Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.63.1

तस्य राक्षसराजस्य निशम्य परिदेवितम्।
कुम्भकर्णो बभाषेदं वचनं प्रजहास च ॥ ६.६३.१ ॥

その羅刹王の嘆きを聞いて、クンバカルナはこの言葉を述べ、笑った。

6.63.2

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये।
हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ ६.६३.२ ॥

これは以前、評議の決定において我々が見抜いていた過ちである。益になる者たちに心を向けなかったため、今それがお前に降りかかったのだ。

6.63.3

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ६.६३.३ ॥

お前の悪しき行いの果報は、まさに早くも訪れたのだ。悪行を為す者が地獄に堕ちるように。

6.63.4

प्रथमं वै महाराज कृत्यमेतदचिन्तितम्।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ६.६३.४ ॥

大王よ、この行いは最初から考えもなくなされた。ただ武勇の驕りによって、その結果は熟慮されなかったのだ。

6.63.5

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः।
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ६.६३.५ ॥

権勢を得た者が、先にすべきことを後に、後にすべきことを先にするならば、その者は正しい統治と誤った統治を知らない。

6.63.6

देशकालविहीनानि कर्माणि विपरीतवत्।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६.६३.६ ॥

場所と時を欠いて行われた行いは、逆になり穢れる。不浄な者が捧げた供物が穢れるように。

6.63.7

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपद्यते।
सचिवैः समयं कृत्वा स सम्यग् वर्तते पथि ॥ ६.६३.७ ॥

三つの事業を五つの方法で結びつける者は、大臣たちと取り決めを交わし、正しく道を進む。

6.63.8

यथागमं च यो राजा समयं च चिकीर्षति।
बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति ॥ ६.६३.८ ॥

聖典に従って取り決めを結ぼうとする王は、大臣を通じて知恵で理解し、友人にも目を配る。

6.63.9

धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ६.६३.९ ॥

羅刹の主よ、人は時に応じて法、利、欲のいずれか、あるいは全てを、あるいはまた三つの対を追求すべきである。

6.63.10

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ ६.६३.१० ॥

この三つのうち最善のものを聞いてさえ、王や王族の大臣がそれを悟らないなら、その博学は無益である。

6.63.11

उपप्रदानं सान्त्वं च भेदं काले च विक्रमम्।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ६.६३.११ ॥

贈与、慰撫、離間、時に応じた武勇、そして手段の運用——羅刹の中の最も優れた者よ、この二つが政策と非政策である。

6.63.12

काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह।
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ ६.६३.१२ ॥

自制の人は、時に応じて大臣と相談した上で法・利・欲を実践するなら、世において破滅に遭うことはない。

6.63.13

हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः।
राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥ ६.६३.१३ ॥

王は自らにとっての長期的な利益を考慮し、事の真実を知り知恵によって生きる大臣たちと共に行動すべきである。

6.63.14

अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः।
प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ॥ ६.६३.१४ ॥

聖典の意味を知らず、獣のような心を持つ人々が、大臣たちの中に招き入れられ、大胆さから発言しようとする。

6.63.15

अशास्त्रविदुषां तेषां कार्यं नाभिहितं वचः।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ ६.६३.१५ ॥

聖典を知らぬ者の言葉は行いに適さない。政治学を知らず大きな富を望む者の言葉は実を結ばない。

6.63.16

अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः।
अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥ ६.६३.१६ ॥

大胆さから有害なことを善の装いで口にする者は、必ず謀議から遠ざけるべきである。彼らは事を壊す者だからである。

6.63.17

विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ ६.६३.१७ ॥

敵や策略家と結び、主君を滅ぼしながら、ここで大臣たちは逆の行いをさせる。

6.63.18

तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये।
व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ ६.६३.१८ ॥

