Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.60.1

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः।
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ ६.६०.१ ॥

他进入楞伽城,因惧怕罗摩的箭而痛苦,骄傲已被打破,那时这位国王心神慌乱。

6.60.2

मातंग इव सिंहेन गरुडेनेव पन्नगः।
अभिभूतोऽभवद् राजा राघवेण महात्मना ॥ ६.६०.२ ॥

犹如大象被狮子制服,蛇被迦楼罗制服,那位国王被伟大的罗ghava所制服。

6.60.3

ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम्।
स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ॥ ६.६०.३ ॥

想起罗ghava的箭,它们如梵天之杖,光辉如闪电,罗刹之王因此痛苦。

6.60.4

स काञ्चनमयं दिव्यमाश्रित्य परमासनम्।
विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ ६.६०.४ ॥

罗波那坐在神圣的金色至尊宝座上,环顾罗刹们,说出了这些话。

6.60.5

सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः।
यत् समानो महेन्द्रेण मानुषेण विनिर्जितः ॥ ६.६०.५ ॥

我所修的那至高苦行,确实全都白费了,因为我与因陀罗相等,却被一个凡人所征服。

6.60.6

इदं तद् ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्।
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ ६.६०.६ ॥

这就是梵天那可怕的话,如今已降临到我身上:你要知道,你会惧怕人类;事情就是这样。

6.60.7

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम् ॥ ६.६०.७ ॥

我曾向天神、檀那婆、乾闼婆、夜叉、罗刹和蛇类求得不可被杀的恩赐,却未向凡人求取。

6.60.8

तमिमं मानुषं मन्ये रामं दशरथात्मजम्।
इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा ॥ ६.६०.८ ॥

我认为这个凡人罗摩,即十车王之子,出生于甘蔗王族,正是先前阿那兰亚所预言的那一位。

6.60.9

उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधम।
यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥ ६.६०.९ ॥

必定会在我的家族中出现一位男子,你这罗刹中的败类,他将毁灭你、你的儿子、大臣、军队、马匹和御者。

6.60.10

निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते।
शप्तोऽहं वेदवत्या च यथा सा धर्षिता पुरा ॥ ६.६०.१० ॥

他将在战场上杀死你,你这家族中的败类,心术不正之人。我也曾被吠陀婆蒂诅咒,正如她往昔曾受侮辱。

6.60.11

सेयं सीता महाभागा जाता जनकनन्दिनी।
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥ ६.६०.११ ॥

这位极为有福的悉多,即遮那伽之女,已经降生,正如往昔的乌玛、南迪湿伐罗以及水神伐楼那之女兰跋所降生一样。

6.60.12

यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम्।
एतदेव समागम्य यत्नं कर्तुमिहार्हथ ॥ ६.६०.१२ ॥

所说之事已应验于我身;仙人的话并非虚妄。因此你们应当齐聚于此,正为此事而努力。

6.60.13

राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु।
स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा ॥ ६.६०.१३ ॥

也让罗刹们站在城门与城楼之上。而他——深沉无比,摧毁天神与檀那婆骄傲的人。

6.60.14

ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्।
समरे जितमात्मानं प्रहस्तं च निषूदितम् ॥ ६.६०.१४ ॥

唤醒被梵天诅咒所困的俱钵罗那。让他知道:我自己在战中被击败,而普拉哈斯塔已被杀死。

6.60.15

ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः।
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ॥ ६.६०.१५ ॥

知晓罗刹之军的力量可怖,那位大力者下令:在城门处加以戒备,并登上城墙。

6.60.16

निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्।
सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः ॥ ६.६०.१६ ॥

唤醒陷入睡眠之力的俱钵罗那。他无忧无虑、安然入睡,心智已被欲望毁坏。

6.60.17

नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः।
मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥ ६.६०.१७ ॥

这位罗刹睡眠九、七、十、八个月。议事之后他便睡去;但从此刻起,到第九天他将醒来。

6.60.18

तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्।
स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्।
वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥ ६.६०.१८ ॥

