Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.92.1

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्।
आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः ॥ ६.९२.१ ॥

于是补路斯提耶的大臣们听闻因陀罗耆的死讯,确认之后,迅速禀告了十首王罗波那。

6.92.2

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।
विभीषणसहायेन मिषतां नो महाद्युतिः ॥ ६.९२.२ ॥

大王啊,在战斗中,您的儿子、大光辉者,在我们眼前被罗什曼那借毗ibhīṣaṇa之助所杀。

6.92.3

शूरः शूरेण संगम्य संयुगेष्वपराजितः।
लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥ ६.९२.३ ॥

你的勇猛之子因陀罗耆,征服诸神、在战场上从未败北,遇到勇士之后,被罗什曼那杀死。

6.92.4

गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम्।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ॥ ६.९२.४ ॥

他以箭令罗什曼那满足后,前往至高的世界。当他听到那可怕的消息,即儿子惨死的噩耗,(罗波那)……

6.92.5

घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्।
उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः ॥ ६.९२.५ ॥

在战斗中,因因陀罗耆的惨死,罗刹中的最优者国王陷入深深的昏厥;过了很久,他才恢复了知觉。

6.92.6

पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः।
हा राक्षसचमूमुख्य मम वत्स महाबल ॥ ६.९२.६ ॥

他因丧子之痛而心烦意乱,悲惨至极,感官紊乱,哀叹道:“唉!罗刹军队的统帅啊,我的孩子,大力士啊!”

6.92.7

जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥ ६.९२.७ ॥

你曾战胜因陀罗,今日却如何落入罗什曼那之手?愤怒之时,你的箭本可穿透死神迦罗与终结者。

6.92.8

मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि।
अद्य वैवस्वतो राजा भूयो बहुमतो मम ॥ ६.९२.८ ॥

你尚能劈碎曼陀罗山的山峰,何况在战场上的罗什曼那?今日,维瓦斯瓦塔王阎摩在我心中更加受人尊敬。

6.92.9

येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि।
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति ॥ ६.९२.९ ॥

啊,大臂者,今日你已与时间之法相连;这正是善战者之道,即使在诸神之中亦然。为主人而死的人,必升天界。

6.92.10

अद्य देवगणाः सर्वे लोकपाला महर्षयः।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥ ६.९२.१० ॥

今日,诸天神众、世界守护者与大仙闻知因陀罗耆多已被杀,将无畏而安乐地入睡。

6.92.11

अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥ ६.९२.११ ॥

今日,没有了这一位因陀罗耆多,三界与连同森林的整个大地,在我看来都仿佛空荡荡的。

6.92.12

अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥ ६.९२.१२ ॥

今日我将在内宫听到罗刹少女的哭声,如同山洞中一群雌象的鸣叫。

6.92.13

यौवराज्यं च लङ्कां च रक्षांसि च परंतप।
मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः ॥ ६.९२.१३ ॥

啊,焚烧敌人者!你舍弃了太子之位、楞伽、罗刹、母亲、我和众妻,究竟去了何处?

6.92.14

मम नाम त्वया वीर गतस्य यमसादनम्।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ ६.९२.१४ ॥

啊,英雄!你以我的名字前往阎摩的居所;本应举行的丧葬之礼,如今却颠倒进行。

6.92.15

स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ॥ ६.९२.१५ ॥

当须羯里婆、罗什曼那与罗怙婆(罗摩)尚在,你却不拔出我身上的刺,舍弃我们去了何处?

6.92.16

एवमादिविलापार्तं रावणं राक्षसाधिपम्।
आविवेश महान् कोपः पुत्रव्यसनसम्भवः ॥ ६.९२.१६ ॥

如此哀嚎悲痛的罗刹王罗波那,心中涌起了因爱子遭难而生的大怒。

6.92.17

प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।
दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः ॥ ६.९२.१७ ॥

他本性易怒,爱子的悲痛更使他的怒火燃烧,正如夏日的光芒使太阳更加炽热。

6.92.18

ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥ ६.९२.१८ ॥

他额上紧皱的眉头使他光彩夺目,如同劫末之时,大海与鳄鱼、巨浪一同翻腾闪耀。

6.92.19

कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन्।
उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव ॥ ६.९२.१९ ॥

他因愤怒张口时,口中明显地喷出夹着烟的烈火,仿佛从弗栗多的口中喷出。

6.92.20

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद् वधम् ॥ ६.९२.२० ॥

那英雄因爱子被杀而痛苦,陷入愤怒之中。罗波那以智慧考虑后,决定杀害毗提诃(悉多)。

6.92.21

तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥ ६.९२.२१ ॥

他的眼睛本就通红,又因愤怒之火而更红,成为罗波那极其可怕的燃烧之目。

6.92.22

घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम्।
बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् ॥ ६.९२.२२ ॥

他本性可怖的形貌,被愤怒之火笼罩,变得令人不敢靠近,如同震怒的楼陀罗。

6.92.23

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः।
दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः ॥ ६.९२.२३ ॥