主君は、友に似ながら敵であり、謀議の決定に関与する大臣たちを、その振る舞いによって見分けるべきである。

6.63.19

चपलस्येह कृत्यानि सहसानुप्रधावतः।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ६.६३.१९ ॥

軽率に突き進む者の弱点を、他の者はちょうど鳥が鶴の空いた空に入り込むように捉えるのである。

6.63.20

यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति।
अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥ ६.६३.२० ॥

敵を軽んじて自らを守らぬ者は、必ず災難に遭い、その地位からも追われる。

6.63.21

यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च।
तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु ॥ ६.६३.२१ ॥

先に君の愛しい妃と私の弟が言ったことこそ、我らにとって有益な言葉だ。now、君の望むようにせよ。

6.63.22

तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्।
भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ॥ ६.६३.२२ ॥

クンバカルナのその言葉を聞いて、十頭のラーヴァナは眉をひそめ、怒って彼に語った。

6.63.23

मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससे।
किमेवं वाक्श्रमं कृत्वा यद् युक्तं तद् विधीयताम् ॥ ६.६३.२३ ॥

あなたはなぜ、尊敬すべき師か導師のように私に教えを説くのか。このように言葉を費やして何の益があろう。正しいことをなすがよい。

6.63.24

विभ्रमाच्चित्तमोहाद् वा बलवीर्याश्रयेण वा।
नाभिपन्नमिदानीं यद् व्यर्था तस्य पुनः कथा ॥ ६.६३.२४ ॥

迷いのため、心の惑いのため、あるいは力と勇気を頼みとして、まだ起きていないことを再び語るのはむなしい。

6.63.25

अस्मिन् काले तु यद् युक्तं तदिदानीं विचिन्त्यताम्।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ ६.६३.२५ ॥

今この時に何が適切かを、今こそ考えよう。過ぎ去ったことを嘆くことはない。過ぎたものは既に過ぎたのだ。

6.63.26

ममापनयजं दोषं विक्रमेण समीकुरु।
यदि खल्वस्ति मे स्नेहो विक्रमं वाधिगच्छसि ॥ ६.६३.२६ ॥

私から生じた過ちを、お前の武勇で正せ。本当に私への愛があるなら、武勇をこそ取れ。

6.63.27

यदि कार्यं ममैतत्ते हृदि कार्यतमं मतम्।
स सुहृद् यो विपन्नार्थं दीनमभ्युपपद्यते ॥ ६.६३.२७ ॥

もし私のこの用件がお前の心で最も重要と思われるなら、目的を砕かれた窮した者に手を差し伸べる者こそ友である。

6.63.28

स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते।
तमथैवं ब्रुवाणं स वचनं धीरदारुणम् ॥ ६.६३.२८ ॥

窮地に陥った者を助けようと身構える者こそ身内である。このように語る彼の、毅然としかも厳しい言葉を——

6.63.29

रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ ६.६३.२९ ॥

彼が怒っていると知り、静かに穏やかに語りかけた。兄の感覚が大いに乱れているのを見て——

6.63.30

कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्।
शृणु राजन्नवहितो मम वाक्यमरिंदम ॥ ६.६३.३० ॥

クンバカルナは優しくなだめながら語った。「王よ、敵を制する者よ、心して私の言葉を聞け。」

6.63.31

अलं राक्षसराजेन्द्र संतापमुपपद्य ते।
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥ ६.६३.३१ ॥

羅刹王の主よ、もうよい。苦悩に身を落としてはならない。怒りを完全に捨て、心を安んじるのがふさわしい。

6.63.32

नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव।
तमहं नाशयिष्यामि यत् कृते परितप्यते ॥ ६.६३.३२ ॥

王よ、私が生きている間は、そのようなことを心に抱いてはならない。あなたを苦しめている者を、私は滅ぼそう。

6.63.33

अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ ६.६३.३३ ॥

王よ、どのような状況においても、あなたに有益な言葉を必ず述べねばならない。親族の情と兄弟の愛から、私はこれを言った。

6.63.34

सदृशं यच्च कालेऽस्मिन् कर्तुं स्नेहेन बन्धुना।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ ६.६३.३४ ॥

