Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.91.1

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।
बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे ॥ ६.९१.१ ॥

血に濡れた身体で吉兆の相を備えたラクシュマナは、戦いで敵を打ち破ったその者を討ち取って喜んだ。

6.91.2

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्।
संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः ॥ ६.९१.२ ॥

そして勇猛で大いに輝くその人は、ジャーンバヴァーン、ハヌマーン、そして森に住む者たち全員のもとに近づき。

6.91.3

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ ६.९१.३ ॥

そしてすぐにスグリーヴァとラーガヴァ(ラーマ)のいる所へ来た。ヴィビーシャナとハヌマーンを支えながら、ラクシュマナは。

6.91.4

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।
तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा ॥ ६.९१.४ ॥

その後、ラーマに近づき礼をしたサウミトリ(ラクシュマナ)は、インドラの弟(ヴィシュヌ)がインドラのそばに立つように、兄のそばに立った。

6.91.5

निष्टनन्निव चागत्य राघवाय महात्मने।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥ ६.९१.५ ॥

うめくようにしてやって来たその英雄は、大いなる魂のラーガヴァ(ラーマ)に、インドラジットの恐ろしい死を告げた。

6.91.6

रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।
न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥ ६.९१.६ ॥

ラーヴァナの(息子の)首は大いなる魂のラクシュマナによって斬り落とされた。その時、喜んだヴィビーシャナはそれをラーマに報告した。

6.91.7

श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्।
प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह ॥ ६.९१.७ ॥

ラクシュマナがインドラジットを討ったと聞き、大いなる勇者ラーマは比類なき喜びを覚え、この言葉を述べた。

6.91.8

साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम्।
रावणेर्हि विनाशेन जितमित्युपधारय ॥ ६.९१.८ ॥

よくやった、ラクシュマナよ!私は満足している。おまえは成し難い偉業を成し遂げた。ラーヴァナの息子の滅亡によって勝利は得られたのだと知れ。

6.91.9

स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम्।
लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ॥ ६.९१.९ ॥

勇猛なラーマは名声を高めるラクシュマナの頭に口づけし、恥じらうラクシュマナを愛情から無理に膝の上に抱き上げた。

6.91.10

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।
भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत ॥ ६.९१.१० ॥

彼を膝に座らせ、固く抱きしめて、慈しみ深い弟ラクシュマナを、ラーマは何度も何度も見つめた。

6.91.11

शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम्।
रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम् ॥ ६.९१.११ ॥

矢に射られ傷つき、苦しみ、深く溜息をつくラクシュマナを見て、ラーマは悲しみに焼かれた。彼もまた溜息に苛まれていた。

6.91.12

मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।
उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥ ६.९१.१२ ॥

ラクシュマナの頭に再び口づけし、触れて、急いで慰めたのち、人中の雄牛ラーマはラクシュマナにこの言葉を述べた。

6.91.13

कृतं परमकल्याणं कर्म दुष्करकर्मणा।
अद्य मन्ये हते पुत्रे रावणं निहतं युधि ॥ ६.९१.१३ ॥

今日、息子が殺されたので、戦いでラーヴァナも殺されたと私は思う。困難な行いをなす者によって、最も吉祥な務めが成し遂げられた。

6.91.14

अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ॥ ६.९१.१४ ॥

今日、私は敵に勝利した。あの邪悪で残忍なラーヴァナが殺されたからだ。英雄よ、幸いにも、お前が戦いでこれを成し遂げたのだ。

6.91.15

छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः।
विभीषणहनूमद्भ्यां कृतं कर्म महद् रणे ॥ ६.९१.१५ ॥

彼の右腕は切り落とされた。それこそが彼の頼みであったから。ヴィビーシャナとハヌマーンが戦いで大いなる功績を立てた。

6.91.16

अहोरात्रैस्त्रिभिर्वीरः कथंचिद् विनिपातितः।
निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥ ६.९१.१६ ॥

