ヴァールミーキのラーマーヤナ · サルガ 6.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.64.1
तदुक्तमतिकायस्य बलिनो बाहुशालिनः।
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ ६.६४.१ ॥
身体が巨大で強く腕の力に優れたクンバカルナの言葉を聞いて、マホーダラは語った。
6.64.2
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः।
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ ६.६४.२ ॥
クンバカルナよ、お前は名門に生まれたが、無謀で見た目も平凡だ。傲慢なお前は、あらゆる場面で為すべきことを知ることができない。
6.64.3
नहि राजा न जानीते कुम्भकर्ण नयानयौ।
त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुमिच्छसि ॥ ६.६४.३ ॥
クンバカルナよ、王が正しい策と誤った策を知らないわけではない。だがお前は若さゆえに無謀で、ただ口を出したいだけだ。
6.64.4
स्थानं वृद्धिं च हानिं च देशकालविधानवित्।
आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥ ६.६४.४ ॥
場所と時の理を知るそのラークシャサの雄牛は、自分と他者の立場、隆盛と衰退を理解する。
6.64.5
यत् त्वशक्यं बलवता वक्तुं प्राकृतबुद्धिना।
अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः ॥ ६.६४.५ ॥
力ある者でさえ言えないことを、凡庸な知恵で年長者に仕えたこともない者が口にするとは。どの賢者がそのようなことをするだろうか。
6.64.6
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।
अवबोद्धुं स्वभावेन नहि लक्षणमस्ति तान् ॥ ६.६४.६ ॥
お前は法、利、欲にはそれぞれ別の拠り所があると言うが、それらを本性で理解する手がかりなどない。
6.64.7
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्।
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ६.६४.७ ॥
行為こそすべての原因の目的である。ここでは罪深い者にとっても、行為の果報は善となる。
6.64.8
निःश्रेयसफलावेव धर्मार्थावितरावपि।
अधर्मानर्थयोः प्राप्तं फलं च प्रत्यवायिकम् ॥ ६.६४.८ ॥
法と利はいずれも至上の善を果実とし、他の(愛欲)もそうである。しかし非法と災厄の果実は害をもたらす。
6.64.9
ऐहलौकिकपारक्यं कर्म पुंभिर्निषेव्यते।
कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥ ६.६४.९ ॥
人は現世と来世に関わる行為を行う。吉祥なる者よ、行為に依拠する者は望みを得るのである。
6.64.10
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः।
शत्रौ हि साहसं यत् तत् किमिवात्रापनीयते ॥ ६.६४.१० ॥
この件について王は心中でこう決めておられ、これは我々の意見でもある。敵に向けられる勇敢さを、ここでどうして退けることができようか。
6.64.11
एकस्यैवाभियाने तु हेतुर्यः प्राहृतस्त्वया।
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ ६.६४.११ ॥
一人を攻撃するためにあなたが挙げた理由にも、あなたの論は成り立たない。ゆえに、不適切なことをも私は述べよう。
6.64.12
येन पूर्वं जनस्थाने बहवोऽतिबला हताः।
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ ६.६४.१२ ॥
かつてジャナスターナで多くの極めて強力なラークシャサを討ち取ったあのラーガヴァを、お前は一人でどうして打ち破れようか。
6.64.13
ये पूर्वं निर्जितास्तेन जनस्थाने महौजसः।
राक्षसांस्तान् पुरे सर्वान् भीतानद्य न पश्यसि ॥ ६.६४.१३ ॥
ジャナスタナでかつて彼に打ち負かされた、大いなる力の羅刹たちが、今や町で怯えているのが見えないのか。
6.64.14
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्।
सर्पं सुप्तमहो बुद्ध्वा प्रबोधयितुमिच्छसि ॥ ६.६४.१४ ॥
獅子のように怒り立ったダシャラタの子ラーマを、眠る蛇と知りながら起こそうとするかのように、あなたは目覚めさせようとしている。
6.64.15
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।
कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ ६.६४.१५ ॥
常に威光に燃え、怒りにあっては近づき難く、死のように耐え難いあの方に、近づく資格のある者がいようか。
6.64.16
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।
एकस्य गमनं तात नहि मे रोचते भृशम् ॥ ६.६४.१६ ॥
ああ、親愛なる者よ!敵と正面から向き合うことは、すべてが定かでない。お前が一人で行くのは、私にはまったく気に入らない。
6.64.17
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतं यथा।
निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ ६.६४.१७ ॥
目的を果たせぬ者が、目的を遂げ、命を捨てる覚悟を決めた、ありふれた敵を従えようとなど、誰が望むだろうか。
6.64.18
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ ६.६४.१८ ॥
羅刹の最上の者よ。人間の中に並ぶ者のない、インドラやヴィヴァスヴァット(太陽)に等しい方と、どうして戦おうと望むのか。
6.64.19
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः।
उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥ ६.६४.१९ ॥
怒れるクンバカルナにそう言うと、マハーゴダラは羅刹たちの中で、世界を震え上がらせるラーヴァナに語った。
6.64.20
लब्ध्वा पुरस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे।
यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ ६.६४.२० ॥
ヴァイデーヒーを先に得ているのに、なぜ躊躇しているのか。望むなら、シーターはお前の支配下に入るだろう。
6.64.21
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।
रुचितश्चेत् स्वया बुद्ध्या राक्षसेन्द्र ततः शृणु ॥ ६.६४.२१ ॥
シーターをお前のもとに連れて来る手立てを見つけた。羅刹王よ、お前の知恵に適うなら聞け。
6.64.22
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।
पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ ६.६४.२२ ॥
私、ドヴィジフヴァ、サンフラーディ、クンバカルナ、ヴィタルダナ——この五人がラーマの殺害のために出陣すると布告せよ。
6.64.23
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।
जेष्यामो यदि ते शत्रून् नोपायैः कार्यमस्ति नः ॥ ६.६४.२३ ॥
それから我らは赴いて、力を尽くして彼と戦おう。もし我らが君の敵に勝てるなら、策略の必要はない。
6.64.24
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।
ततः समभिपत्स्यामो मनसा यत् समीक्षितम् ॥ ६.६४.२४ ॥
しかし我らの敵がまだ生きているなら、我らは戦いの備えをして、心に思い定めたとおりに彼へ襲いかかろう。
6.64.25
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।
विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः ॥ ६.६४.२५ ॥
我らは血にまみれて戦場から此処へ戻り、ラーマの名が刻まれた矢で自らの身を裂いてみせる。
6.64.26
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः।
ततः पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥ ६.६४.२६ ॥
「ラーガヴァとラクシュマナは我らが喰らった」と言い、そのあとあなたの足を掴みます——我らの望みを叶えてください。
6.64.27
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव।
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ ६.६४.२७ ॥
さて王よ、象の背から町中に布告させよ——ラーマは弟と軍勢もろとも殺されたと。
6.64.28
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम।
भोगांश्च परिवारांश्च कामान् वसु च दापय ॥ ६.६४.२८ ॥
敵を征する者よ、そして喜んで、家臣に歓楽、従者、望みの品、財宝を与えさせよ。
6.64.29
ततो माल्यानि वासांसि वीराणामनुलेपनम्।
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ ६.६४.२९ ॥
それから勇士たちに花環・衣服・香油を与え、戦士たちには十分な酒を与えよ。そしてあなた自身も喜んで飲め。
6.64.30
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते।
भक्षितः ससुहृद् रामो राक्षसैरिति विश्रुते ॥ ६.६४.३० ॥
その風聞が四方に広がり、名高くなった後——ラーマは味方とともに羅刹たちに喰われたと。
6.64.31
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन्।
धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ ६.६४.३१ ॥
中に入り、シーターを人目のないところで慰め、富、穀物、望ましい品々、宝石で誘惑せよ。
6.64.32
अनयोपधया राजन् भूयः शोकानुबन्धया।
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ ६.६४.३२ ॥
王よ、この策略によって、繰り返し悲しみにつなぎとめれば、夫を失ったシーターは望まずとも、あなたの支配下に入るでしょう。
6.64.33
रमणीयं हि भर्तारं विनष्टमधिगम्य सा।
नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ ६.६४.३३ ॥
愛しい夫が滅びたと知れば、彼女は絶望と女性の弱さから、あなたの支配に屈するでしょう。
6.64.34
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता।
त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति ॥ ६.६४.३४ ॥
かつて幸福の中に育ち、幸福にふさわしかった彼女は、悲しみにやつれ、幸福があなたの掌中にあると知れば、必ずやあなたのもとへ行くでしょう。
6.64.35
एतत् सुनीतं मम दर्शनेन
रामं हि दृष्ट्वैव भवेदनर्थः।
इहैव ते सेत्स्यति मोत्सुको भू-
र्महानयुद्धेन सुखस्य लाभः ॥ ६.६४.३५ ॥
私の考えでは、これこそ善き策です。ラーマを見るだけでも破滅を招きかねません。あなたの目的はここで成就するでしょう。焦ってはなりません。戦わずして大きな幸福を得られるのです。
6.64.36
अनष्टसैन्यो ह्यनवाप्तसंशयो
रिपुं त्वयुद्धेन जयञ्जनाधिपः।
यशश्च पुण्यं च महान्महीपते
श्रियं च कीर्तिं च चिरं समश्नुते ॥ ६.६४.३६ ॥
軍勢を損なわず、疑いなく、戦わずして敵に勝つ王は、大地の主よ、長きにわたり大いなる名声、功徳、繁栄、栄誉を享受するのです。