Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.85.1

तस्य तद् वचनं श्रुत्वा राघवः शोककर्शितः।
नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ ६.८५.१ ॥

その言葉を聞いて、悲しみに打ちひしがれたラーガヴァは、その羅刹の言ったことを明確には理解できなかった。

6.85.2

ततो धैर्यमवष्टभ्य रामः परपुरंजयः।
विभीषणमुपासीनमुवाच कपिसंनिधौ ॥ ६.८५.२ ॥

そこで気力を奮い起こし、敵の都を征服するラーマは、猿たちの前に座すヴィビーシャナに語った。

6.85.3

नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण।
भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ६.८५.३ ॥

羅刹の主ヴィビーシャナよ、お前が言った言葉をもう一度聞きたい。お前の言おうとしたことを話せ。

6.85.4

राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः।
यत् तत् पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥ ६.८५.४ ॥

ラーガヴァの言葉を聞いて、弁舌に長けたヴィビーシャナは再びこの言葉を語った。

6.85.5

यथाऽऽज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्।
तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ६.८५.५ ॥

大いなる腕を持つ方よ、あなたの命じられたとおりに軍の陣営は配置されました。英雄よ、あなたの言葉の直後に実行されました。

6.85.6

तान्यनीकानि सर्वाणि विभक्तानि समन्ततः।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६.८५.६ ॥

それらすべての軍勢は四方に分けられ、群れの長たちも道理にかなって部隊ごとに配置されました。

6.85.7

भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो।
त्वय्यकारणसंतप्ते संतप्तहृदया वयम् ॥ ६.८५.७ ॥

偉大な主よ、もう一つ申し上げることがあります、お聞きください。あなたは理由なく苦しんでおられ、そのため私たちの心もまた苦しんでいるのです。

6.85.8

त्यज राजन्निमं शोकं मिथ्या संतापमागतम्।
यदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी ॥ ६.८५.८ ॥

王よ、この偽りの苦悩から来た悲しみを捨ててください。敵の喜びを増すこの憂いも捨てられますように。

6.85.9

उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्।
प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ॥ ६.८५.९ ॥

勇士よ、努力し、喜びを受け入れてください。もしあなたがシーターを得るのなら、夜の徘徊者たちも討たれねばなりません。

6.85.10

रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः।
साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ ६.८५.१० ॥

ラグの歓びよ、私の有益な言葉をお聞きください。サウミトリが大軍に囲まれて出発するのが良いでしょう。

6.85.11

निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ६.८५.११ ॥

ニクンビラーに至り、弓の輪から放たれ蛇の毒のような矢で、戦いにおいてラーヴァナの子を討つために。

6.85.12

शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः।
तेन वीरेण तपसा वरदानात् स्वयंभुवः।
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ ६.८५.१२ ॥

大弓の使い手であり戦いの勝者であるラーヴァナの子(インドラジット)は、矢で討たれねばなりません。その英雄は苦行とスヴァヤンブー(梵天)の恩恵によって、ブラフマ・シラス(梵首)の武器と、思いのままに駆ける馬を得ました。

6.85.13

स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम्।
यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥ ६.८५.१३ ॥

彼は確かに軍勢を率いてニクンビラーに到着した。もし彼が立ち上がって事を成し遂げれば、我々は皆殺されると知れ。

6.85.14

निकुम्भिलामसम्प्राप्तमकृताग्निं च यो रिपुः।
त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ॥ ६.८५.१४ ॥

ニクンビラーに着かず、火の供犠も行わないうちに、敵がお前を侵略者として打ち倒すなら、インドラの敵よ、それがお前の死となる。

6.85.15

वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै।
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः ॥ ६.८५.१५ ॥

大腕の者よ、全世界の主が彼に恩恵を授けた。王よ、このようにしてあの賢者の死は定められたのだ。

6.85.16

वधायेन्द्रजितो राम संदिशस्व महाबलम्।
हते तस्मिन् हतं विद्धि रावणं ससुहृद्गणम् ॥ ६.८५.१६ ॥

ラーマよ、インドラジットを討つよう、その大力の者に命じたまえ。彼が討たれれば、ラーヴァナも友人たちとともに討たれたと知れ。

6.85.17

विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत्।
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥ ६.८५.१७ ॥

ヴィビーシャナの言葉を聞いたラーマは言った。真の勇者よ、私はあの恐ろしき者の幻術を知っている。

6.85.18

स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।
करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि ॥ ६.८५.१८ ॥

彼はブラフマーの武器を知り、賢く、大いなる幻術と大力を持つ。戦いではヴァルナを含む神々をも意識なき者とする。

6.85.19

तस्यान्तरिक्षे चरतः सरथस्य महायशः।
न गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसम्प्लवे ॥ ६.८५.१९ ॥