快快唤醒那位大力的俱钵罗那。那位大臂者在战中是一切罗刹中的翘楚;他很快就会杀死猴子们和两位王子。

6.60.19

एष केतुः परं संख्ये मुख्यो वै सर्वरक्षसाम्।
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ ६.६०.१९ ॥

在战场上,他是所有罗刹的最高旗帜、首领;俱槃那始终沉睡,愚昧地沉迷于世俗的享乐。

6.60.20

रामेणाभिनिरस्तस्य संग्रामेऽस्मिन् सुदारुणे।
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ ६.६०.२० ॥

即使我在这场极其可怕的战斗中被罗摩击倒,只要俱槃那被唤醒,我便不会悲伤。

6.60.21

किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि।
ईदृशे व्यसने घोरे यो न साह्याय कल्पते ॥ ६.६०.२१ ॥

没有这位力量与因陀罗相当的人,我还能做什么?在如此可怕的灾难中,不能提供帮助的人毫无用处。

6.60.22

ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः।
जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥ ६.६०.२२ ॥

罗刹们听到罗刹王的这番话,极为惊慌,便前往俱槃那的居所。

6.60.23

ते रावणसमादिष्टा मांसशोणितभोजनाः।
गन्धं माल्यं महद्भक्ष्यमादाय सहसा ययुः ॥ ६.६०.२३ ॥

罗刹们奉罗波那之命,以食肉饮血为生,带着香料、花环和大量食物,立刻出发了。

6.60.24

तां प्रविश्य महाद्वारां सर्वतो योजनायताम्।
कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम् ॥ ६.६०.२४ ॥

他们走进了俱槃那那座美丽的洞窟,洞窟四面各延伸一由旬,门户宏大,弥漫着花香。

6.60.25

कुम्भकर्णस्य निःश्वासादवधूता महाबलाः।
प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ॥ ६.६०.२५ ॥

被昆bh迦尔那的气息吹得东倒西歪的大力勇士,艰难地站稳脚跟,费尽力气进入了那个洞穴。

6.60.26

तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम्।
ददृशुर्नैर्ऋतव्याघ्राः शयानं भीमविक्रमम् ॥ ६.६०.२६ ॥

进入那座饰有宝石与黄金地面的可爱洞穴后,那些罗刹中的猛虎看见了这位威力可怖、正在沉睡的巨人。

6.60.27

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्।
कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन् ॥ ६.६०.२७ ॥

他们聚集在一起,唤醒了那沉睡的昆bh迦尔那——他面目扭曲,四肢摊开,宛如一座崩散的山峰,陷入深沉的酣睡。

6.60.28

ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम्।
भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम् ॥ ६.६०.२८ ॥

他的身上汗毛竖起,像毒蛇般喘息,以呼吸搅动四周,那威力可怖的巨人正躺卧在那里。

6.60.29

भीमनासापुटं तं तु पातालविपुलाननम्।
शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ ६.६०.२९ ॥

他的鼻孔可怖,口大如地底冥界,四肢全部摊放在床榻上,散发着脂肪与血的气味。

6.60.30

काञ्चनाङ्गदनद्धाङ्गं किरीटेनार्कवर्चसम्।
ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णमरिंदमम् ॥ ६.६०.३० ॥

他肢体上缠绕着金臂钏,头冠光耀如太阳,那位制伏敌人的罗刹猛虎昆bh迦尔那,他们看见了。

6.60.31

ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः।
भूतानां मेरुसंकाशं राशिं परमतर्पणम् ॥ ६.६०.३१ ॥

随后,这些大德在俱卢婆那面前堆起一座如须弥山般的高堆,是能使一切众生满足的至上供养。

6.60.32

मृगाणां महिषाणां च वराहाणां च संचयान्।
चक्रुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ ६.६०.३२ ॥

那些如虎的罗刹堆起鹿、水牛和野猪的高堆,又堆起一座奇妙的食物之山。

6.60.33

ततः शोणितकुम्भांश्च मांसानि विविधानि च।
पुरस्तात् कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ ६.६०.३३ ॥

随后,诸神的敌人在俱卢婆那面前陈列了血瓮和各式肉食。

6.60.34

लिलिपुश्च परार्घ्येन चन्दनेन परंतपम्।
दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः ॥ ६.६०.३४ ॥

