蚁垤《罗摩衍那》 · 篇 6.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.80.1
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः।
रोषेण महताविष्टो दन्तान् कटकटाय्य च ॥ ६.८०.१ ॥
罗波那闻知摩迦罗叉被杀,这位战场上的胜者怒不可遏,咬牙切齿。
6.80.2
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥ ६.८०.२ ॥
他愤怒地在那里思量该如何是好,随即怒不可遏,命令他的儿子因陀罗耆多出战。
6.80.3
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ६.८०.३ ॥
英雄啊,去杀死两位大力兄弟罗摩与罗什曼那吧。无论你隐身还是显形,你在各方面力量都更胜一筹。
6.80.4
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ६.८०.४ ॥
你甚至战胜过在战场上建立无与伦比功绩的因陀罗;那么,见到两个凡人,你在战场上难道不会杀死他们吗?
6.80.5
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।
यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ॥ ६.८०.५ ॥
罗刹王如此吩咐后,因陀罗耆多领受父命,在祭坛上依仪轨将供品投入圣火之中。
6.80.6
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६.८०.६ ॥
他正在那里向火中献供时,戴着红色头巾的罗刹女们惊慌失措地赶到罗波那之子所在之处。
6.80.7
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ६.८०.७ ॥
兵器、箭羽、祭薪与毗毗陀迦木、红色衣物,以及黑铁制的祭勺。
6.80.8
सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ ६.८०.८ ॥
在火的四周铺开箭羽与铁矛后,他抓住了一只活着的、通体纯黑的山羊的喉咙。
6.80.9
सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः।
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ६.८०.९ ॥
一次供奉便燃起的无烟大火焰,显现出那些预示胜利的征兆。
6.80.10
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः।
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥ ६.८०.१० ॥
火焰右旋,宛如烧红的黄金,火神自行升起,接受了那份祭品。
6.80.11
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ ६.८०.११ ॥
向火中献祭,又使诸神、檀那婆与罗刹得到满足后,他登上了那辆已隐形的吉祥上等战车。
6.80.12
स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ ६.८०.१२ ॥
驾以四匹骏马,满载利箭,上面张着大弓,那辆上等战车光彩夺目。
6.80.13
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।
मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ॥ ६.८०.१३ ॥
那辆战车形体光耀,覆以金饰,并以鹿形与半月形纹饰装点得十分华丽。
6.80.14
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः।
बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ॥ ६.८०.१४ ॥
它宛如金色的大海螺与熊熊烈火,是因陀罗遮的旗帜,以青金宝石装饰。
6.80.15
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।
स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ ६.८०.१५ ॥
受那如日般的梵天神兵护佑,罗波那之子变得极为强大,难以战胜。
6.80.16
सोऽभिनिर्याय नगरादिन्द्रजित् समितिंजयः।
हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ ६.८०.१६ ॥
战胜敌阵的因陀罗遮离开城池,与罗刹们一同以咒语向火中献祭,隐身之后便说道。
6.80.17
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने।
जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम् ॥ ६.८०.१७ ॥
今日我将在战场上杀死那两个在森林中假扮苦行者四处游荡的人,为我的父亲罗波那赢得大胜。
6.80.18
अद्य निर्वानरामुर्वीं हत्वा रामं च लक्ष्मणम्।
करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥ ६.८०.१८ ॥
今日我将使大地没有猴子,杀死罗摩与罗什曼那,获得无上的喜悦——说罢,他便隐去了。
6.80.19
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ ६.८०.१९ ॥
在十首罗波那的怂恿下,因陀罗的仇敌怒火中烧地冲上前去,在战场上以锋利的弓和铁箭发动攻击。
6.80.20
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ ६.८०.२० ॥
他看见那两位威力非凡的英雄站在猴众之中,放出密如罗网的箭雨,宛如两条三头蛇。
6.80.21
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्।
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ ६.८०.२१ ॥
他心想'这正是那两人',便张弓搭箭,像满载雨水的乌云一样,倾泻出连绵不断的箭雨。
6.80.22
स तु वैहायसरथो युधि तौ रामलक्ष्मणौ।
अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः ॥ ६.८०.२२ ॥
他乘坐天空战车,站在罗摩与罗什曼那视线之外,以利箭在战场上射伤他们。
6.80.23
