Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.87.1

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।
धनुष्पाणिं तमादाय त्वरमाणो जगाम सः ॥ ६.८७.१ ॥

说完这话,欢喜的毗跋沙那带着手持弓箭的萨乌弥德里(罗什曼那)急速前行。

6.87.2

अविदूरं ततो गत्वा प्रविश्य तु महद् वनम्।
अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः ॥ ६.८७.२ ॥

随后,他们走得不远,进入大森林,毗跋沙那向罗什曼那展示了那件事。

6.87.3

नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्।
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ६.८७.३ ॥

那棵如乌黑雨云、望之可怖的榕树,光辉的罗波那之弟向罗什曼那指明。

6.87.4

इहोपहारं भूतानां बलवान् रावणात्मजः।
उपहृत्य ततः पश्चात् संग्राममभिवर्तते ॥ ६.८७.४ ॥

在此向众灵献上供物之后,强大的罗波那之子随即投入战斗。

6.87.5

अदृश्यः सर्वभूतानां ततो भवति राक्षसः।
निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ॥ ६.८७.५ ॥

于是那罗刹对一切众生都变得不可见;他在战场上杀死敌人,并以精良的箭矢将他们缚住。

6.87.6

तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्।
विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम् ॥ ६.८७.६ ॥

那尚未进入榕树的强大罗波那之子,请用炽烈的箭矢连同他的战车、马匹和御者一并摧毁。

6.87.7

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।
बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥ ६.८७.७ ॥

说罢,大光辉的苏弥陀之子、朋友的喜悦罗什曼那,稳稳站在那里,拉开他那神奇的弓。

6.87.8

स रथेनाग्निवर्णेन बलवान् रावणात्मजः।
इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत ॥ ६.८७.८ ॥

乘着火焰色的战车,罗波那的强大之子因陀罗耆特身披铠甲、手持宝剑、旗帜高扬地出现了。

6.87.9

तमुवाच महातेजाः पौलस्त्यमपराजितम्।
समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे ॥ ६.८७.९ ॥

他对不可战胜的补罗斯底耶后裔说道:“我在战场上向你挑战;请与我正式交战。”

6.87.10

एवमुक्तो महातेजा मनस्वी रावणात्मजः।
अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ ६.८७.१० ॥

被这样说后,心志高远、光辉盛大的罗波那之子看到那里的维毗沙那,说出了严厉的话。

6.87.11

इह त्वं जातसंवृद्धः साक्षात् भ्राता पितुर्मम।
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ६.८७.११ ॥

“你生于此、长于此,确实是我父亲的兄弟。哦,罗刹!作为我的伯父,你怎么竟背叛我的儿子?”

6.87.12

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।
प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ॥ ६.८७.१२ ॥

“哦,恶念之人!你既无亲缘,也无情谊,无家族可言,无名分可凭,无兄弟之情,也无法度——哦,败坏正法的人!”

6.87.13

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ ६.८७.१३ ॥

你是可怜的,愚昧的人啊,也为善人所非议;因为你舍弃了自己的亲族,去做别人的仆役。

6.87.14

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।
क्व च स्वजनसंवासः क्व च नीच पराश्रयः ॥ ६.८७.१४ ॥

你以软弱的心智,竟不明白这巨大的差别:与自己的亲族相处在哪里,依附卑劣之人又在哪里!

6.87.15

गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा।
निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥ ६.८७.१५ ॥

无论外人是否有德,自己的亲族即使无德也更好;因为外人终究是外人。

6.87.16

यः स्वपक्षं परित्यज्य परपक्षं निषेवते।
स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥ ६.८७.१६ ॥

舍弃自己一方而侍奉对方的人,当自己一方覆灭之后,终将被那些人所杀。

6.87.17

निरनुक्रोशता चेयं यादृशी ते निशाचर।
स्वजनेन त्वया शक्यं पौरुषं रावणानुज ॥ ६.८७.१७ ॥

夜行者啊,你这般冷酷无情!罗波那的弟弟啊,对自己的亲族竟能如此逞强,这是怎么可能的?