他们用极其珍贵的檀香膏涂抹这位焚敌者,并以神圣的花环和香料使他得到安慰。

6.60.35

धूपगन्धांश्च ससृजुस्तुष्टुवुश्च परंतपम्।
जलदा इव चानेदुर्यातुधानास्ततस्ततः ॥ ६.६०.३५ ॥

他们散播香烟的芬芳,赞美这位焚敌者,罗刹们则四处如雷云般咆哮。

6.60.36

शङ्खांश्च पूरयामासुः शशाङ्कसदृशप्रभान्।
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ ६.६०.३६ ॥

他们吹响如月光般明亮的海螺,怒火中烧,一同发出震天的咆哮。

6.60.37

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः।
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वरम् ॥ ६.६०.३७ ॥

夜行者们咆哮,拍打手臂,高声呼喊;为唤醒鸠婆羯罗,他们发出巨大的喧嚣。

6.60.38

सशङ्खभेरीपणवप्रणादं
सास्फोटितक्ष्वेलितसिंहनादम्।
दिशो द्रवन्तस्त्रिदिवं किरन्तः
श्रुत्वा विहंगाः सहसा निपेतुः ॥ ६.६०.३८ ॥

听到那海螺、大鼓与小鼓的轰鸣,以及拍击声和狮吼,声音奔驰四方、直达天界,鸟儿们顿时纷纷坠落。

6.60.39

यदा भृशं तैर्निनदैर्महात्मा
न कुम्भकर्णो बुबुधे प्रसुप्तः।
ततो भुशुण्डीर्मुसलानि सर्वे
रक्षोगणास्ते जगृहुर्गदाश्च ॥ ६.६०.३९ ॥

当连这些巨响也不能唤醒沉睡的大魂鸠婆羯罗时,所有罗刹大军便抓起了投枪、铁棒与铁锤。

6.60.40

तं शैलशृङ्गैर्मुसलैर्गदाभि-
र्वक्षःस्थले मुद्गरमुष्टिभिश्च।
सुखप्रसुप्तं भुवि कुम्भकर्णं
रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ६.६०.४० ॥

那时,凶猛的罗刹用山峰、铁棒、铁锤、木槌和拳头击打正安睡于地上的鸠婆羯罗的胸膛。

6.60.41

तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः।
राक्षसाः कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः ॥ ६.६०.४१ ॥

罗刹鸠婆羯罗呼出的气息之风,使罗刹们连站在他面前都做不到。

6.60.42

ततः परिहिता गाढं राक्षसा भीमविक्रमाः।
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा ॥ ६.६०.४२ ॥

随后,勇猛可怖的罗刹们紧紧握住了鼓、小鼓、大鼓、海螺和陶罐之类的乐器。

6.60.43

दश राक्षससाहस्रं युगपत्पर्यवारयत्।
नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ॥ ६.६०.४३ ॥

一万罗刹同时包围了他,试图唤醒他——他如同一堆黑色的眼膏。

6.60.44

अभिघ्नन्तो नदन्तश्च न च सम्बुबुधे तदा।
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥ ६.६०.४४ ॥

他们一边击打他、一边咆哮,他却仍未醒来;当他们无法唤醒他时——

6.60.45

ततो गुरुतरं यत्नं दारुणं समुपाक्रमन्।
अश्वानुष्ट्रान् खरान् नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ॥ ६.६०.४५ ॥

于是他们发起了更加猛烈的努力,用棍棒、鞭子和象钩击打马、骆驼、驴和象。

6.60.46

भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन्।
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटंकरैः ॥ ६.६०.४६ ॥

他们竭尽全力吹打鼓、螺号和腰鼓,并用巨大的木头和木棍击打他的肢体。

6.60.47

मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः।
तेन नादेन महता लङ्का सर्वा प्रपूरिता।
सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ ६.६०.४७ ॥

众人竭尽全力挥动钉头槌和杵,那巨大的声响充满了整个楞伽城,连同山岳与森林,他却仍未醒来。

6.60.48

ततो भेरीसहस्रं तु युगपत् समहन्यत।
मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥ ६.६०.४८ ॥

