蚁垤《罗摩衍那》 · 篇 6.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.89.1
युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ।
प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ ॥ ६.८९.१ ॥
此时,他看见那两个交战的人——人与罗刹——如两头发情的象一般相互缠斗,各自渴望战胜对方。
6.89.2
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली।
शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ ६.८९.२ ॥
他想观看二人之间的战斗,手持良弓,这位强大勇猛的罗波那之弟站立在战阵之前。
6.89.3
ततो विस्फारयामास महद् धनुरवस्थितः।
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥ ६.८९.३ ॥
随后,他稳稳站立,将大弓拉满,向罗刹们射出尖锐箭头的巨大箭矢。
6.89.4
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः।
राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन् ॥ ६.८९.४ ॥
那些带着火焰的箭矢,凝神落下,把罗刹们驱散,犹如霹雳击打巨大的山岳。
6.89.5
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः।
चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ॥ ६.८९.५ ॥
毗भीषण的随从们,罗刹中的精英,也用长矛、剑与铁棒在战斗中砍倒了那些勇猛的罗刹。
6.89.6
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।
बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः ॥ ६.८९.६ ॥
此时,毗भीषण被那些罗刹围绕,在他们之中光彩夺目,如同大象立于勇猛的小象之间。
6.89.7
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान्।
उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ६.८९.७ ॥
于是,他激励那些喜爱诛杀罗刹的猴子们,知晓时机的罗刹之长在适当的时候说出了这番话。
6.89.8
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः।
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ६.८९.८ ॥
罗刹之王的最后依靠只剩此一人独自屹立;这便是他残存的军队。猴王们啊,你们为何还停留不前?
6.89.9
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि।
रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ॥ ६.८९.९ ॥
此罪恶的罗刹若在战阵之前被杀,那么除了罗波那之外,他残存的军队也就被消灭了。
6.89.10
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ ६.८९.१० ॥
勇士普拉哈斯塔已被杀;大力的尼昆跋、俱槃那、俱跋,以及夜行者达姆拉刹也都已倒下。
6.89.11
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः।
सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥ ६.८९.११ ॥
遮浮摩利、大摩利、疾速如风的利毗陀、如雷电般光耀的阿舍尼普罗跋、苏普塔贺那、祀祭之怒,以及罗刹伐闍罗达利什特罗,也都已倒下。
6.89.12
संह्रादी विकटोऽरिघ्नस्तपनो मन्द एव च।
प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥ ६.८९.१२ ॥
三呼罗陀、毗迦吒、阿利伽那、达波那、曼陀、普罗迦沙、普罗伽萨、普兰伽、强伽,也都已倒下。
6.89.13
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्।
विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥ ६.८९.१३ ॥
火旗、难以抵挡的杜尔达尔沙、勇猛的光旗、闪舌、双舌,以及罗刹太阳敌。
6.89.14
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।
कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥ ६.८९.१४ ॥
无动、善胁与轮鬘罗刹;震动,以及那两位勇士——天终与人终。
6.89.15
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्।
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥ ६.८९.१५ ॥
杀尽这些众多极其强大的罗刹中的翘楚,用双臂渡过大海之后,便可以迅速跨过牛蹄印那样小的距离。
6.89.16
एतावदेव शेषं वो जेतव्यमिति वानराः।
हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ ६.८९.१६ ॥
「你们剩下的只需征服这么多」——如此说着,恃力自傲的罗刹们聚集起来,全部被杀。
6.89.17
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ ६.८९.१७ ॥
让我父亲之子的儿子(即我兄弟之子)死去,实在不合宜;然而为了罗摩,我舍弃怜悯,也会杀死兄弟之子。
6.89.18
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति।
तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ॥ ६.८९.१८ ॥
我虽想杀戮,双眼却被泪水阻遏;唯有这位大臂的罗什曼那会平息它们。
6.89.20
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान्।
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः।
ततस्तु कपिशार्दूलाः क्ष्वेडन्तश्च पुनः पुनः।
मुमुचुर्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः ॥ ६.८९.२० ॥
猴子们齐心协力,击打他身边的侍从(罗刹)。猴王们欢欣鼓舞,挥舞着尾巴。随后,那些如虎的猴中之雄反复咆哮,发出各种叫声,如同孔雀见到乌云一般。
6.89.21
जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः।
तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान् ॥ ६.८९.२१ ॥
jāmbavān 也被自己所属的整个群体环绕,用石头、利爪和牙齿攻击罗刹。
6.89.22
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।
परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥ ६.८९.२२ ॥
那些大力罗刹抛开恐惧,手持各式兵器,将正在击打熊王的他团团围住。
6.89.23
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः।
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥ ६.८९.२३ ॥
他们以箭矢、利斧、铁棒、木杖和长矛,在战场上击打正在歼灭罗刹大军的 jāmbavān。
6.89.24
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्।
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥ ६.८९.२४ ॥
猴子与罗刹之间的那场冲突变得一片喧嚣,如同愤怒的天神与阿修罗之间可怕的巨大吼声。
6.89.25
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्।
स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः ॥ ६.८९.२५ ॥
哈奴曼也极为愤怒,从山上拔起一棵娑罗树;那位大度的英雄亲自把罗什曼那从自己背上放了下来。
6.89.26
रक्षसां कदनं चक्रे दुरासादः सहस्रशः।
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली ॥ ६.८९.२६ ॥
不可战胜的因陀罗耆特杀死了成千上万的罗刹;这位强大者与他的伯父展开了激烈的战斗。
6.89.27
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत।
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ॥ ६.८९.२७ ॥
那位斩杀敌方英雄者再次冲向罗什曼那;于是这两位英雄,罗什曼那与罗刹,在战场上激烈交锋。
6.89.28
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्।
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ॥ ६.८९.२८ ॥
二人倾泻箭雨,互相攻击;这两位大力者不时隐藏在箭网之中。
6.89.29
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ।
नह्यादानं न संधानं धनुषो वा परिग्रहः ॥ ६.८९.२९ ॥
二人都极为迅捷,如同夏末被云遮蔽的日月;人们看不见他们拿弓、搭箭于弦或握弓的动作。
6.89.30
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः।
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ॥ ६.८९.३० ॥
既看不见放箭,也看不见拉弓和瞄准;既看不见握拳的动作,也看不见对准目标。
6.89.31
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्।
चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः ॥ ६.८९.३१ ॥
在那里,因为二人手法之快,四面八方只见被弓的力道射出的箭网。
6.89.32
अन्तरिक्षेऽभिसम्पन्ने न रूपाणि चकाशिरे।
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् ॥ ६.८९.३२ ॥
天空充满笼罩时,那里看不见任何形体。罗什曼那与罗婆尼相遇,罗婆尼也与罗什曼那相遇。
6.89.33
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे।
ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः ॥ ६.८९.३३ ॥
二人相互激战,引发了猛烈的混乱;二人迅速射出的利箭,使一切陷入混乱。
6.89.34
निरन्तरमिवाकाशं बभूव तमसा वृतम्।
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः ॥ ६.८९.३४ ॥
天空仿佛被黑暗无间隙地笼罩,而二人锐利的数百支箭不断落下,黑暗愈加浓重。
6.89.35
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः।
तमसा पिहितं सर्वमासीत् प्रतिभयं महत् ॥ ६.८९.३५ ॥