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ ६.८०.२३ ॥
罗摩与罗什曼那被他箭矢的疾势所包围,便在两张弓上搭箭,发出了神圣的武器。
6.80.24
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।
तमस्त्रैः सूर्यसंकाशैर्नैव पस्पर्शतुः शरैः ॥ ६.८०.२४ ॥
两位大力者以箭网遮蔽天空,却连用如日光般耀眼的神兵与箭矢也未能碰到他。
6.80.25
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।
दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृताः ॥ ६.८०.२५ ॥
他制造出烟雾的黑暗,遮蔽了天空;这位威严者消失在被雾霾黑暗笼罩的方位之中。
6.80.26
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ ६.८०.२६ ॥
既听不到他弓弦的响声,也听不到车轮与马蹄的声音;他移动时的身影也不可见。
6.80.27
घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम्।
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ ६.८०.२७ ॥
在浓重的黑暗中,仿佛降下奇异的石雨,这位大臂者倾泻出一阵纳拉恰箭雨。
6.80.28
स रामं सूर्यसंकाशैः शरैर्दत्तवरैर्भृशम्।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ ६.८०.२८ ॥
愤怒的罗婆尼在战斗中以如太阳般闪耀、被赐予神力的箭矢,猛烈地射穿了罗摩全身各处。
6.80.29
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।
हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ ६.८०.२९ ॥
两位人中之虎被纳拉恰箭射中,如两座被急流浸透的山峰,放出了带金羽的锐利箭矢。
6.80.30
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।
निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः ॥ ६.८०.३० ॥
在空中追上罗婆尼,那些带鹤羽的飞箭将他射倒;它们浸满鲜血,坠落于地。
6.80.31
अतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ।
तानिषून् पततो भल्लैरनेकैर्विचकर्ततुः ॥ ६.८०.३१ ॥
两位人中之杰在箭雨的倾泻中光芒闪耀,以许多弯月形箭头将落下的那些箭斩断。
6.80.32
यतो हि ददृशाते तौ शरान् निपतिताञ्छितान्।
ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ६.८०.३२ ॥
因为二人看见锋利的箭已落下,于是十车王的两个儿子放出了至高的神兵。
6.80.33
रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत्।
विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ६.८०.३३ ॥
然而罗波尼以大车将领之勇,驱车奔向四方,以锐利的箭射穿了这两位善用神兵的十车王之子。
6.80.34
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ६.८०.३४ ॥
二位英雄十车王之子被他重重射中,身上密布金羽之箭,宛如两棵盛开的金苏木树。
6.80.35
नास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान्।
न चास्य विदितं किंचित् सूर्यस्येवाभ्रसम्प्लवे ॥ ६.८०.३५ ॥
没有人知道他运动的速度,也看不清他的形貌、弓与箭;关于他,什么都无从知晓,正如乌云聚集时的太阳。
6.80.36
तेन विद्धाश्च हरयो निहताश्च गतासवः।
बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ६.८०.३६ ॥
猴子们被他射穿、杀死,失去了生命;那里成百上千的它们倒卧在大地之上。
6.80.37
लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत्।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ६.८०.३७ ॥
此时愤怒的罗什曼那对兄长说道:“我将施放梵天神箭,以杀尽所有罗刹。”
6.80.38
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ ६.८०.३८ ॥
于是罗摩对吉相的罗什曼那说:“为了一人而杀尽大地上的所有罗刹,这不适合你。”
6.80.39
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।
पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि ॥ ६.८०.३९ ॥
凡不作战、隐藏、合掌、来求庇护、逃跑或醉酒者,你不应在此杀害。
6.80.40
तस्यैव तु वधे यत्नं करिष्यामि महाभुज।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ६.८०.४० ॥
但是,大臂者啊,我将努力杀死的正是他;让我们二人射出如毒蛇般迅猛的箭。
6.80.41
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ६.८०.४१ ॥
这个狡诈卑劣、战车已隐形的罗刹,猴群的统帅们一旦看见他,便会以力击杀。
6.80.42
यद्येष भूमिं विशते दिवं वा
रसातलं वापि नभस्तलं वा।
एवं विगूढोऽपि ममास्त्रदग्धः
पतिष्यते भूमितले गतासुः ॥ ६.८०.४२ ॥
即使他钻入大地,或升天,或入幽冥,或藏于天穹之中——如此隐匿,也会被我的神箭焚毁,无生命地倒在地上。
6.80.43
इत्येवमुक्त्वा वचनं महार्थं
रघुप्रवीरः प्लवगर्षभैर्वृतः।
वधाय रौद्रस्य नृशंसकर्मण-
स्तदा महात्मा त्वरितं निरीक्षते ॥ ६.८०.४३ ॥
说完这些意味深长的话,罗怙之英雄、大德之人,被猴中之雄围绕,便迅速环顾,要杀死那残暴而行事凶狠的罗刹。