随即一千面鼓同时敲响,从四面八方不停地用打磨过的金槌击打。

6.60.49

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते।
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥ ६.६०.४९ ॥

即便如此,他沉睡不醒。那些受诅咒支配的夜行罗刹便愤怒起来。

6.60.50

ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः।
तद् रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ ६.६०.५० ॥

于是,充满愤怒、勇猛可畏的众罗刹,为了唤醒那罗刹,其余的人便施展起他们的威力。

6.60.51

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्।
केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च ॥ ६.६०.५१ ॥

有人同时敲响战鼓,有人发出巨大的喧嚣,有人拉扯他的头发,有人咬他的耳朵。

6.60.52

उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः।
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ ६.६०.५२ ॥

另有人将数百壶水倒入他的耳中,然而鸠婆羯罗仍不动分毫,因为他已落入大睡眠的掌控之中。

6.60.53

अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः।
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ॥ ६.६०.५३ ॥

他的壮勇随从手持铁锤,用铁锤击打他的头、胸和身体各部。

6.60.54

रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः।
वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ ६.६०.५४ ॥

虽然四面被系着绳索的百杀兵器击打,这位身躯庞大的罗刹仍未醒来。

6.60.55

वारणानां सहस्रं च शरीरेऽस्य प्रधावितम्।
कुम्भकर्णस्तदा बुद्ध्वा स्पर्शं परमबुध्यत ॥ ६.६०.५५ ॥

千头大象冲向他的身体;此时俱缚迦尔纳察觉到这触碰,彻底醒了过来。

6.60.56

स पात्यमानैर्गिरिशृङ्गवृक्षै-
रचिन्तयंस्तान् विपुलान् प्रहारान्।
निद्राक्षयात् क्षुद्भयपीडितश्च
विजृम्भमाणः सहसोत्पपात ॥ ६.६०.५६ ॥

尽管山峰和树木朝他砸来,他并不在意那些猛烈的打击;受失眠、饥饿与恐惧折磨,他打着哈欠,猛然跳了起来。

6.60.57

स नागभोगाचलशृङ्गकल्पौ
विक्षिप्य बाहू जितवज्रसारौ।
विवृत्य वक्त्रं वडवामुखाभं
निशाचरोऽसौ विकृतं जजृम्भे ॥ ६.६०.५७ ॥

这位夜行者伸展双臂——它们如同缠绕着蛇身的山峰,力量胜过金刚杵——张开如同海底烈火之口的嘴巴,狰狞地打了个哈欠。

6.60.58

तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्।
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ ६.६०.५८ ॥

他打哈欠时张开的嘴仿佛幽冥之域,又如太阳升起在须弥山之巅。

6.60.59

स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः।
निःश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ ६.६०.५९ ॥

这位力大无穷的夜行者一边打着哈欠,彻底醒了过来;他的呼吸如同山中吹出的风。

6.60.60

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद् बभौ।
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ ६.६०.६० ॥

俱缚迦尔纳起身时,他的形貌闪耀如同一劫之末、欲焚尽一切众生的时间之神。

6.60.61

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी।
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ६.६०.६१ ॥

他那两只大眼睛如熊熊烈火,光彩如闪电,仿佛两颗燃烧的大行星。

6.60.62

ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून्।
वराहान् महिषांश्चैव बभक्ष स महाबलः ॥ ६.६०.६२ ॥

随后他们把各种各样的许多食物都展示给他看,这位大力者便吞食了野猪和水牛。

6.60.63

आदद् बुभुक्षितो मांसं शोणितं तृषितोऽपिबत्।
मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा ॥ ६.६०.६३ ॥

他饥饿时取食肉,口渴时饮血;随后这位因陀罗之敌又饮尽了脂肪缸和美酒。

6.60.64

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ६.६०.६४ ॥

他们得知他已经饱足,夜行者便起身;低头向他行礼,从四面将他包围。

6.60.65

निद्राविशदनेत्रस्तु कलुषीकृतलोचनः।
चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ॥ ६.६०.६५ ॥

他睡眼初开,目光浑浊,四处张望,看见了那些夜行者。

6.60.66

स सर्वान् सान्त्वयामास नैर्ऋतान् नैर्ऋतर्षभः।
बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ६.६०.६६ ॥

这位涅栗多中的首领安慰了所有涅栗多;因被唤醒而惊讶,他对罗刹们说了这番话。

6.60.67

किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः।
कच्चित् सुकुशलं राज्ञो भयं वा नेह किंचन ॥ ६.६०.६७ ॥

你们为何恭敬地唤醒我?国王是否安好?此处是否毫无危险?

