Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.79.1

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः।
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ ६.७९.१ ॥

マカラークシャが進み出るのを見て、猿の勇士たちは一斉に飛び上がり、戦いを望んで身構えた。

6.79.2

ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम्।
निशाचरैः प्लवंगानां देवानां दानवैरिव ॥ ६.७९.२ ॥

そのとき、猿たちと夜行者たちとの間に、神々と檀那婆の戦いのような、身の毛もよだつ大戦が始まった。

6.79.3

वृक्षशूलनिपातैश्च गदापरिघपातनैः।
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥ ६.७९.३ ॥

そのとき猿と夜行者たちは、投げつけられる樹木や槍、また棍棒や鉄の杵の打撃によって、互いを打ち砕き合った。

6.79.4

शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः।
पट्टिशैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥ ६.७९.४ ॥

夜行者たちは、槍・剣・棍棒・戟・投げ槍、さらに幅広の刀・投げ棍・矢の雨によって四方から攻撃した。

6.79.5

पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा।
कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ॥ ६.७९.५ ॥

夜行者たちは縄・鉄槌・棍棒、その他雷のような武器で、猿の獅子たちを殺戮した。

6.79.6

बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः।
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६.७९.६ ॥

カラの息子の矢の雨に苦しめられた猿たちは、心を乱し恐怖に苛まれて、みな逃げ散った。

6.79.7

तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः।
नेदुस्ते सिंहवद् दृप्ता राक्षसा जितकाशिनः ॥ ६.७९.७ ॥

逃げ去る森の住人の猿たちを見て、羅刹たちはみな獅子のように吠えた。自らを勝者と思い込んだ傲慢な羅刹たちである。

6.79.8

विद्रवत्सु तदा तेषु वानरेषु समन्ततः।
रामस्तान् वारयामास शरवर्षेण राक्षसान् ॥ ६.७९.८ ॥

猿たちが四方に逃げ散るとき、ラーマは矢の雨で羅刹たちを食い止めた。

6.79.9

वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः।
कोपानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ६.७९.९ ॥

羅刹たちが阻まれたのを見て、夜行者マカラークシャは怒りの炎に満たされ、この言葉を発した。

6.79.10

तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं भविष्यति।
त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥ ६.७९.१० ॥

ラーマよ、待て!私と一対一の決闘となる。弓から放つ鋭い矢で、お前の命を奪ってやろう。

6.79.11

यत् तदा दण्डकारण्ये पितरं हतवान् मम।
तदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ॥ ६.७९.११ ॥

あの時、ダンダカの森でお前は私の父を殺した。お前の前で自らの務めに立っていた父を思い出すと、怒りが募る。

6.79.12

दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव।
यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने ॥ ६.७९.१२ ॥

邪悪なラグハヴァよ!あの時、あの大森林でお前を見られなかったので、私の四肢は激しく燃えている。

6.79.13

दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह।
कांक्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ ६.७९.१३ ॥

ラーマよ、幸いにも、お前は私に会うためにここへ来た。飢えた獅子が別の鹿を求めるように、お前は私に求められている。

6.79.14

अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः।
ये त्वया निहताः शूराः सह तैश्च वसिष्यसि ॥ ६.७९.१४ ॥

今日、私の矢の勢いによって、お前はヤマの国へ行き、お前が殺した勇士たちと共にそこに住むことになる。

6.79.15

बहुनात्र किमुक्तेन शृणु राम वचो मम।
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ ६.७९.१५ ॥

ここで多くを語って何になろう。ラーマよ、私の言葉を聞け。戦場で全世界に、お前と私を見せてやろう。

6.79.16

अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे।
अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम् ॥ ६.७९.१६ ॥

ラーマよ、武器によってか、棍棒によってか、あるいは腕だけによってか。戦場で習熟したものによって戦いを続けよう。

6.79.17

मकराक्षवचः श्रुत्वा रामो दशरथात्मजः।
अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ॥ ६.७९.१७ ॥

マカラークシャの言葉を聞き、ダシャラタの子ラーマは笑いながら、次々と言い返す彼にこの言葉を告げた。

6.79.18

कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते।
न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ ६.७९.१८ ॥

羅刹よ、なぜ無益に大言するのか。お前の言葉の多くは不適切だ。戦いなしに、言葉の力だけで戦場に勝つことはできない。

6.79.19

चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः।
त्रिशिरा दूषणश्चापि दण्डके निहतो मया ॥ ६.७९.१९ ॥

一万四千の羅刹、そなたの父、トリシラーとドゥーシャナもダンダカの森で私によって殺された。

6.79.20

स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः।
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ॥ ६.७९.२० ॥

罪深き者よ、今日、ハゲワシ、ジャッカル、カラスが鋭い嘴と爪、鉤状の爪で肉を存分に食らうであろう。

6.79.21

राघवेणैवमुक्तस्तु मकराक्षो महाबलः।
बाणौघानमुचत् तस्मै राघवाय रणाजिरे ॥ ६.७९.२१ ॥

ラーガヴァにこう言われると、大力のマカラークシャは戦場でラーガヴァに矢の奔流を放った。

6.79.22

ताञ्छराञ्छरवर्षेण रामश्चिच्छेद नैकधा।
निपेतुर्भुवि विच्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ ६.७९.२२ ॥