四方和四隅都布满了箭矢;一切都被黑暗遮蔽,极为可怖。
6.89.36
अस्तं गते सहस्रांशौ संवृते तमसा च वै।
रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः ॥ ६.८९.३६ ॥
千光之日落下,黑暗笼罩之时,血流成千上万地汇成大河般奔涌。
6.89.37
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान्।
न तदानीं ववौ वायुर्न च जज्वाल पावकः ॥ ६.८९.३७ ॥
凶残的食肉之物以叫声发出可怕的吼叫。那时,风不吹,火也不燃。
6.89.38
स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः।
सम्पेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः ॥ ६.८९.३८ ॥
那些大仙人低声说道:“愿诸世界安好。”痛苦的乾达婆与飞行者(查罗那)也聚集于此。
6.89.39
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ ६.८९.३९ ॥
于是,首弥(罗什曼那)以四支箭射穿了罗刹雄狮那四匹黑色、饰以金饰的马。
6.89.40
ततोऽपरेण भल्लेन पीतेन निशितेन च।
सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥ ६.८९.४० ॥
接着,又以另一支箭——黄色、锋利、全力拉满射出、羽翎优美而光辉的箭(婆罗)。
6.89.41
महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः।
स तेन बाणाशनिना तलशब्दानुनादिना ॥ ६.८९.४१ ॥
他以那支如因陀罗雷霆、发出掌击般回响的箭——击中了四处驰驱的御者。
6.89.42
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत्।
स यन्तरि महातेजा हते मन्दोदरीसुतः ॥ ६.८९.४२ ॥
凭借敏捷,尊贵的罗怙后裔(罗摩)斩下了御者的头颅。于是,大光辉的曼陀陀利之子(迷迦那陀)见御者被杀——
6.89.43
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्।
तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि ॥ ६.८९.४३ ॥
他亲自驾车,随后又拿起弓;那驾驭之术对于在战场上观看的人们而言,成了一桩奇事。
6.89.44
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः।
धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान् ॥ ६.८९.४४ ॥
他用锋利的箭射中了那双手忙于御马的人。接着,他又忙于弓箭,向马匹射出箭矢。
6.89.45
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत्।
अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः ॥ ६.८९.४५ ॥
透过那些空隙,善于迅速斩击的罗什曼那在战场上以箭雨袭扰他,而他仿佛无所畏惧地四处走动。
6.89.46
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥ ६.८९.४६ ॥
罗波那之子见御者在战场上被杀,便放弃了战斗的热情;他果然陷入了沮丧。
6.89.47
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥ ६.८९.४७ ॥
看到那罗刹面容沮丧,猴群的统帅们万分欢喜,并向罗什曼那致敬。
6.89.48
ततः प्रमाथी रभसः शरभो गन्धमादनः।
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥ ६.८९.४८ ॥
于是,四位猴王——普拉玛提、罗巴沙、沙罗跋与甘达玛达那——不能忍受,便迅猛冲上前去。
6.89.49
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः।
चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः ॥ ६.८९.४९ ॥
那些猴子极为强大、威猛无比,迅速跃起,扑向他的四匹主要战马。
6.89.50
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।
मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत ॥ ६.८९.५० ॥
那些如山般的猴子骑立其上时,马口中明显地流出了鲜血。
6.89.51
ते हया मथिता भग्ना व्यसवो धरणीं गताः।
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्।
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ६.८९.५१ ॥
那些马被踩碎折断,失去生命倒地。他们杀死了那些马,又践踏了那位大车士,随即又迅速跃起,站在罗什曼那身旁。
6.89.52
स हताश्वादवप्लुत्य रथान्मथितसारथिः।
शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ६.८९.५२ ॥
马匹被杀、御者被踩碎后,罗波那之子跳下战车,以箭雨冲向首弥德罗(罗什曼那)。
6.89.53
ततो महेन्द्रप्रतिमः स लक्ष्मणः
पदातिनं तं निहतैर्हयोत्तमैः।
सृजन्तमाजौ निशितान् शरोत्तमान्
भृशं तदा बाणगणैर्व्यदारयत् ॥ ६.८९.५३ ॥
此时,如因陀罗般的罗什曼那,以箭群猛烈地射穿了那名步兵——他的良马已被杀死,他在战场上射出锐利上等的箭矢。