蚁垤《罗摩衍那》 · 篇 6.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.6.1
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्।
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना।
अब्रवीद् राक्षसान् सर्वान् ह्रिया किंचिदवाङ्मुखः ॥ ६.६.१ ॥
罗刹王见到哈努曼在楼卡所做的可怖、令人恐惧的行为,如同因陀罗一般,羞愧地微微低下头,对所有罗刹说道。
6.6.2
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी।
तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ ६.६.२ ॥
这只普通的猴子攻破并闯入了难以抵御的楼卡城,他还见到了耶罗之女悉多。
6.6.3
प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः।
आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ६.६.३ ॥
宫殿被摧毁,神圣的祠堂(支提)被毁坏,优秀的罗刹被杀,整个楼卡城被哈努曼搅得一片混乱。
6.6.4
किं करिष्यामि भद्रं वः किं वो युक्तमनन्तरम्।
उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत् ॥ ६.६.४ ॥
我该怎么办?愿你们平安!现在对你们来说什么是合适的?请告诉我们什么是我们能够做到、会有好结果的事。
6.6.5
मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः।
तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः ॥ ६.६.५ ॥
智者说胜利的根源在于谋略;因此,诸位大力者啊,我确实赞同关于罗摩的一个计谋。
6.6.6
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः।
तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ॥ ६.६.६ ॥
世间的人有三种:上等、下等和中等。对于聚集于此的人,我将谈论他们的优点与缺点。
6.6.7
मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये।
मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः ॥ ६.६.७ ॥
谋议由三位善于裁断谋议的人组成,或由志向相同的朋友组成,或由更为尊贵的亲族组成。
6.6.8
सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्।
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ ६.६.८ ॥
与他人商议之后开始行事,并且在天命之上也尽力的人,被称为人中至上者。
6.6.9
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ६.६.९ ॥
有人独自思虑目的,有人将心志放在法上,有人独自执行事务;他被称为中等之人。
6.6.10
गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम्।
करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥ ६.६.१० ॥
若不判定利弊,舍弃对天命的依靠,口说“我将去做”却怠慢所当做之事,此人即是人中最卑劣者。
6.6.11
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः।
एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ६.६.११ ॥
正如这些人总是分为上、下、中,谋议也应当被理解为上、下、中。
6.6.12
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा।
मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ ६.६.१२ ॥
以经典之眼达成一致,谋臣们专心于其中的谋议,人们称之为上等谋议。
6.6.13
बह्वीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः।
पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ ६.६.१३ ॥
当众谋臣提出诸多意见之后,最终达成一致,这样的谋略被称为中等。
6.6.14
अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते।
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ ६.६.१४ ॥
若彼此执着己见相互争辩,且即使一致也无益处,这样的谋略称为下等。
6.6.15
तस्मात् सुमन्त्रितं साधु भवन्तो मतिसत्तमाः।
कार्यं सम्प्रतिपद्यन्तमेतत् कृत्यं मतं मम ॥ ६.६.१५ ॥
因此,诸位最有智慧的谋臣,你们议论得很好。众人已达成一致的此事,依我之见,正是应当去做的。
6.6.16
वानराणां हि धीराणां सहस्रैः परिवारितः।
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ॥ ६.६.१६ ॥
罗摩被成千上万的坚毅猴军围绕,正向我们的楞伽城逼近,意欲围城。
6.6.17
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्।
तरसा युक्तरूपेण सानुजः सबलानुगः ॥ ६.६.१७ ॥
显然,罗怙之后将与其弟及随从军队一起轻松而有力地渡过大海。
6.6.18
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा।
तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह।
हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम ॥ ६.६.१८ ॥
他可能凭借勇力使大海干涸,或者做出别的事情。在这样一件与猴军对立的事情上,请把有关城池与军队福祉的一切都在我面前议定。