空中を戦車で移動する大名声の彼の動きは捉えられない、英雄よ、雲の奔流の中の太陽の動きのように。

6.85.20

राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः।
लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ ६.८५.२० ॥

ラーガヴァは邪悪な敵の魔力を知り、名声に満ちたラクシュマナにこの言葉を告げた。

6.85.21

यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः।
हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ ६.८५.२१ ॥

ラクシュマナよ、猿の王の全軍に囲まれ、ハヌマーンを筆頭とする部隊長たちと共に。

6.85.22

जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः।
जहि तं राक्षससुतं मायाबलसमन्वितम् ॥ ६.८५.२२ ॥

熊の王ジャーンバヴァーンと軍勢に囲まれ、魔力を備えたその羅刹の息子を討て。

6.85.23

अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः।
अभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति ॥ ६.८५.२३ ॥

この大魂の夜行者は臣下たちと共にお前の背後から追ってくるだろう。彼は己の幻術に通じている。

6.85.24

राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः।
जग्राह कार्मुकश्रेष्ठमन्यद् भीमपराक्रमः ॥ ६.८५.२४ ॥

ラーガヴァの言葉を聞いて、恐ろしい勇猛を持つラクシュマナはヴィビーシャナと共に、もう一つの最上の弓を取った。

6.85.25

संनद्धः कवची खड्गी सशरी वामचापभृत्।
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ ६.८५.२५ ॥

鎧を身に着け、剣と矢を携え、左手に弓を執ったスミトラーの子ラクシュマナは、喜んでラーマの足に触れ、こう言った。

6.85.26

अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्।
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ ६.८५.२६ ॥

今日、私の弓から放たれた矢はラーヴァナの子を貫き、蓮の池に白鳥が降り立つようにランカーへ降り注ぐだろう。

6.85.27

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः।
विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ ६.८५.२७ ॥

今日のうちに、私の矢は大弓の弦から放たれ、あの残忍な者の身体を貫き砕くだろう。

6.85.28

एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः।
स रावणिवधाकांक्षी लक्ष्मणस्त्वरितं ययौ ॥ ६.८५.२८ ॥

兄の前でこの言葉を述べると、輝かしいラクシュマナはラーヴァナの子を討つことを望み、急ぎ出発した。

6.85.29

सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ ६.८५.२९ ॥

彼は兄の足に礼拝し、右回りに巡礼してから、ラーヴァナの子が守る聖所ニクンビラーへ向かった。

6.85.30

विभीषणेन सहितो राजपुत्रः प्रतापवान्।
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ६.८५.३० ॥

ヴィビーシャナとともに、勇猛な王子ラクシュマナは、兄から吉祥の祝福を受けた後、急ぎ出発した。

6.85.31

वानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः।
विभीषणश्च सामात्यो लक्ष्मणं त्वरितं ययौ ॥ ६.८५.३१ ॥

数千の猿に囲まれたハヌマーンと、大臣らを伴うヴィビーシャナは、速やかにラクシュマナのもとへ向かった。

6.85.32

महता हरिसैन्येन सवेगमभिसंवृतः।
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ६.८५.३२ ॥

大猿の軍勢に素早く囲まれた彼は、道に立つ熊王の軍勢をも見た。

6.85.33

स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः।
राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ॥ ६.८५.३३ ॥

遠くまで進んだスミトラーの子ラクシュマナ、友らの喜びは、遠くから陣形を組んだ羅刹王の軍勢を見た。

6.85.34

स सम्प्राप्य धनुष्पाणिर्मायायोगमरिंदमः।
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ६.८५.३४ ॥

弓を手にした敵を制する、ラグの末裔の喜びは、幻術の策に至り、ブラフマーの掟に従って勝利すべく立った。

6.85.35

विभीषणेन सहितो राजपुत्रः प्रतापवान्।
अङ्गदेन च वीरेण तथानिलसुतेन च ॥ ६.८५.३५ ॥

ヴィビーシャナと共にいる勇猛な王子、勇士アンガダ、そして風神の子と共に。

6.85.36

विविधममलशस्त्रभास्वरं तद्
ध्वजगहनं गहनं महारथैश्च।
प्रतिभयतममप्रमेयवेगं
तिमिरमिव द्विषतां बलं विवेश ॥ ६.८५.३६ ॥

様々な汚れなき武器に輝き、旗幟に密集し、大戦車の勇士に満ちた、極めて恐ろしく無限の速さの敵軍は、闇のように侵入した。