ヴァールミーキのラーマーヤナ · サルガ 6.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.86.1
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ ६.८६.१ ॥
そのとき、ラーヴァナの弟は、敵には害となるが目的を果たす言葉をラクシュマナに告げた。
6.86.2
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते।
एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः ॥ ६.८६.२ ॥
雲のように黒く見えるこの羅刹の軍勢を、猿たちが石の武器で速やかに攻撃せよ。
6.86.3
तस्यानीकस्य महतो भेदने यत लक्ष्मण।
राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ ६.८६.३ ॥
ラクシュマナよ、あの大軍を打ち破るよう努めよ。破れれば、羅刹王の息子もここに姿を現すだろう。
6.86.4
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।
अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते ॥ ६.८६.४ ॥
インドラの雷霆のような矢を敵に降らせ、この任務が終わらぬうちに速やかに突き進め。
6.86.5
जहि वीर दुरात्मानं मायापरमधार्मिकम्।
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ६.८६.५ ॥
勇士よ、邪心を持ち、策略において極めて不正で、残酷な行いをし、あらゆる世界に恐怖をもたらすラーヴァナの子を討て。
6.86.6
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।
ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥ ६.८६.६ ॥
ヴィビーシャナの言葉を聞いたラクシュマナ(吉相の者)は、羅刹王の息子に矢の雨を降らせた。
6.86.7
ऋक्षाः शाखामृगाश्चैव द्रुमप्रवरयोधिनः।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ६.८६.७ ॥
熊と猿、最上の木々を武器として戦う戦士たちが、一斉にそこに布陣した軍勢へ殺到した。
6.86.8
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।
अभ्यवर्तन्त समरे कपिसैन्यजिघांसवः ॥ ६.८६.८ ॥
羅刹たちは鋭い矢、剣、槍、投げ槍を携え、猿の軍勢を殺そうと戦場で進み出た。
6.86.9
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्।
शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ ६.८६.९ ॥
猿と羅刹の間に、その激しい衝突が起こった。その大きな轟音は四方にラーンカーを響き渡らせた。
6.86.10
शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः।
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ ६.८६.१० ॥
様々な形の武器、鋭い矢、木々、掲げられた山の峰によって、空は恐ろしいほど覆い尽くされた。
6.86.11
राक्षसा वानरेन्द्रेषु विकृताननबाहवः।
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ६.८६.११ ॥
顔と腕の醜く歪んだ羅刹たちは、猿の将軍らに武器を向けて大きな恐怖を与えた。
6.86.12
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।
अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥ ६.८६.१२ ॥
同様に猿たちは丸ごとの木や山の峰で打ちかかり、戦場で羅刹をことごとく討ち取った。
6.86.13
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।
रक्षसां युध्यमानानां महद्भयमजायत ॥ ६.८६.१३ ॥
熊と猴の長たちが、巨体で大力の者どもが戦うと、戦う羅刹たちの間に大きな恐怖が生じた。
6.86.14
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्।
उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥ ६.८६.१४ ॥
自軍が敵に苦しめられ意気消沈していると聞き、任務がまだ果たされていないうちに、その難攻不落の者は立ち上がった。
6.86.15
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।
आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥ ६.८६.१५ ॥
木々の暗がりから出てきた、怒りに満ちたラーヴァナの子は、既に繋がれ、よく整えられた戦車に乗り込んだ。
6.86.16
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः।
रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥ ६.८६.१६ ॥
恐ろしい弓と矢を持ち、黒い眼墨の山のようで、赤い顔と赤い目をした恐ろしい彼は、死と死神のように輝いた。
6.86.17
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम्।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ ६.८६.१७ ॥
彼が戦車の上に立つのを見て、ラクシュマナと戦おうとしていた、恐ろしい速さの羅刹の軍勢は引き返した。