他愤怒的双眼中落下泪珠,仿佛两盏燃烧的灯中落下带着火焰的油滴。

6.92.24

दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।
यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव ॥ ६.९२.२४ ॥

听到他咬牙的声音,仿佛达那婆们搅动并拉拽机器发出的声响。

6.92.25

कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ॥ ६.९२.२५ ॥

他如同时间之火般极度愤怒,无论望向哪个方向,那里的罗刹都因恐惧而躲藏起来。

6.92.26

तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥ ६.९२.२६ ॥

他如死神般愤怒,想要吞噬一切动与不动之物,环顾四方,罗刹们不敢靠近他。

6.92.27

ततः परमसंक्रुद्धो रावणो राक्षसाधिपः।
अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ ६.९२.२७ ॥

于是极度愤怒的罗刹王罗波那,想要在战斗中稳住罗刹们的军心,便在众罗刹之中说道。

6.92.28

मया वर्षसहस्राणि चरित्वा परमं तपः।
तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः ॥ ६.९२.२८ ॥

我修持了数千年的至高苦行,在各处之地,自生者(梵天)对我感到满意。

6.92.29

तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥ ६.९२.२९ ॥

凭借那苦行的果报,以及自生者的恩典,我永远不惧怕阿修罗,也不惧怕天神。

6.92.30

कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।
देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः ॥ ६.९२.३० ॥

梵天赐予我的铠甲,光辉如太阳,在天神与阿修罗的交战中,即便被金刚拳击打也从未被割裂。

6.92.31

तेन मामद्य संयुक्तं रथस्थमिह संयुगे।
प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः ॥ ६.९२.३१ ॥

身披此甲、立于战车之上的我,今日在此战中谁能与我对抗?今日战场上,即便是破城者因陀罗本人,又有谁能迎战我?

6.92.32

यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्।
देवासुरविमर्देषु मम दत्तं स्वयंभुवा ॥ ६.९२.३२ ॥

那把配有箭矢的大弓,是自生者梵天在天神与阿修罗的争战中大为欢喜后赐予我的。

6.92.33

अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।
रामलक्ष्मणयोरेव वधाय परमाहवे ॥ ६.९२.३३ ॥

今日在数百乐器的鸣奏中,请举起我那可怖的大弓,只为在最后的决战中杀死罗摩与罗什曼那。

6.92.34

स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ ६.९२.३४ ॥

罗波那因爱子被杀而痛苦,被愤怒所支配,以心思权衡之后,决意杀死悉多。

6.92.35

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।
दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ॥ ६.९२.३५ ॥

他红着眼睛,极为可怖,样貌骇人,环顾众夜游者后,以哀戚的声音对他们说道。

6.92.36

मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।
किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ६.९२.३६ ॥

我的儿子以幻术欺骗林中的居民,在那里展示了某个被杀之物,称之为悉多。

6.92.37

तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥ ६.९२.३७ ॥

此事确实属实,我将做我自己所喜爱的事。我要毁灭那位依附于卑劣刹帝利的毗提诃女。

6.92.38

इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्।
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् ॥ ६.९२.३८ ॥

说完这话,他迅速在大臣面前握起宝剑。拔出那柄德行圆满、光耀如无垢天空的剑,

6.92.39

निष्पपात स वेगेन सभार्यः सचिवैर्वृतः।
रावणः पुत्रशोकेन भृशमाकुलचेतनः ॥ ६.९२.३९ ॥

他飞快地冲出,身边围着妻子与大臣。罗波那因丧子之痛,心神极度烦乱,

6.92.40

संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली।
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः ॥ ६.९२.४० ॥

他怒气冲冲,手持宝剑,突然朝毗提诃女所在之处走去。众人见罗刹前行,发出狮吼般的呼喊。

6.92.41

ऊचुश्चान्योन्यमालिङ्ग्य संक्रुद्धं प्रेक्ष्य राक्षसम्।
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ॥ ६.९२.४१ ॥

他们互相拥抱,见那愤怒的罗刹,说道:"今天这两位兄弟见到他,必将万分悲痛。"

6.92.42

लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः।
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ॥ ६.९२.४२ ॥

四方护世者都已被这位暴怒者所征服,其他许多敌人也在战斗中被击倒。

6.92.43

त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः।
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥ ६.९२.४३ ॥

罗波那夺取三界的珍宝而享用之。大地之上,无人在勇武与力量上能与他相比。

6.92.44

तेषां संजल्पमानानामशोकवनिकां गताम्।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥ ६.९२.४४ ॥

他们正在交谈之际,罗波那因愤怒而昏乱,冲向已前往无忧园的毗提诃。

6.92.45

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः।
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ६.९२.४५ ॥

虽有善意的朋友再三劝阻,极度愤怒的罗波那仍冲了上去,犹如天上的行星奔向罗诃尼。

6.92.46

मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ ६.९२.४६ ॥

被罗刹女看守着的无瑕的弥提罗公主,看见了手持良剑、满腔怒火的罗刹。

6.92.47

तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।
निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् ॥ ६.९२.४७ ॥