ラーマはその矢を矢の雨で幾つにも断ち切った。金の羽を持つ幾千もの矢が切断されて大地に落ちた。

6.79.23

तद् युद्धमभवत् तत्र समेत्यान्योन्यमोजसा।
खरराक्षसपुत्रस्य सूनोर्दशरथस्य च ॥ ६.७९.२३ ॥

そこでその戦いが起きた。羅刹カラの息子とダシャラタの息子は力をもって互いに相まみえた。

6.79.24

जीमूतयोरिवाकाशे शब्दो ज्यातलयोरिव।
धनुर्मुक्तः स्वनोऽन्योन्यं श्रूयते च रणाजिरे ॥ ६.७९.२४ ॥

空の二つの雨雲の雷鳴のように、弓の弦の響きのように、戦場で互いの弓から放たれた轟きが聞こえた。

6.79.25

देवदानवगन्धर्वाः किंनराश्च महोरगाः।
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ ६.७९.२५ ॥

神々、ダーナヴァ、ガンダルヴァ、キンナラ、大蛇たちは皆空中に留まり、その不思議な光景を見たいと願った。

6.79.26

विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्।
कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥ ६.७९.२६ ॥

互いの身体を射抜かれ、力は二倍に増し、二人は戦場で互いに仕返しを重ねた。

6.79.27

राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद् रणे।
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥ ६.७९.२७ ॥

ラークシャサは戦場でラーマが放った矢の雨を断ち切り、ラーマはラークシャサの放った矢を自らの矢で幾通りにも断ち切った。

6.79.28

बाणौघवितताः सर्वा दिशश्च प्रदिशस्तथा।
संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ ६.७९.२८ ॥

矢の奔流に覆われ、あらゆる方角と中間の方角、そして大地までも隠れ、四方のどこも見えなくなった。

6.79.29

ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद संयुगे।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥ ६.७९.२९ ॥

そこで怒った大腕のラーガヴァは戦いで彼の弓を断ち切り、八本の鉄の矢で御者を射抜いた。

6.79.30

भित्त्वा रथं शरै रामो हत्वा अश्वानपातयत्।
विरथो वसुधास्थः स मकराक्षो निशाचरः ॥ ६.७९.३० ॥

ラーマは矢で彼の戦車を射抜き、馬を殺して倒した。戦車を失った夜行者マカラークシャは大地に立った。

6.79.31

तत्तिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना।
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ ६.७९.३१ ॥

そのとき地に立つラークシャサは、一切の衆生を恐れさせ、ユガの終わりの火のように輝く槍を手に取った。

6.79.32

दुरवापं महच्छूलं रुद्रदत्तं भयंकरम्।
जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् ॥ ६.७९.३२ ॥

それは得がたい大きな槍であり、ルドラから授けられたもので恐ろしく、空中に燃え上がり、まるでもう一つの破壊の武器のようであった。

6.79.33

यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः।
विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ॥ ६.७९.३३ ॥

それを見て神々は皆恐怖に苛まれ、四方へ逃げ散った。夜の徘徊者はその燃えさかる大槍を振り回した。

6.79.34

स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे।
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ॥ ६.७९.३४ ॥

彼は怒りのあまり、その大戦でラーガヴァに向けてそれを投げつけた。カラの息子の手から放たれた燃える槍は、ラーガヴァへと襲いかかった。

6.79.35

बाणैश्चतुर्भिराकाशे शूलं चिच्छेद राघवः।
स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः।
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥ ६.७९.३५ ॥

ラーガヴァは空中で四本の矢によってその槍を断ち切った。神々しい黄金で飾られた槍は幾つにも砕け、ラーマの矢に苛まれて、大流星のように地に散り落ちた。

6.79.36

तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।
साधु साध्विति भूतानि व्याहरन्ति नभोगताः ॥ ६.७९.३६ ॥

ラーマによって槍が破壊されるのを見て、努力なくして行為するラーマに、空にいる者たちは「善い!善い!」と叫んだ。

6.79.37

तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६.७९.३७ ॥

その槍が打ち砕かれたのを見て、夜の徘徊者マカラークシャは拳を振り上げ、カークツトの子孫に「止まれ、止まれ!」と言った。

6.79.38

स तं दृष्ट्वा पतन्तं तु प्रहस्य रघुनन्दनः।
पावकास्त्रं ततो रामः संदधे तु शरासने ॥ ६.७९.३८ ॥

彼が自分に襲いかかってくるのを見て、ラグの喜びであるラーマは笑い、それから弓に火の武器をつがえた。

6.79.39

तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे।
संछिन्नहृदयं तत्र पपात च ममार च ॥ ६.७९.३९ ॥

その武器でカークツトの子孫はその時戦場で羅刹を討った。彼の心臓は貫かれ、そこに倒れて息絶えた。

6.79.40

दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्।
लङ्कामेव प्रधावन्त रामबाणभयार्दिताः ॥ ६.७९.४० ॥

マカラークシャの倒れるのを見て、ラーマの矢への恐怖に苛まれた羅刹たちはみな、ラン カーへと一直線に逃げ去った。

6.79.41

दशरथनृपसूनुबाणवेगै
रजनिचरं निहतं खरात्मजं तम्।
प्रददृशुरथ देवताः प्रहृष्टा
गिरिमिव वज्रहतं यथा विकीर्णम् ॥ ६.७९.४१ ॥

神々は喜びをもって、ダシャラタ王の王子の矢の勢いによって殺された、カラの子であるその夜の徘徊者を見た。彼は雷に打たれて砕けた山のように散らばって横たわっていた。