Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.81.1

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः।
स निवृत्याहवात् तस्मात् प्रविवेश पुरं ततः ॥ ६.८१.१ ॥

偉大なるラーガヴァ(ラーマ)の意図を察して、彼はその戦いから退き、やがて城内へ入った。

6.81.2

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्।
क्रोधताम्रेक्षणः शूरो निर्जगामाथ रावणिः ॥ ६.८१.२ ॥

あの勇猛なラークシャサたちの殺戮を思い起こし、怒りに目を赤く染めた勇士ラーヴァナの子は、そこで出て行った。

6.81.3

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः।
इन्द्रजित् सुमहावीर्यः पौलस्त्यो देवकण्टकः ॥ ६.८१.३ ॥

ラークシャサたちに囲まれ、彼は西門から出て行った。インドラジットは大いなる勇力を持ち、プラスティヤの裔で、神々の棘であった。

6.81.4

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
रणायाभ्युुद्यतौ वीरौ मायां प्रादुष्करोत् तदा ॥ ६.८१.४ ॥

そこでインドラジットは、戦いに向けて立ち上がった勇士の兄弟ラーマとラクシュマナを見て、その時幻術を現した。

6.81.5

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा।
बलेन महतावृत्य तस्या वधमरोचयत् ॥ ६.८१.५ ॥

そこでインドラジットは、幻の作られたシーターを戦車に乗せ、大軍で取り囲み、彼女を殺すことに決めた。

6.81.6

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः।
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६.८१.६ ॥

皆を惑わすため、極めて邪悪なインドラジットはシーターを殺すことを決め、猿たちの方へ進んでいった。

6.81.7

तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः।
उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ६.८१.७ ॥

彼が出てくるのを見て、森に住むあの猿たちは皆激しく怒り、手に石を持ち、戦いを望んで跳び上がった。

6.81.8

हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः।
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ६.८१.८ ॥

猿の中の象ハヌマーンは彼らの先頭に進み、山の非常に大きく近づき難い峰を掲げていた。

6.81.9

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे।
एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ६.८१.९ ॥

彼はインドラジットの戦車に乗るシーターを見た。喜びを失い、一つの髪束を結い、哀れな姿で、断食によって顔はやつれていた。

6.81.10

परिक्लिष्टैकवसनाममृजां राघवप्रियाम्।
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ ६.८१.१० ॥

一枚の古びた衣をまとい、飾りもなく、ラーガヴァの愛しい人であった。塵と汚れが全身に付いていたが、彼女は優れた女性であった。

6.81.11

तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च।
बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥ ६.८१.११ ॥

しばし彼女を見つめ、確かめると、彼はマイティリーを認めた。ジャナカの娘は、彼がつい先ほど見た彼女その人であった。

6.81.12

अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनीम्।
दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुतश्रिताम् ॥ ६.८१.१२ ॥

悲しみに打ちひしがれ、喜びを失い、苦行者のように、羅刹王の息子の庇護のもと戦車に立つ哀れな彼女を見て、彼は彼女に語りかけた。

6.81.13

किं समर्थितमस्येति चिन्तयन् स महाकपिः।
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ ६.८१.१३ ॥

「彼の任務は果たされたのか」と考えながら、その大猿は優れた猿たちとともにラーヴァナの息子ラーヴァニへ突進した。

6.81.14

तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।
कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतामकर्षयत् ॥ ६.८१.१४ ॥

猿の軍勢を見たラーヴァニの息子は怒りに我を失い、鞘から剣を抜いてシーターの頭髪をつかんで引きずった。

6.81.15

तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः।
क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ ६.८१.१५ ॥

皆が見ている前で、幻術で戦車に乗せられた女性が「ラーマ、ラーマ」と叫ぶのを、その羅刹は打ち据えた。

6.81.16

गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः।
दुःखजं वारि नेत्राभ्यामुत्सृजन् मारुतात्मजः ॥ ६.८१.१६ ॥

髪をつかまれた彼女を見て、風神の子ハヌマーンは苦悩に沈み、悲しみから生じた涙を両眼から流した。

6.81.17

तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्।
अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोधिपात्मजम् ॥ ६.८१.१७ ॥

全身の美しい、ラーマの最愛の正妃を見て、怒りから羅刹王の子に厳しい言葉を投げかけた。

6.81.18

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः।
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ ६.८१.१८ ॥

邪悪な者よ!自らの破滅のために彼女の髪に手をかけたな。仙人(ブラフマルシ)の家系に生まれながら、羅刹の胎に身を置いたのだ。

6.81.19

धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम।
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥ ६.८१.१९ ॥

