Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.78

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.78.1

निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम्।
रावणः परमामर्षी प्रजज्वालानलो यथा ॥ ६.७८.१ ॥

罗波那听闻尼昆跋被杀、昆跋被击倒,极度愤怒,如火焰般燃烧起来。

6.78.2

नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः।
खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ ६.७८.२ ॥

罗波那(涅利塔)同时为愤怒与悲伤所困,便催促卡罗之子摩迦罗叉行动。

6.78.3

गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः।
राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥ ६.७८.३ ॥

孩子,奉我之命,带领大军前去;杀死那两个林中之人,罗怙之裔与罗什曼那。

6.78.4

रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः।
बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम् ॥ ६.७८.४ ॥

摩迦罗叉听闻罗波那之言,自以为是勇士,欣然说道:"好。"并对那夜行者说道。

6.78.5

सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्।
निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली ॥ ६.७८.५ ॥

他向十首者致敬,并右绕行礼,然后奉罗波那之命,这位有力的将领从那座光明的宫殿中走出。

6.78.6

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीद् वचः।
रथमानीयतां तूर्णं सैन्यं त्वानीयतां त्वरात् ॥ ६.७८.६ ॥

摩迦罗叉对身旁的统帅说:"快把战车牵来,也火速集结军队。"

6.78.7

तस्य तद् वचनं श्रुत्वा बलाध्यक्षो निशाचरः।
स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ६.७८.७ ॥

罗刹统帅听到他的话后,下令将战车和军队带到近前。

6.78.8

प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः।
सूतं संचोदयामास शीघ्रं वै रथमावह ॥ ६.७८.८ ॥

他从右侧绕战车一周后登上战车,催促御者迅速驾车前行。

6.78.9

अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम्।
यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ६.७८.९ ॥

于是摩迦罗叉对所有罗刹说:“罗刹们,你们都在我面前奋战吧。”

6.78.10

अहं राक्षसराजेन रावणेन महात्मना।
आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ ६.७८.१० ॥

大德的罗刹王罗波那已命令我,在战场上杀死那两位——罗摩与罗什曼那。

6.78.11

अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः।
शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ६.७८.११ ॥

今日我要杀死罗摩与罗什曼那,夜行者们!并以上好的箭矢杀死枝上兽猴须羯里婆和众猴。

6.78.12

अद्य शूलनिपातैश्च वानराणां महाचमूम्।
प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः ॥ ६.७८.१२ ॥

今日我将以投枪的打击,焚烧前来的那支庞大的众猴大军,如同烈火焚烧干柴。

6.78.13

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः।
सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥ ६.७८.१३ ॥

众夜行者听闻摩迦罗叉的这番话,皆持各种兵器,个个强壮而严阵以待。

6.78.14

ते कामरूपिणः क्रूरा दंष्ट्रिणः पिङ्गलेक्षणाः।
मातंगा इव नर्दन्तो ध्वस्तकेशा भयावहाः ॥ ६.७८.१४ ॥

他们能随意变化形貌,残暴,獠牙外露,眼睛黄赤,如象般吼叫,发髻散乱,令人恐惧。

6.78.15

परिवार्य महाकाया महाकायं खरात्मजम्।
अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥ ६.७८.१५ ॥

他们环绕着罗刹的身躯庞大的卡罗之子,身形如山,欢喜地前进,使大地为之震动。

6.78.16

शङ्खभेरीसहस्राणामाहतानां समन्ततः।
क्ष्वेलितास्फोटितानां च तत्र शब्दो महानभूत् ॥ ६.७८.१६ ॥

四面八方,成千上万的海螺与战鼓齐鸣,呼喊与拍掌之声交织,那里响起了巨大的喧声。

6.78.17

प्रभ्रष्टोऽथ करात् तस्य प्रतोदः सारथेस्तदा।
पपात सहसा दैवाद् ध्वजस्तस्य तु रक्षसः ॥ ६.७८.१७ ॥

那时,驭者手中的鞭杖滑落,而罗刹的旗帜也因天意突然倒下。

6.78.18

तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः।
चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ ६.७८.१८ ॥

套在他战车上的马失去了勇力,步履踉跄,悲伤不已,泪流满面地退去了。

6.78.19

प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः।
निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ ६.७८.१९ ॥

当那残忍而愚昧的摩迦罗叉出发时,一阵夹杂着尘土、猛烈而可怖的狂风吹了起来。

6.78.20

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः।
अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ ६.७८.२० ॥

这些凶兆他们虽已看见,那些最为英勇的罗刹却全不在意,全部出发前往罗摩与罗什曼那所在之处。

6.78.21

घनगजमहिषाङ्गतुल्यवर्णाः
समरमुखेष्वसकृद्गदासिभिन्नाः।
अहमहमिति युद्धकौशलास्ते
रजनिचराः परिबभ्रमुर्मुहुस्ते ॥ ६.७८.२१ ॥

这些肤色如乌云、象和水牛的夜行者,精通战斗,虽在阵前屡被铁棒与刀剑所伤,仍高喊“我先上,我先上”,一次又一次地往来冲杀。