्या निहतस्त्वयाद्य
गच्छन् विषादं सहसाभ्युपेत्य।
स एष रक्षोगणराज मृत्युः
सपुत्रपौत्रस्य तवाद्य युद्धे ॥ ६.५९.१३१ ॥
今日お前が槍で討ち倒したあの者、悲嘆のうちに突然近づいてきた者こそ、羅刹の群れの王にとっての死であり、今日戦場でお前にとっても、息子と孫たちもろとも死となるのだ。
6.59.132
एतेन चात्यद्भुतदर्शनानि
शरैर्जनस्थानकृतालयानि।
चतुर्दशान्यात्तवरायुधानि
रक्षःसहस्राणि निषूदितानि ॥ ६.५९.१३२ ॥
ジャナスターナに住み、極めて恐ろしい姿で優れた武器を携えた一万四千の羅刹は、この者によって矢で討たれたのだ。
6.59.133
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः।
वायुपुत्रं महावेगं वहन्तं राघवं रणे ॥ ६.५९.१३३ ॥
ラーガヴァの言葉を聞いた大力の羅刹王は、戦場でラーガヴァを背に乗せて疾駆する、風の神の子を見た。
6.59.134
रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्।
आजघान शरैर्दीप्तैः कालानलशिखोपमैः ॥ ६.५९.१३४ ॥
大いなる怒りに取り憑かれ、以前の敵意を思い出し、劫火の炎のような燃え盛る矢でそれを打った。
6.59.135
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः।
स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ ६.५९.१३५ ॥
戦いで羅刹の矢に打たれたにもかかわらず、もともと備わった輝きはさらに増した。
6.59.136
ततो रामो महातेजा रावणेन कृतव्रणम्।
दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥ ६.५९.१३६ ॥
そのとき大いなる輝きのラーマは、ラーヴァナに傷つけられた猿の中の虎を見て、怒りの支配下に入った。
6.59.137
तस्याभिसंक्रम्य रथं सचक्रं
साश्वध्वजच्छत्रमहापताकम्।
ससारथिं साशनिशूलखड्गं
रामः प्रचिच्छेद शितैः शराग्रैः ॥ ६.५९.१३७ ॥
ラーマは彼の戦車に近づき、車輪、馬、旗、傘、大旗、御者、雷杵、槍、剣もろとも、鋭い矢の先でその戦車を打ち砕いた。
6.59.138
अथेन्द्रशत्रुं तरसा जघान
बाणेन वज्राशनिसंनिभेन।
भुजान्तरे व्यूढसुजातरूपे
वज्रेण मेरुं भगवानिवेन्द्रः ॥ ६.५९.१३८ ॥
そして彼はインドラの敵を、雷杵と稲妻のような矢で素早く打った。両腕の間の広く美しく黄金に輝く胸に、あたかも尊きインドラが雷杵でメール山を打つように。
6.59.139
यो वज्रपाताशनिसंनिपाता-
न्न चुक्षुभे नापि चचाल राजा।
स रामबाणाभिहतो भृशार्त-
श्चचाल चापं च मुमोच वीरः ॥ ६.५९.१३९ ॥
雷杵の落下や稲妻の轟きにも動じず、揺るがなかったあの王は、ラーマの矢に打たれて激しい苦悶に震え、英雄は弓を取り落とした。
6.59.140
तं विह्वलन्तं प्रसमीक्ष्य रामः
समाददे दीप्तमथार्धचन्द्रम्।
तेनार्कवर्णं सहसा किरीटं
चिच्छेद रक्षोधिपतेर्महात्मा ॥ ६.५९.१४० ॥
彼が混乱してふらつくのを見て、偉大な魂のラーマは燃え立つ半月形の矢を取り、それで羅刹の主の太陽色の宝冠を一瞬で断ち切った。
6.59.141
तं निर्विषाशीविषसंनिकाशं
शान्तार्चिषं सूर्यमिवाप्रकाशम्।
गतश्रियं कृत्तकिरीटकूट-
मुवाच रामो युधि राक्षसेन्द्रम् ॥ ६.५९.१४१ ॥
ラーマは戦場で、毒を失った蛇のように、炎の消えた太陽のように輝きを失い、栄光を失い、冠の頂を断たれたラークシャサの王に、このように語った。
6.59.142
कृतं त्वया कर्म महत् सुभीमं
हतप्रवीरश्च कृतस्त्वयाहम्।
तस्मात् परिश्रान्त इति व्यवस्य
न त्वां शरैर्मृत्युवशं नयामि ॥ ६.५९.१४२ ॥
お前は大いに恐ろしい偉業を成し遂げ、我が勇士たちを殺して私をも苦しめた。だから、お前は疲れ果てたと判断して、矢でお前を死の支配下に送ることはしない。
6.59.143
प्रयाहि जानामि रणार्दितस्त्वं
प्रविश्य रात्रिंचरराज लङ्काम्।
आश्वस्य निर्याहि रथी च धन्वी
तदा बलं प्रेक्ष्यसि मे रथस्थः ॥ ६.५९.१४३ ॥
行け!お前が戦いに苦しんでいることは分かっている。夜行者の王よ、ランカーに入って休息し、戦車と弓を携えて再び出てこい。そのとき、戦車に立つ私の軍勢を見るだろう。
6.59.144
स एवमुक्तो हतदर्पहर्षो
निकृत्तचापः स हताश्वसूतः।
शरार्दितो भग्नमहाकिरीटो
विवेश लङ्कां सहसा स्म राजा ॥ ६.५९.१४४ ॥
このように言われると、誇りも喜びも失い、弓は断たれ、馬と御者は殺され、矢に苦しめられ、大きな冠も砕けた王は、たちまちランカーへ入っていった。
6.59.145
तस्मिन् प्रविष्टे रजनीचरेन्द्रे
महाबले दानवदेवशत्रौ।
हरीन् विशल्यान् सह लक्ष्मणेन
चकार रामः परमाहवाग्रे ॥ ६.५९.१४५ ॥
あの大力の夜行者の王、ダーナヴァと神々の敵が入城すると、ラーマはラクシュマナとともに大戦の最前線で、猿たちから矢を抜き去った。
6.59.146
तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ
सुरासुरा भूतगणा दिशश्च।
ससागराः सर्षिमहोरगाश्च
तथैव भूम्यम्बुचराः प्रहृष्टाः ॥ ६.५९.१४६ ॥
三十三天の主の敵が打ち破られると、神々と阿修羅、衆生の群れと諸方、海とともに、聖仙と大蛇たち、そして陸と水に住むものすべてが喜んだ。