蚁垤《罗摩衍那》 · 篇 6.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.82.1
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।
वीक्ष्यमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम् ॥ ६.८२.१ ॥
众猴听到如因陀罗金刚杵般可怕的吼声,四面张望,极度惊恐地奔逃而去。
6.82.2
तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ॥ ६.८२.२ ॥
于是风之子哈努曼对他们所有人说话,他们个个面容愁苦、狼狈不堪、惊恐万分,各自四散奔逃。
6.82.3
कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥ ६.८२.३ ॥
众猴啊!你们为何面带愁容地奔逃?既已放弃了战斗的勇气,你们的英勇又去了哪里?
6.82.4
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ६.८२.४ ॥
你们跟随在我身后,我将向前冲入战阵。出身高贵的英雄不应当转身退却。
6.82.5
एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता।
शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥ ६.८२.५ ॥
智慧的风之子如此一说,众猴大怒,心中振奋,于是抓起山峰与树木。
6.82.6
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६.८२.६ ॥
众猴中的雄杰吼叫着扑向罗刹,在大战中簇拥着哈努曼,紧随其后。
6.82.7
स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ६.८२.७ ॥
被那些vānara首领环绕的哈努曼,如燃烧的烈火,焚烧敌军。
6.82.8
स राक्षसानां कदनं चकार सुमहाकपिः।
वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ६.८२.८ ॥
被vānara大军环绕的那位大猴,屠戮罗刹;他如时间、终结者与阎摩。
6.82.9
स तु शोकेन चाविष्टः कोपेन महता कपिः।
हनूमान् रावणिरथे महतीं पातयच्छिलाम् ॥ ६.८२.९ ॥
那时,被悲痛与大怒所攫住的猴子哈努曼,将一块巨石投向罗波那之子的战车。
6.82.10
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।
विधेयाश्वसमायुक्तः विदूरमपवाहितः ॥ ६.८२.१० ॥
见那巨石坠落而来,连同御者与训练有素之马所驾的战车,立刻被驱往远处。
6.82.11
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।
विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥ ६.८२.११ ॥
未能击中站在战车上的因陀罗耆与其御者,那块徒然举起的巨石穿透大地,陷入其中。
6.82.12
पतितायां शिलायां तु व्यथिता रक्षसां चमूः।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ ६.८२.१२ ॥
巨石坠落之时,罗刹之军惊恐不安;罗刹们被落下的巨石重重碾压。
6.82.13
तमभ्यधावन् शतशो नदन्तः काननौकसः।
ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ॥ ६.८२.१३ ॥
数以百计的林中猿猴咆哮着向他冲去。那些身躯巨大的猿猴举起了树木和山峰。
6.82.14
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः।
वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः ॥ ६.८२.१४ ॥
战场上,勇猛可畏的猿猴向因陀罗耆特投掷如暴雨般的树木和岩石,跃身扑向他。
6.82.15
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः।
वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः ॥ ६.८२.१५ ॥
猿猴们大肆屠杀敌人,并以各种声音吼叫;那些极其可怖的猿猴使形貌狰狞的夜行罗刹备受折磨。
6.82.16
वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणक्षितौ।
स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥ ६.८२.१६ ॥
罗刹被猿猴以树木之力击中,在战场上翻滚挣扎。于是因陀罗耆特看见自己的军队被猿猴折磨,便……
6.82.17
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः ॥ ६.८२.१७ ॥
他举起武器,怒气冲冲地迎向敌人;被自己的军队包围着,他一边放出箭雨一边前进。
6.82.18
जघान कपिशार्दूलान् सुबहून् दृढविक्रमः।
शूलैरशनिभिः खड्गैः पट्टिशैः शूलमुद्गरैः ॥ ६.८२.१८ ॥
勇力坚定的他用长矛、雷杵、宝剑、铁棒和铁锤杀死了许多猿中的猛虎。
6.82.19
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे।
सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः ॥ ६.८२.१९ ॥
在战斗中,猴族也用树干粗壮、枝叶繁茂的大树、山岩与巨石打死了他的随从;那位大力者也同样如此。
6.82.20
हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्।
संनिवार्य परानीकमब्रवीत् तान् वनौकसः ॥ ६.८२.२० ॥
哈奴曼大肆歼灭了行事凶残的罗刹;他阻住敌军,对那些林中的猴族说道。
6.82.21
हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम्।
त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रियचिकीर्षवः ॥ ६.८२.२१ ॥
哈奴曼说:回去吧!我们这点力量不足以完成此事;我们愿舍弃性命,尽力为罗摩做让他欢喜的事。
6.82.22
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ॥ ६.८२.२२ ॥
我们为之而战的那位,即闍那迦之女,已被杀害。须将此事告知罗摩与须羯哩婆,
6.82.23
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्।
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् ॥ ६.८२.२३ ॥
“他们二人决定什么,我们就做什么。”说罢,猴族中的翘楚制止了所有猴族。
6.82.24
शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ॥ ६.८२.२४ ॥
他不慌不忙,缓缓率军撤回。此时见哈奴曼正前往罗怙之子(罗摩)所在之处,
6.82.25
स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम्।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥ ६.८२.२५ ॥
心怀邪恶的他想要举行祭祀,前往尼古姆毗拉神殿;在尼古姆毗拉坐定后,因陀罗耆特向火中献上供物。
6.82.26
यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा।
हूयमानः प्रजज्वाल होमशोणितभुक् तदा ॥ ६.८२.२६ ॥
随后,火焰来到祭场,被那罗刹投入供物,吞食祭品与鲜血,当即熊熊燃烧起来。
6.82.27
सार्चिःपिनद्धो ददृशे होमशोणिततर्पितः।
संध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ॥ ६.८२.२७ ॥
被火焰环绕、以供物与鲜血为饱足的火神显现了;如同黄昏升起的太阳,极其猛烈的火焰腾空而起。
6.82.28
अथेन्द्रजिद् राक्षसभूतये तु
जुहाव हव्यं विधिना विधानवित्।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते
महासमूहेषु नयानयज्ञाः ॥ ६.८२.२८ ॥
于是精通仪轨的因陀罗耆特为罗刹的福祉,依法献上祭品;罗刹中那些明辨是非者见此,便在大集会中远远地站到一旁。