Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.66.1

स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।
निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ॥ ६.६६.१ ॥

他跃过城墙,高大如山峰,大力的鸠婆羯罗迅速走出了城市。

6.66.2

ननाद च महानादं समुद्रमभिनादयन्।
विजयन्निव निर्घातान् विधमन्निव पर्वतान् ॥ ६.६६.२ ॥

他发出巨大的吼声,使大海回响,仿佛战胜了霹雳,又仿佛摧散群山。

6.66.3

तमवध्यं मघवता यमेन वरुणेन वा।
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ६.६६.३ ॥

看见那可怕双眼的、即使因陀罗、阎摩或伐楼那也无法杀死的他走来,猴子们四散奔逃。

6.66.4

तांस्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत्।
नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ६.६६.४ ॥

看见他们四散奔逃,王子安加达对那罗、尼罗、迦婆刹以及大力的俱牟陀说道。

6.66.5

आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ६.६६.५ ॥

忘记了你们自己的勇力与高贵的出身,因恐惧而颤抖,你们像普通的猴子一样要往哪里去?

6.66.6

साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।
नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६.६६.६ ॥

善良的诸位,请回来吧!你们为何要保全性命?这罗刹不足以与你们交战,这只是一场巨大的恐怖罢了。

6.66.7

महतीमुत्थितामेनां राक्षसानां विभीषिकाम्।
विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ६.६६.७ ॥

我们将以勇力摧毁罗刹所激起的这场大恐怖。跳跃者们,回去吧。

6.66.8

कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः।
वृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे ॥ ६.६६.८ ॥

猴子们勉强稳住心神,从四面八方聚集起来,手持树木,向战场进发。

6.66.9

ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ६.६६.९ ॥

那些林中的猴子调转回来,怒不可遏,如发情的象群一般,猛击俱缚罗。

6.66.10

प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ ६.६६.१० ॥

即便被强大的猴子以高耸的山峰、巨石和开满花朵的树木击打,他也纹丝不动。

6.66.11

तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ६.६६.११ ॥

许多落在他身上的巨石都被砸得粉碎,开满花朵的树木被折断,倒在地上。

6.66.12

सोऽपि सैन्यानि संक्रुद्धौ वानराणां महौजसाम्।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ ६.६६.१२ ॥

他也怒不可遏,全力以赴,将威力强大的猴子大军摧毁,如同燃起的烈火焚烧森林。

6.66.13

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ ६.६६.१३ ॥

许多猴族的英杰浑身浴血,倒卧在地,被击倒,如同开着铜色花朵的树木被推倒。

6.66.14

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्।
केचित् समुद्रे पतिताः केचिद् गगनमास्थिताः ॥ ६.६६.१४ ॥

猴族们跳跃奔逃,不曾回头;有的坠入大海,有的飞向天空。

6.66.15

वध्यमानास्तु ते वीरा राक्षसेन च लीलया।
सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥ ६.६६.१५ ॥

那些英雄被罗刹如同戏耍般杀戮,便沿着他们渡过大海的那条路逃去。

6.66.16

ते स्थलानि तदा निम्नं विवर्णवदना भयात्।
ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥ ६.६६.१६ ॥

他们因恐惧而面色苍白,此时奔逃于高处与低地;熊罴攀上树木,有些则投奔山中。

6.66.17

ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः।
निपेतुः केचिदपरे केचिन्नैवावतस्थिरे।
केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव ॥ ६.६६.१७ ॥

有的沉入大海,有的投奔洞穴;有的倒下,有的站立不住;有的倒卧在地,仿佛睡去或已死去。

6.66.18

तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत्।
अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ॥ ६.६६.१८ ॥

安伽达见众猴溃散,便对他们说:"站住!我们要迎战。诸位跳跃的猴子,回来吧!"

6.66.19

भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्।
स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥ ६.६६.१९ ॥

我走遍这片大地,却见你们溃散的人中没有一人站稳。你们都回来!为何还要保全自己的性命?

6.66.20

निरायुधानां क्रमतामसङ्गगतिपौरुषाः।
दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम् ॥ ६.६६.२० ॥

那些无兵器而逃奔、步伐不稳、缺乏勇气的人,连他们的妻子也会嘲笑他们。对于想要好好活着的人来说,这实在等同于死亡。

6.66.21

कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा।
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ ६.६६.२१ ॥

你们都生于如此广大高贵的家族,却惊恐万分,像普通猿猴一样逃往何处?因恐惧而舍弃勇气逃跑的你们,实在是不高贵之人。

6.66.22

विकत्थनानि वो यानि भवद्भिर्जनसंसदि।
तानि वः क्व नु यातानि सोदग्राणि हितानि च ॥ ६.६६.२२ ॥

你们在众人的集会上夸下的那些海口,那些自豪而有益的话,如今都到哪里去了?

6.66.23

भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ ६.६६.२३ ॥

人们议论怯懦者,说他即使活着也遭人唾弃。请走善人所走之路,抛弃恐惧。

6.66.24

शयामहे वा निहताः पृथिव्यामल्पजीविताः।
प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ॥ ६.६६.२४ ॥

我们要么在大地上被杀倒下,寿命短暂;要么获得梵天之界,那是怯懦的战士难以到达的。

6.66.25

अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।
निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥ ६.६६.२५ ॥

或在战场上杀敌而获得荣耀,或战死而享受英雄世界的财富,诸位猴众啊。

6.66.26

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ ६.६६.२६ ॥

俱缚迦尔纳见到迦古特斯塔族的罗摩,将不能活着离去,正如飞蛾扑向熊熊烈火。

6.66.27

पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ ६.६६.२७ ॥

我们难道要靠逃跑保命吗?若众多之人被一人击败,名声便会毁灭。

6.66.28

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ६.६६.२८ ॥

对这位说着这些话的英勇的金臂钏阿耆达,逃奔中的猴众于是说出了为勇士所鄙弃的话。

6.66.29

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।
न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ६.६६.२९ ॥

罗刹俱缚迦尔纳给我们造成了可怕的杀戮。此时此地不宜停留;让我们带着珍贵的性命离开吧。

6.66.30

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ६.६६.३० ॥

说完这些话,众猴将领望见目光可怖的恐怖者走来,便四散奔逃。

6.66.31

द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः।
सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः ॥ ६.६६.३१ ॥

那些奔逃的英勇猴众,此时都被安伽达的安慰之语与劝勉之言所召回。

6.66.32

प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ६.६६.३२ ॥

在智慧的伐利之子安伽达的鼓舞下,所有猴军统帅都欢欣地站立,等待他的命令。

6.66.33

ऋषभशरभमैन्दधूम्रनीलाः
कुमुदसुषेणगवाक्षरम्भताराः।
द्विविदपनसवायुपुत्रमुख्या-
स्त्वरिततराभिमुखं रणं प्रयाताः ॥ ६.६६.३३ ॥

力士、沙罗婆、麦因陀、烟尘与青色、库穆陀、苏舍那、迦伐克沙、兰跋、多罗、双毗陀、波那娑,以及风神之子(哈努曼)为首,急速奔向战场。