Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.72.1

अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना।
उद्वेगमगमद् राजा वचनं चेदमब्रवीत् ॥ ६.७२.१ ॥

偉大な魂のラクシュマナによってアティカーヤが殺されたと聞き、王は動揺し、この言葉を述べた。

6.72.2

धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः।
अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ ६.७२.२ ॥

極度に怒りやすく、あらゆる武器の使い手の中で最も優れたドゥームラークシャ、アカンパナ、プラハスタ、そして同じくクンバカルナ。

6.72.3

एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।
जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ६.७२.३ ॥

これら強大な勇士の羅刹たちは戦いを望み、敵軍を征服した者であり、敵に決して打ち負かされたことのない者たちである。

6.72.4

ससैन्यास्ते हता वीरा रामेणाक्लिष्टकर्मणा।
राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ॥ ६.७२.४ ॥

その英雄たる羅刹たちは軍勢とともに、苦もなく行いを成す羅摩によって殺された。彼らは巨大な体躯をもち、多くの武器に通じていた。

6.72.5

अन्ये च बहवः शूरा महात्मानो निपातिताः।
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ॥ ६.७२.५ ॥

その他の勇敢で偉大な魂をもつ者たちも、力と勇気で名高い私の息子インドラジットによって倒された。

6.72.6

तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः।
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ॥ ६.७२.६ ॥

その時、あの二人の兄弟は恩恵によって授かった恐ろしい矢に縛られた。それは諸神にも、阿修羅にも、大力の者たちにも不可能なことであった。

6.72.7

मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वपन्नगैः।
तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥ ६.७२.७ ॥

夜叉・ガンダルヴァ・ナーガが掛けたあの恐ろしい束縛を解くこと——それが彼らの力によるのか、幻術によるのか、魅惑によるのか、私には分からない。

6.72.8

शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ।
ये योधा निर्गताः शूरा राक्षसा मम शासनात् ॥ ६.७२.८ ॥

矢の縛めから解かれたあの二人の兄弟、ラーマとラクシュマナ——私の命令で出撃した勇猛なラークシャサの戦士たち。

6.72.9

ते सर्वे निहता युद्धे वानरैः सुमहाबलैः।
तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ॥ ६.७२.९ ॥

彼らはみな、非常に強力なヴァーナラたちによって戦場で殺された。今日、戦場でラクシュマナと共にいるラーマを滅ぼせる者を私は見ない。

6.72.10

नाशयेत् सबलं वीरं ससुग्रीवं विभीषणम्।
अहो सुबलवान् रामो महदस्त्रबलं च वै ॥ ६.७२.१० ॥

その英雄を、軍勢と共に、スグリーヴァとヴィビーシャナと共に滅ぼせる者がいようか——ああ!ラーマは非常に強く、その武器の力も実に大きい。

6.72.11

यस्य विक्रममासाद्य राक्षसा निधनं गताः।
तं मन्ये राघवं वीरं नारायणमनामयम् ॥ ६.७२.११ ॥

その武勇に出会って羅刹たちが死を迎えた——その英雄ラーガヴァこそ、汚れなきナーラーヤナだと私は思う。

6.72.12

तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा।
अप्रमत्तैश्च सर्वत्र गुल्मे रक्ष्या पुरी त्वियम् ॥ ६.७२.१२ ॥

その恐れのゆえに、このラン カー城の門と楼門は閉ざされるべきだ。そして、この都は至る所で油断なき守備隊によって守られるべきだ。

6.72.13

अशोकवनिका चैव यत्र सीताभिरक्ष्यते।
निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः ॥ ६.७२.१३ ॥

アショーカ園とシーターが守られている所では、出入りのことを常に我々が把握していなければならない。

6.72.14

यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः।
सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः ॥ ६.७२.१४ ॥

守備の拠点がある所では、そこそこで幾度も、四方を、それぞれ自軍に囲まれて堅く立っていよ。

6.72.15

द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।
प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ॥ ६.७२.१५ ॥

夜行者たちよ、あの猿どもの居場所は夕方にも真夜中にも夜明けにも、常に見張っていなければならない。

6.72.16

नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।
द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा ॥ ६.७२.१६ ॥

猿どもを決して侮ってはならない。敵の用意された軍勢がいつ、どのように襲いかかるか、誰が知ろうか。

6.72.17

ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।
वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः ॥ ६.७२.१७ ॥

そこで、ランカーの主のその命令を聞いた大力の羅刹たちは皆、それを正しく遂行し始めた。

6.72.18

तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः।
मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥ ६.७२.१८ ॥

彼ら全員に命令を下すと、羅刹王ラーヴァナは心の棘のような怒りを抱え、沈んだ面持ちで自らの館に入った。

6.72.19

ततः स संदीपितकोपवह्नि-
र्निशाचराणामधिपो महाबलः।
तदेव पुत्रव्यसनं विचिन्तयन्
मुहुर्मुहुश्चैव तदा विनिःश्वसन् ॥ ६.७२.१९ ॥

そのとき、怒りの炎を燃え上がらせた強大な夜行者(羅刹)の主は、息子たちの破滅のことばかりを繰り返し思い、長い溜息をついた。