Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.83.1

राघवश्चापि विपुलं तं राक्षसवनौकसाम्।
श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ ६.८३.१ ॥

罗卫也听到了罗刹林中居民那巨大的战斗喧声,于是对耆婆湿婆说道。

6.83.2

सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्।
श्रूयते च यथा भीमः सुमहानायुधस्वनः ॥ ६.८३.२ ॥

善良的朋友啊,哈努曼的确完成了极其艰难的事业,因为可以听到兵器的可怕巨响。

6.83.3

तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।
क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ६.८३.३ ॥

所以你去吧,熊王!带着你自己的军队,迅速援助那正在作战的猴中之最。

6.83.4

ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः।
आगच्छत् पश्चिमं द्वारं हनूमान् यत्र वानरः ॥ ६.८३.४ ॥

熊王说道:“就这样吧。”他被自己的军队围绕,前往西门,那只猴子哈努曼就在那里。

6.83.5

अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा।
वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥ ६.८३.५ ॥

那时,熊王看见哈努曼走来,他被那些经历过战斗、气喘吁吁的猴子包围着。

6.83.6

दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्।
नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥ ६.८३.६ ॥

哈努曼在路上看见熊的军队前进,他如同蓝色乌云般可怕,便阻止了它们并转身返回。

6.83.7

स तेन सह सैन्येन संनिकर्षं महायशाः।
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ६.८३.७ ॥

这位大名远扬者与那支军队靠近,迅速来到罗摩身边,悲痛地说出了这些话。

6.83.8

समरे युध्यमानानामस्माकं प्रेक्षतां च सः।
जघान रुदतीं सीतामिन्द्रजिद् रावणात्मजः ॥ ६.८३.८ ॥

我们在战场上厮杀、旁观之际,罗波那之子因陀罗耆特杀死了哭泣的悉多。

6.83.9

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम।
तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ६.८३.९ ॥

降伏敌人者啊,见到她后,我心神慌乱而沮丧,因此特来向您禀告此事。

6.83.10

तस्य तद् वचनं श्रुत्वा राघवः शोकमूर्च्छितः।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ ६.८३.१० ॥

听到他的话,罗怙族的罗摩因悲痛而昏厥,当即如断根之树倒在地上。

6.83.11

तं भूमौ देवसंकाशं पतितं दृश्य राघवम्।
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ६.८३.११ ॥

看见如神一般的罗怙族者倒在地上,最优秀的猴子们从四面八方跃起,奔向他。

6.83.12

आसिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।
प्रदहन्तमसंहार्यं सहसाग्निमिवोत्थितम् ॥ ६.८३.१२ ॥

他们用散发着莲花与青莲芬芳的水洒向他,他就像突然燃起的、炽烈而难以靠近的火焰一样站立起来。

6.83.13

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ ६.८३.१३ ॥

于是罗什曼那极为悲痛,以双臂拥抱他,对心神不宁的罗摩说出了附有理由的话语。

6.83.14

शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्।
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ ६.८३.१४ ॥

尊者啊,你行走在吉祥的道路上,已降服诸根,然而法却无力使你免于灾祸;法是徒劳的。

6.83.15

भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ ६.८३.१५ ॥

法不像不动与动的众生那样可以明显看见;因此我的看法是,法并不存在。

6.83.16

यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ ६.८३.१६ ॥

正如不动与动的事物显而易见,此事却并非如此;像你这样的人是不会灭亡的。

6.83.17

यद्यधर्मो भवेद् भूतो रावणो नरकं व्रजेत्।
भवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात् ॥ ६.८३.१७ ॥

若有非法,罗波那便会堕入地狱;而具备法的你,本不该遭遇灾难。

6.83.18

तस्य च व्यसनाभावाद् व्यसनं चागते त्वयि।
धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ ६.८३.१८ ॥

他没有灾祸,而灾祸却降临在你身上,由此可见法与非法彼此相反。

6.83.19

धर्मेणोपलभेद् धर्ममधर्मं चाप्यधर्मतः।
यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ ६.८३.१९ ॥

以法得法,以非法得非法。与非法相连者,非法便在其中确立。

6.83.20

न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः।
धर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ॥ ६.८३.२० ॥

即便喜好非法之人,也不会与法相分离;而行法之人,则当得法的果报。

6.83.21

यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः।
क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ ६.८३.२१ ॥

因为非法确立之处财富增长,而守法之人受苦;所以这二者都是无意义的。

6.83.22

वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।
वधकर्महतोऽधर्मः स हतः कं वधिष्यति ॥ ६.८३.२२ ॥

罗怙之裔啊,若作恶者因非法而被杀,那么非法被杀戮之行所击倒而死后,又将杀谁呢?