6.60.68

अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम्।
यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ६.६०.६८ ॥

或者,他人必定已带来大的危险,所以你们急忙唤醒了我。

6.60.69

अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्।
दारयिष्ये महेन्द्रं वा शीतयिष्ये तथानलम् ॥ ६.६०.६९ ॥

今日我要拔除罗刹王的恐惧。我要劈开因陀罗,或同样使火焰冷却。

6.60.70

न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम्।
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ ६.६०.७० ॥

若非重大缘由,无人会唤醒像我这样熟睡之人。所以请如实告诉我唤醒我的原因。

6.60.71

एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्।
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥ ६.६०.७१ ॥

对于如此愤怒说话的降敌者鸠婆羯罗,国王的大臣优波叉合掌说道:

6.60.72

न नो देवकृतं किंचिद् भयमस्ति कदाचन।
मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥ ६.६०.७२ ॥

我们从来没有来自神明的危险。大王啊,来自人类的汹涌危难正在紧紧逼迫我们。

6.60.73

न दैत्यदानवेभ्यो वा भयमस्ति न नः क्वचित्।
यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ॥ ६.६०.७३ ॥

大王啊,我们从来不怕檀提和檀那婆;但如今降临在我们身上的、来自人类的恐惧却是这样的。

6.60.74

वानरैः पर्वताकारैर्लङ्केयं परिवारिता।
सीताहरणसंतप्ताद् रामान्नस्तुमुलं भयम् ॥ ६.६०.७४ ॥

这座楞伽城被如山岳般的猴子们包围了;因悉多被劫而痛苦的罗摩,令我们心中充满巨大的恐惧。

6.60.75

एकेन वानरेणेयं पूर्वं दग्धा महापुरी।
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ ६.६०.७५ ॥

从前,这座大城被一只猴子焚毁;王子和阿刹被杀,连同他们的随从和大象。

6.60.76

स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः।
व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥ ६.६०.७६ ॥

就连罗刹之主、补罗私多之后、诸神的眼中钉,他本人,也在战场上被如太阳般光辉的罗摩说一声“去吧”而放走了。

6.60.77

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ६.६०.७७ ॥

他并非由诸神、檀提或檀那婆立为王;此时却被罗摩从性命的危难中释放了。

6.60.78

स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराभवम्।
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ६.६०.७८ ॥

俱跋迦叶听了牟巴叉的话,听闻兄长在战斗中的败绩,双目圆睁,对牟巴叉说了这番话。

6.60.79

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्।
राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम् ॥ ६.६०.७९ ॥

优跋叉啊,今天我就要在战场上击败包括罗什曼那在内的整个猴军以及罗怙之子(罗摩),然后去见罗波那。

6.60.80

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः।
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ ६.६०.८० ॥

我要用猴子的肉和血来让罗刹们得到满足,而罗摩与罗什曼那的血,我将亲自饮下。

6.60.81

तत् तस्य वाक्यं ब्रुवतो निशम्य
सगर्वितं रोषविवृद्धदोषम्।
महोदरो नैर्ऋतयोधमुख्यः
कृताञ्जलिर्वाक्यमिदं बभाषे ॥ ६.६०.८१ ॥

听了他那充满傲慢、因愤怒而加剧过失的话语后,罗刹战将之首摩訶陀罗合掌说出了这番话。

6.60.82

रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च।
पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ॥ ६.६०.८२ ॥

啊,大臂者,听了罗波那的话,并权衡其中的得失之后,你之后仍会在战场上战胜敌人。

6.60.83

महोदरवचः श्रुत्वा राक्षसैः परिवारितः।
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥ ६.६०.८३ ॥