6.87.18

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः।
अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ ६.८७.१८ ॥

兄长之子这样说了,维毗沙那答道:“罗刹啊,你为何夸口,仿佛不了解我的品性?”

6.87.19

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्।
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।
गुणो यः प्रथमो नॄणां तन्मे शीलमराक्षसम् ॥ ६.८७.१९ ॥

罗刹王之子,恶人啊!出于敬重,请放下你的严厉。虽然我生于行残暴之事的罗刹族中,但人的首要美德才是我的本性,而非罗刹之性。

6.87.20

न रमे दारुणेनाहं न चाधर्मेण वै रमे।
भ्रात्रा विषमशीलोऽपि कथं भ्राता निरस्यते ॥ ६.८७.२० ॥

我不喜欢残暴之事,也不喜欢不义之事。即便兄弟性情乖戾,又怎能将兄弟驱逐?

6.87.21

धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।
त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ ६.८७.२१ ॥

因为对于行为已背离正法、决意作恶的人,舍弃他便能得到安乐,就像从手中放开毒蛇一样。

6.87.22

परस्वहरणे युक्तं परदाराभिमर्शकम्।
त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा ॥ ६.८७.२२ ॥

人们说,那贪夺他人财物、玷污他人妻子的恶心之人,应当像燃烧的房屋一样被舍弃。

6.87.23

परस्वानां च हरणं परदाराभिमर्शनम्।
सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ ६.८७.२३ ॥

夺取他人财物、玷污他人妻子、对朋友过度猜疑——这三种过失会带来毁灭。

6.87.24

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः।
अभिमानश्च रोषश्च वैरित्वं प्रतिकूलता ॥ ६.८७.२४ ॥

杀害大仙人、与诸天神为敌、傲慢、愤怒、仇恨与对立——这些同样是可怕的过失。

6.87.25

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः।
गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ ६.८७.२५ ॥

这些过失毁坏了我兄长的生命与权位,正如雨云遮蔽高山一般,掩盖了他的美德。

6.87.26

दोषैरेतैः परित्यक्तो मया भ्राता पिता तव।
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ ६.८७.२६ ॥

因这些过失,我已舍弃了你的兄长与父亲。此楞伽城已不再属于你;你不在了,你的父亲也不在了。

6.87.27

अतिमानश्च बालश्च दुर्विनीतश्च राक्षस।
बद्धस्त्वं कालपाशेन ब्रूहि मां यद् यदिच्छसि ॥ ६.८७.२७ ॥

啊,罗刹!你骄傲过度、愚昧无礼,已被时间之索所缚。你想说什么,就对我说吧。

6.87.28

अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्तवान्।
प्रवेष्टुं न त्वया शक्यं न्यग्रोधं राक्षसाधम ॥ ६.८७.२८ ॥

啊,最卑劣的罗刹!因你对我出言粗暴,今日灾祸便降临到你头上。你甚至无法进入这棵尼耶格罗陀(榕树)。

6.87.29

धर्षयित्वा च काकुत्स्थं न शक्यं जीवितुं त्वया।
युध्यस्व नरदेवेन लक्ष्मणेन रणे सह।
हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम् ॥ ६.८७.२९ ॥

你侮辱了迦恭多斯族的罗摩,便不能再活下去。你应与拉克什曼那一起,在战场上与人主罗摩交战。战死之后,你将完成诸神的使命,前往阎摩之境。

6.87.30

निदर्शयस्वात्मबलं समुद्यतं
कुरुष्व सर्वायुधसायकव्ययम्।
न लक्ष्मणस्यैत्य हि बाणगोचरं
त्वमद्य जीवन् सबलो गमिष्यसि ॥ ६.८७.३० ॥

施展你已备好的力量,耗尽你所有的兵器与箭矢。若不进入拉克什曼那的箭程之内,你今日便无法带着军队活着离去。