恥を知れ、悪行の者よ、心がこのようでは!残忍な者、非アーリヤ、悪行の者、卑しい者、悪の勇者よ!非アーリヤの者の行いはこのようなものだ。無慈悲な者よ、お前には慈悲がない。

6.81.20

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली।
किं तवैषापराद्धा हि यदेनां हंसि निर्दय ॥ ६.८१.२० ॥

家から、王国から、そしてラーマの手から引き離されたマイティリーが、お前にどんな罪を犯したというのか。無慈悲な者よ、なぜ彼女を殺すのだ。

6.81.21

सीतां हत्वा तु न चिरं जीविष्यसि कथंचन।
वधार्ह कर्मणा तेन मम हस्तगतो ह्यसि ॥ ६.८१.२१ ॥

シーターを殺せば、お前は決して長くは生きられまい。その行いゆえにお前は死に値する。そして今、お前は私の手中に落ちた。

6.81.22

ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः।
इह जीवितमुत्सृज्य प्रेत्य तान् प्रति लप्स्यसे ॥ ६.८१.२२ ॥

女性を殺す者たちの世界、そして世の処刑人にさえ蔑まれる世界がある。この生を捨てて死んだのちに、お前はそれらの世界を得るのだ。

6.81.23

अभ्यधावत् सुसंक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ ६.८१.२३ ॥

激怒して、羅刹王の子に向かって突進した。

6.81.24

आपतन्तं महावीर्यं तदनीकं वनौकसाम्।
रक्षसां भीमकोपानामनीकेन न्यवारयत् ॥ ६.८१.२४ ॥

森の住人たちの強大な軍勢が襲いかかってくるのを見て、恐ろしい怒りの羅刹の軍勢がそれを押し止めた。

6.81.25

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।
हनूमन्तं हरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह ॥ ६.८१.२५ ॥

千本の矢で猿の軍勢を揺さぶった後、猿の中の最良者ハヌマーンに答えた。

6.81.26

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः।
तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ ६.८१.२६ ॥

スグリーヴァよ、おまえとラーマがここへ来た目的の、そのヴァイデーヒーを、今日おまえの目の前で殺してやる。

6.81.27

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर।
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ ६.८१.२७ ॥

彼女を殺したあと、ラーマ、ラクシュマナ、おまえ、猿よ、スグリーヴァ、そしてあの卑しいヴィビーシャナも殺してやる。

6.81.28

न हन्तव्याः स्त्रियश्चेति यद् ब्रवीषि प्लवंगम।
पीडाकरममित्राणां यच्च कर्तव्यमेव तत् ॥ ६.८१.२८ ॥

跳躍する者よ、おまえは女を殺してはならないと言うが、敵に苦痛を与えることこそなすべきことだ。

6.81.29

तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम्।
शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ॥ ६.८१.२९ ॥

そう言うと、インドラジットは自ら鋭利な剣で、泣いているシーター——幻でできたその姿——を打ち倒した。

6.81.30

यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी।
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ॥ ६.८१.३० ॥

聖紐の線に沿って、彼はその苦行の女性を断ち切った。広い腰をもち、見目麗しい彼女は大地に倒れた。

6.81.31

तामिन्द्रजित् स्त्रियं हत्वा हनूमन्तमुवाच ह।
मया रामस्य पश्येमां प्रियां शस्त्रनिषूदिताम्।
एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ॥ ६.८१.३१ ॥

インドラジット はその女を殺し、ハヌマーンに言った。「ラーマの愛しい人を見よ、武器に倒れた者を。ヴァイデーヒーはこのように殺された。お前たちの苦労は無駄だった。」

6.81.32

ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम्।
हृष्टः स रथमास्थाय ननाद च महास्वनम् ॥ ६.८१.३२ ॥

その後、インドラジット自ら大剣で彼女を打ち倒し、喜んで戦車に登り、大声で吠えた。

6.81.33

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः।
व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥ ६.८१.३३ ॥

近くに立っていたヴァーナラたちは、その要塞に身を寄せ、口を開けて吠える者の声を聞いた。

6.81.34

तथा तु सीतां विनिहत्य दुर्मतिः
प्रहृष्टचेताः स बभूव रावणिः।
तं हृष्टरूपं समुदीक्ष्य वानरा
विषण्णरूपाः समभिप्रदुद्रुवुः ॥ ६.८१.३४ ॥

このようにシーターを殺して、邪悪なラーヴァナの息子は心が喜びに満ちた。その喜びの姿を見て、悲嘆したヴァーナラたちは彼に向かって殺到した。