三昼夜かかって、その英雄はどうにか打ち倒された。今日、私は敵のない者とされた。ラーヴァナは必ず出てくるだろう。

6.91.17

बलव्यूहेन महता निर्यास्यति हि रावणः।
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ॥ ६.९१.१७ ॥

大軍の陣形を率いて、ラーヴァナは必ず出てくるだろう。息子が打ち倒されたと聞いて、彼は大軍の陣形で来るだろう。

6.91.18

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्।
बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥ ६.९१.१८ ॥

息子の死に苦しみ、出てくる羅刹の主を、大軍で取り囲み、あの不敗の者を私は討ち滅ぼそう。

6.91.19

त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।
न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे ॥ ६.९१.१९ ॥

ラクシュマナよ、お前を守護者とすれば、シーターも大地も私にとって得がたいものではない。インドラを征服したあの者が戦いで倒れた後も、同じである。

6.91.20

स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः।
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥ ६.९१.२० ॥

ラーガヴァ・ラーマは弟を慰め抱きしめ、喜びのうちにスシェーナに語りかけて、このように言った。

6.91.21

विशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः।
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥ ६.९१.२१ ॥

大いなる智者よ、友を慈しむサウミトリが矢の棘から解かれ、完全に快復するよう、お前が治療せよ。

6.91.22

विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः।
ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥ ६.९१.२२ ॥

サウミトリとヴィビーシャナ、そして樹木を武器に戦う熊と猿の軍の勇士たちを、すぐに矢の棘から解き放て。

6.91.23

ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा।
तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिनस्त्वया ॥ ६.९१.२३ ॥

ここで戦う他の者たちも、矢に射られ傷ついた者たちも、皆お前が丁寧に癒して安楽にしてやれ。

6.91.24

एवमुक्तः स रामेण महात्मा हरियूथपः।
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् ॥ ६.९१.२४ ॥

ラーマにこう言われて、大いなる猿の群れの主スシェーナは、ラクシュマナに鼻から至上の薬を与えた。

6.91.25

स तस्य गन्धमाघ्राय विशल्यः समपद्यत।
तदा निर्वेदनश्चैव संरूढव्रण एव च ॥ ६.९१.२५ ॥

その香りをかぐと、彼は矢から解放された。そのとき苦痛は消え、傷もふさがった。

6.91.26

विभीषणमुखानां च सुहृदां राघवाज्ञया।
सर्ववानरमुख्यानां चिकित्सामकरोत् तदा ॥ ६.९१.२६ ॥

ラーガヴァの命により、そのときヴィビーシャナを筆頭とする友人たちと、すべての主だったヴァーナラたちが治療を受けた。

6.91.27

ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः।
सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः ॥ ६.९१.२७ ॥

やがて元の状態に戻ったサウミトリは、矢を抜かれ、疲れも去り、一瞬にして熱も引き、そこで喜んだ。

6.91.28

तदैव रामः प्लवगाधिपस्तथा
विभीषणश्चर्क्षपतिश्च वीर्यवान्।
अवेक्ष्य सौमित्रिमरोगमुत्थितं
मुदा ससैन्याः सुचिरं जहर्षिरे ॥ ६.९१.२८ ॥

そのとき、ラーマ、猿の王、勇猛な熊の王、そしてヴィビーシャナは、サウミトリが病なく起き上がったのを見て、軍勢とともに長いあいだ喜んだ。

6.91.29

अपूजयत् कर्म स लक्ष्मणस्य
सुदुष्करं दाशरथिर्महात्मा।
बभूव हृष्टो युधि वानरेन्द्रो
निशम्य तं शक्रजितं निपातितम् ॥ ६.९१.२९ ॥

偉大なダシャラタの子ラーマは、ラクシュマナのきわめて困難な働きを称えた。インドラジットが倒されたと聞いて、猿の王は戦いの中で喜んだ。