6.86.18
तस्मिंस्तु काले हनुमानरुजत् स दुरासदम्।
धरणीधरसंकाशो महावृक्षमरिंदमः ॥ ६.८६.१८ ॥
その時、山のような敵を征する者ハヌマーンは、近づきがたいその大樹を折った。
6.86.19
स राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन्।
चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ ६.८६.१९ ॥
劫火のように羅刹の軍勢を焼き尽くしながら、その猿は戦いで多くの木々によって彼らを気絶させた。
6.86.20
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।
राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ ६.८६.२० ॥
風の子が勢いよく破壊するのを見て、羅刹の数千がハヌマーンに降り注いだ。
6.86.21
शितशूलधराः शूलैरसिभिश्चासिपाणयः।
शक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः ॥ ६.८६.२१ ॥
鋭い槍を持つ者は槍で、剣を手にする者は剣で、投槍を手にする者は投槍で、鉄棍を武器とする者は鉄棍で。
6.86.22
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ ६.८६.२२ ॥
鉄の棍棒で、棍棒で、美しい槍で、数百の百殺器で、そして鉄の槌でも。
6.86.23
घोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः।
मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ॥ ६.८६.२३ ॥
恐ろしい斧と投槍で羅刹たちは、金剛のような拳で、稲妻のような掌で。
6.86.24
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम्।
तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ ६.८६.२४ ॥
山のような彼を四方から取り囲んで打ちかかった。彼らにも怒った彼は、大虐殺を行った。
6.86.25
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।
सूदमानमसंत्रस्तममित्रान् पवनात्मजम् ॥ ६.८६.२५ ॥
インドラジットは、山のように動じず、恐れを知らず、敵を討つ、猿の中の最上の風の子を見た。
6.86.26
स सारथिमुवाचेदं याहि यत्रैष वानरः।
क्षयमेव हि नः कुर्याद् राक्षसानामुपेक्षितः ॥ ६.८६.२६ ॥
彼は御者に言った。「この猿のいるところへ行け。捨て置けば、こやつは我ら羅刹を滅ぼすだろう。」
6.86.27
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।
वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ ६.८६.२७ ॥
そう言われた御者は、風の子のいる所へ向かい、猛威ふるう難敵インドラジットを戦車に乗せて走った。
6.86.28
सोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।
अभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः ॥ ६.८६.२८ ॥
その難敵の羅刹は近づき、猿の頭上へ矢や剣、槍、斧の雨を降らせた。
6.86.29
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।
रोषेण महताविष्टो वाक्यं चेदमुवाच ह ॥ ६.८६.२९ ॥
その恐ろしい武器を受けた風の子は、大いなる怒りに囚われ、この言葉を発した。
6.86.30
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते।
वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि ॥ ६.८६.३० ॥
もし勇士なら戦え、邪な心のラーヴァナの子よ。風の子に出会えば、生きて帰ることはないだろう。
6.86.31
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ६.८६.३१ ॥
もし戦場で私と一騎打ちする勇気があるなら、腕で戦え。邪悪な者よ、私の勢いに耐えてみよ。そうすればお前は羅刹の中で最も優れた者となるだろう。
6.86.32
हनूमन्तं जिघांसन्तं समुद्यतशरासनम्।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ६.८६.३२ ॥
ヴィビーシャナは、ハヌマーンを殺そうと弓を構えているラーヴァナの息子をラクシュマナに指し示した。
6.86.33
यः स वासवनिर्जेता रावणस्यात्मसम्भवः।
स एष रथमास्थाय हनूमन्तं जिघांसति ॥ ६.८६.३३ ॥
インドラを征服したラーヴァナの息子こそ、戦車に乗ってハヌマーンを殺そうとしている。
6.86.34
तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः।
जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ६.८६.३४ ॥
サウミトリよ、比類なき姿のお前よ、敵を退け命を奪う恐ろしい矢で、ラーヴァナの息子を討て。
6.86.35
इत्येवमुक्तस्तु तदा महात्मा
विभीषणेनारिविभीषणेन।
ददर्श तं पर्वतसंनिकाशं
रथस्थितं भीमबलं दुरासदम् ॥ ६.८६.३५ ॥
ヴィビーシャナにこう告げられると、敵を恐れさせる偉大なラクシュマナは、山のように戦車に立つ、恐ろしい力を持ち近づき難い彼を見た。