今この時、愛情と親族の情によって行うべきことは、これである。戦場で私が行う敵の殺戮を見よ。

6.63.35

अद्य पश्य महाबाहो मया समरमूर्धनि।
हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥ ६.६३.३५ ॥

大臂の王よ、今日、戦場の最前線を見よ。私によってラーマが弟とともに殺された時、猿の軍勢が逃げ去るのを見よ。

6.63.36

अद्य रामस्य तद् दृष्ट्वा मयाऽऽनीतं रणाच्छिरः।
सुखी भव महाबाहो सीता भवतु दुःखिता ॥ ६.६३.३६ ॥

大臂の王よ、今日、私が戦場から持ち帰るラーマの首を見て、喜ぶがよい。そしてシーターは悲しむがよい。

6.63.37

अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम्।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ६.६३.३७ ॥

今日、親族を殺された者たちを含むラṅカーの羅刹たちは、ラーマの大いなる死を見よ、それは喜びである。

6.63.38

अद्य शोकपरीतानां स्वबन्धुवधशोचिनाम्।
शत्रोर्युधि विनाशेन करोम्यश्रुप्रमार्जनम् ॥ ६.६३.३८ ॥

今日、悲しみに打ちひしがれ、親族の殺害を嘆く者たちの涙を、戦いで敵を滅ぼすことによって、私は拭う。

6.63.39

अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्।
विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ॥ ६.६३.३९ ॥

今日、戦いで、山のように、太陽を伴う雨雲のように散らばった猿王スグリーヴァを見よ。

6.63.40

कथं च राक्षसैरेभिर्मया च परिसान्त्वितः।
जिघांसुभिर्दाशरथिं व्यथसे त्वं सदानघ ॥ ६.६३.४० ॥

罪なき者よ、これら羅刹と私に慰められながら、なぜお前はダシャラタの息子を殺そうとする者たちのために、いつも嘆くのか。

6.63.41

मां निहत्य किल त्वां हि निहनिष्यति राघवः।
नाहमात्मनि संतापं गच्छेयं राक्षसाधिप ॥ ६.६३.४१ ॥

ラーガヴァは私を殺した後、必ずやお前をも殺すであろう。羅刹の主よ、私は内心で苦しみを抱くことはないだろう。

6.63.42

कामं त्विदानीमपि मां व्यादिश त्वं परंतप।
न परः प्रेक्षणीयस्ते युद्धायातुलविक्रम ॥ ६.६३.४२ ॥

敵を苦しめる者よ、今でもお前の望むままに私に命じよ。比類なき勇者よ、戦いにおいてお前にとって他の者は見るに値しない。

6.63.43

अहमुत्सादयिष्यामि शत्रूंस्तव महाबलान्।
यदि शक्रो यदि यमो यदि पावकमारुतौ ॥ ६.६३.४३ ॥

インドラであれ、ヤマであれ、アグニとヴァーユであれ、私はあなたの大力の敵を滅ぼしてみせる。

6.63.44

तानहं योधयिष्यामि कुबेरवरुणावपि।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ॥ ६.६३.४४ ॥

彼らと戦おう、クベーラやヴァルナであっても。山のような体を持ち、鋭い槍を執る私が。

6.63.45

नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः।
अथ वा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ॥ ६.६३.४५ ॥

咆哮し鋭い牙を持つ私を、インドラさえ恐れるだろう。あるいは武器を捨てても、力で敵をすり潰す私を。

6.63.46

न मे प्रतिमुखः कश्चित् स्थातुं शक्तो जिजीविषुः।
नैव शक्त्या न गदया नासिना निशितैः शरैः ॥ ६.६३.४६ ॥