看见他手持利剑而来,遮那伽之女痛苦万分;朋友们再三劝阻,他却不肯回头。

6.92.48

सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्।
यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् ॥ ६.९२.४८ ॥

悲痛万分的悉多哀号道:“看,他怒不可遏,正亲自向我冲来。”

6.92.49

वधिष्यति सनाथां मामनाथामिव दुर्मतिः।
बहुशश्चोदयामास भर्तारं मामनुव्रताम् ॥ ६.९२.४९ ॥

这个恶意之徒会杀死我,仿佛我没有依靠,尽管我有丈夫;他多次逼迫我这个忠于丈夫的人。

6.92.50

भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया।
सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः ॥ ६.९२.५० ॥

「做我的妻子吧」——我必定已经拒绝了他;他无法接近我,显然已陷入绝望。

6.92.51

क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः।
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ॥ ६.९२.५१ ॥

被愤怒与迷惑所控,他显然想要杀我。或者,那两位人中之虎、兄弟罗摩与罗什曼那……

6.92.52

मन्निमित्तमनार्येण समरेऽद्य निपातितौ।
भैरवो हि महान् नादो राक्षसानां श्रुतो मया ॥ ६.९२.५२ ॥

因为我,那个卑劣之徒今天在战场上击倒了他们两人。我听到了罗刹们那可怖而巨大的吼声。

6.92.53

बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्।
अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ॥ ६.९२.५३ ॥

这里众多欢呼叫喊之人的喧嚣,对他们来说是可爱的。唉,可耻!正是因为我,这两位王子遭受了如此毁灭。

6.92.54

अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥ ६.९२.५४ ॥

或者,因丧子之痛,那个残忍、心怀恶念的罗刹,在未杀死罗摩与罗什曼那之前,就会毁灭我。

6.92.55

हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया।
यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता ॥ ६.९२.५५ ॥

我因心智浅陋,未听从哈奴曼的话;若我骑在他的背上,那段艰辛便无法由我克服。

6.92.56

नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती।
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ॥ ६.९२.५६ ॥

若我今日是坐在丈夫膝上的贞妇,便不会这样悲伤;但我想,考莎利雅的心将会碎裂。

6.92.57

एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि।
सा हि जन्म च बाल्यं च यौवनं च महात्मनः ॥ ६.९२.५७ ॥

当她这位独子之母在战场上听到儿子被毁灭的消息时,她将追忆那位伟大灵魂的出生、童年与青年。

6.92.58

धर्मकार्याणि रूपं च रुदती संस्मरिष्यति।
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ॥ ६.९२.५८ ॥

她将哭泣着追忆他的法行与容貌;儿子被杀后,她将绝望,行完祭祀后便失去知觉。

6.92.59

अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति।
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ॥ ६.९२.५९ ॥

她必定会望向火焰,或投身水中。驼背、邪恶、心怀罪念的曼særā,应当蒙羞!

6.92.60

यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते।
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ॥ ६.९२.६० ॥

因此,考莎利雅将遭受这份悲痛——这样看到苦修的弥提莉在哀哭时(……)。

6.92.61

रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्।
एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः ॥ ६.९२.६१ ॥

见她如失去月亮、被星辰所制的罗诃尼,此时他那有德而清净的大臣

6.92.62

सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्।
निवार्यमाणः सचिवैरिदं वचनमब्रवीत् ॥ ६.९२.६२ ॥

智者苏跋尔首,虽被群臣劝阻,仍对罗刹之最的罗波那说了这番话

6.92.63

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।
हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च ॥ ६.९२.६३ ॥

十首之王啊,你正是毗沙罗婆那的胞弟,怎么因愤怒弃绝法度,竟想杀害毗提诃之女?

6.92.64

वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा।
स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर ॥ ६.९२.६४ ॥

你精通吠陀之学、持守誓愿,并恪守自己的本分,英雄啊,罗刹之主,为何竟想杀害一个女子?

6.92.65

मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।
तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज ॥ ६.९२.६५ ॥

大王啊,请看那容貌端丽的弥提罗之女吧!与我们一起,在那场战斗中放下你的愤怒吧。

6.92.66

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ ६.९२.६६ ॥

今日便出发吧。在黑半月的第十四日做好准备,然后在新月之日,被军队环绕,为胜利而出征。

6.92.67

शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।
हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥ ६.९२.६७ ॥

你勇猛、睿智,乘坐上等战车,手持利剑,杀死十车王之子罗摩之后,便将获得弥提罗之女悉多。

6.92.68

स तद् दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः।
गृहं जगामाथ ततश्च वीर्यवान्
पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६.९२.६८ ॥

那个心术不正的罗波那接受了朋友所说的这番合乎正法的话,便回家去了;随后这位有威力的王,被朋友们簇拥着,又前往议事厅。