6.83.23

अथवा विहितेनायं हन्यते हन्ति चापरम्।
विधिः स लिप्यते तेन न स पापेन कर्मणा ॥ ६.८३.२३ ॥

或者,此人因所定之行而被杀,又杀他人;那条规定只附着于他,他并不因罪恶之行而被玷污。

6.83.24

अदृष्टप्रतिकारेण अव्यक्तेनासता सता।
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्षण ॥ ६.८३.२४ ॥

以不可见之法,以隐秘之道,无论恶人或善人,以法如何能够达到敌人?啊,摄伏敌人者!

6.83.25

यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किंचन।
त्वया यदीदृशं प्राप्तं तस्मात् तन्नोपपद्यते ॥ ६.८३.२५ ॥

若真理存在,善人中的最优者啊,而你身上并无虚妄,那么你如此所得之事便不合宜。

6.83.26

अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते।
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ ६.८३.२६ ॥

或者,对于懦弱无能的人,唯有力量才随从法。软弱而失去规矩之人不应侍奉,这是我的看法。

6.83.27

बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमैः।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ ६.८३.२७ ॥

若法只是力量的次要属性,靠勇武成就,那就舍弃法,在力量中行事,正如在法中那样。

6.83.28

अथ चेत् सत्यवचनं धर्मः किल परंतप।
अनृतं त्वय्यकरणे किं न बद्धस्त्वया विना ॥ ६.८३.२८ ॥

若诚实之言即是法,啊,焚烧敌人者!你不舍弃虚妄,难道不正被它束缚吗?除你之外还有谁?

6.83.29

यदि धर्मो भवेद् भूत अधर्मो वा परंतप।
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ ६.८३.२९ ॥

无论是法还是非法,啊,众生,啊,焚烧敌人者:执金刚、行百祭的因陀罗,不是杀了一位仙人然后行了祭祀吗?

6.83.30

अधर्मसंश्रितो धर्मो विनाशयति राघव।
सर्वमेतद् यथाकामं काकुत्स्थ कुरुते नरः ॥ ६.८३.३० ॥

依托于非法的法会导致毁灭,啊,罗睺婆之后。啊,迦恭特王之后,人依其意愿做这一切。

6.83.31

मम चेदं मतं तात धर्मोऽयमिति राघव।
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ६.८३.३१ ॥

亲爱的,这是我的看法:这便是法。罗怙之裔啊,当时你舍弃王国,便斩断了法之根本。

6.83.32

अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ६.८३.३२ ॥

财富增长,由此一件接一件生起之时,一切行为便如河流从山中流出般推进。

6.83.33

अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ६.८३.३३ ॥

对于失去财富、心胸狭小之人,一切行为都被中断,就像小河在夏天干涸一样。

6.83.34

सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः।
पापमाचरते कर्तुं तदा दोषः प्रवर्तते ॥ ६.८३.३४ ॥

他舍弃财富,贪求安乐,在安逸中长大,便开始行恶;那时过失便随之而生。

6.83.35

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ६.८३.३५ ॥

拥有财富之人便有朋友;拥有财富之人便有亲属。拥有财富之人才是世间的男子;拥有财富之人才是智者。

6.83.36

यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।
यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥ ६.८३.३६ ॥

拥有财富之人便勇武;拥有财富之人便聪慧。拥有财富之人便大有福分;拥有财富之人便在德行上更胜一筹。

6.83.37

अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।
राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ॥ ६.८३.३७ ॥

坚毅者啊,你放弃王国时所做的决定,我已说明了舍弃财富的这些过失。

6.83.38

यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ६.८३.३८ ॥

拥有财富的人,法、欲、利皆为吉祥;而贫穷者或贪求财富者,无论如何思虑,也无法成就其事。

6.83.39

हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ६.८३.३९ ॥

人王啊,喜悦、欲望、傲慢、法、愤怒、寂静与克制——这一切都由财富而生起并运行。

6.83.40

येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।
तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ६.८३.४० ॥

这个世界因践行法的人而灭亡,而他们的财富在你身上却看不见,正如阴云密布的日子里星辰不可见。

6.83.41

त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।
रक्षसापहृता भार्या प्राणौः प्रियतरा तव ॥ ६.८३.४१ ॥

英雄啊,你遵从父亲的话前往流放时,罗刹掳走了你的妻子,她对你而言比生命还要珍贵。

6.83.42

तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ६.८३.४२ ॥

因此,英雄啊,我今天将以我的行动消除因因陀罗耆多所致的巨大悲痛;所以,罗ghu的后裔啊,请起来吧。

6.83.43

उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत।
किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ६.८३.४३ ॥

起来吧,人中猛虎,长臂者,持守誓愿者!你为何不认识你自己伟大的本性?

6.83.44

अयमनघ तवोदितः प्रियार्थं
जनकसुतानिधनं निरीक्ष्य रुष्टः।
सरथगजहयां सराक्षसेन्द्रां
भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ६.८३.४४ ॥

无瑕者啊!为了你所珍爱之人,见到遮那迦之女被害,我愤怒至极,将以箭矢彻底摧毁楞伽城,连同其战车、象群、马匹与罗刹王们。