生きたいと願う者は誰も私の前に立つことはできない。槍でも、棍棒でも、剣でも、鋭い矢でも。

6.63.47

हस्ताभ्यामेव संरभ्य हनिष्यामि सवज्रिणम्।
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ॥ ६.६३.४७ ॥

怒りのまま、ただ両手だけで彼らを雷霆の使い手もろとも打ち倒そう。今日、あのラーガヴァが私の拳の勢いに耐えられるなら。

6.63.48

ततः पास्यन्ति बाणौघा रुधिरं राघवस्य मे।
चिन्तया तप्यसे राजन् किमर्थं मयि तिष्ठति ॥ ६.६३.४८ ॥

そのとき、矢の奔流がラーガヴァの血を飲み干すだろう。王よ、私がここにいるのに、なぜ憂いに苦しまれるのか。

6.63.49

सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः।
मुञ्च रामाद् भयं घोरं निहनिष्यामि संयुगे ॥ ६.६३.४९ ॥

あなたの敵を滅ぼすため、私は出陣する覚悟ができています。ラーマへの恐ろしい恐れを捨てなさい。戦いで私が必ず彼を討ちます。

6.63.50

राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्।
हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ॥ ६.६३.५० ॥

ラーガヴァ(ラーマ)、ラクシュマナ、大力のスグリーヴァ、そしてラークシャサを滅ぼすハヌマーン——ランカーを焼き払った者——これらすべてを私は殺すであろう。

6.63.51

हरींश्च भक्षयिष्यामि संयुगे समुपस्थिते।
असाधारणमिच्छामि तव दातुं महद् यशः ॥ ६.६३.५१ ॥

戦いが始まれば、猿どもも私が食らい尽くすでしょう。あなたに比類なき大いなる名誉を差し上げたいのです。

6.63.52

यदि चेन्द्राद् भयं राजन् यदि चापि स्वयंभुवः।
ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥ ६.६३.५२ ॥

王よ、たとえインドラへの恐れがあろうと、スヴァヤンブー(ブラフマー)への恐れがあろうと、太陽が夜の闇を消し去るように、私はそれを滅ぼしましょう。

6.63.53

अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ ६.६३.५३ ॥

私が怒れば、神々でさえ大地に横たわるでしょう。ヤマをも鎮め、火をも呑み尽くしましょう。

6.63.54

आदित्यं पातयिष्यामि सनक्षत्रं महीतले।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥ ६.६३.५४ ॥

太陽を星々とともに大地へ落としてやろう。百の供犠を行った者インドラを殺し、ヴァルナの住処である海を飲み干そう。

6.63.55

पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ ६.६३.५५ ॥

私は山々を砕き、大地を裂くだろう。長く眠っていたクンバカルナの武勇を見よ。

6.63.56

अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः।
न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते ॥ ६.६३.५६ ॥

今日、生き物たちがあらゆる方向から喰われるのを見るがよい。しかしこの三界すべてでさえ、私の食を満たすことはできない。

6.63.57

वधेन ते दाशरथेः सुखावहं
सुखं समाहर्तुमहं व्रजामि।
निहत्य रामं सह लक्ष्मणेन
खादामि सर्वान् हरियूथमुख्यान् ॥ ६.६३.५७ ॥

あなたに幸福をもたらすダシャラタの子ラーマを殺し、その喜びを得るために私は行く。ラーマとラクシュマナを殺したのち、猿の群れの主だった者たちをことごとく喰らおう。

6.63.58

रमस्व राजन् पिब चाद्य वारुणीं
कुरुष्व कृत्यानि विनीय दुःखम्।
मयाद्य रामे गमिते यमक्षयं
चिराय सीता वशगा भविष्यति ॥ ६.६३.५८ ॥

王よ、喜び楽しみ、今日は酒を飲め。憂いを捨てて、己の務めを果たせ。今日、私によってラーマがヤマの館へ送られたなら、シーターは長い間あなたの支配下に留まるだろう。