听了摩訶陀罗的话后,光辉伟大、力量强大的鸠婆羯罗被罗刹们簇拥着出发了。

6.60.84

सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्।
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ६.६०.८४ ॥

他们唤醒了沉睡的、眼目凶猛、形貌与勇力皆可怖的那一位,罗刹们急忙前往十首(罗波那)的居所。

6.60.85

तेऽभिगम्य दशग्रीवमासीनं परमासने।
ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ ६.६०.८५ ॥

众夜行者走近坐在至尊宝座上的十首罗波那,合掌行礼,齐声说道。

6.60.86

कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर।
कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥ ६.६०.८६ ॥

罗刹之王啊,你的兄弟鸠槃羯罗已经醒来。他已来到此处,你将如何看到他从那里出来?

6.60.87

रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान्।
द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ ६.६०.८७ ॥

于是欢喜的罗波那对在场的罗刹们说:“我想在此见到他;应当依礼好好款待他。”

6.60.88

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः।
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ६.६०.८८ ॥

众罗刹答道“好”,在罗波那的催促下返回,对鸠槃羯罗说了这些话。

6.60.89

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः।
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥ ६.६०.८९ ॥

诸罗刹中最优秀的国王想见你。请决意前往,让你的兄长欢喜。

6.60.90

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्।
तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥ ६.६०.९० ॥

难以抵挡的鸠槃羯罗明白了兄长的命令,说了“好”,这位大勇士便从床上跃身而起。

6.60.91

प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ६.६०.९१ ॥

他洗脸沐浴,极为欢喜,口渴难耐,急忙催人取来能增长力量的饮料。

6.60.92

ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया।
मद्यं भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन् ॥ ६.६०.९२ ॥

于是那些罗刹奉罗婆那之命,迅速献上了美酒和各种食物。

6.60.93

पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे।
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ॥ ६.६०.९३ ॥

饮尽两千瓮之后,他准备动身,微有凶猛与醉意,却满怀光辉与力量。

6.60.94

कुम्भकर्णो बभौ रुष्टः कालान्तकयमोपमः।
भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ६.६०.९४ ॥

愤怒的鸠婆羯罗如时间、终结者与阎摩般闪耀。他前往兄长的居所,随罗刹大军同行,以脚步使大地震颤。

6.60.95

स राजमार्गं वपुषा प्रकाशयन्
सहस्ररश्मिर्धरणीमिवांशुभिः।
जगाम तत्राञ्जलिमालया वृतः
शतक्रतुर्गेहमिव स्वयंभुवः ॥ ६.६०.९५ ॥

他以身体照亮王道,如千光之日以光芒照耀大地。在那里被合掌的行列环绕,他前行,如百祭之因陀罗前往自生者梵天的居所。

6.60.96

तं राजमार्गस्थममित्रघातिनं
वनौकसस्ते सहसा बहिःस्थिताः।
दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं
वितत्रसुस्ते सह यूथपालैः ॥ ६.६०.९६ ॥

站在外面的林居者(猴众)忽然看见那位站在王道上的破敌者。他无量,如山峰一般,他们见之惊恐,与众队长一同战栗。

6.60.97

केचिच्छरण्यं शरणं स्म रामं
व्रजन्ति केचिद् व्यथिताः पतन्ति।
केचिद् दशश्च व्यथिताः पतन्ति
केचिद् भयार्ता भुवि शेरते स्म ॥ ६.६०.९७ ॥

有些人投奔值得依靠的罗摩寻求庇护;有些人痛苦地倒下;有些人十人一群痛苦地倒下;还有些人因恐惧而在地上躺倒。

6.60.98

तमद्रिशृङ्गप्रतिमं किरीटिनं
स्पृशन्तमादित्यमिवात्मतेजसा।
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं
भयार्दिता दुद्रुविरे यतस्ततः ॥ ६.६०.९८ ॥

林中居民看见他如山峰一般,头戴王冠,以自身光芒触及太阳,奇迹般地变得高大,因恐惧而备受折磨,便四散奔逃。