蚁垤《罗摩衍那》 · 篇 6.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.93.1
स प्रविश्य सभां राजा दीनः परमदुःखितः।
निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ ६.९३.१ ॥
国王悲伤而极度痛苦,走入议事厅,坐在主位上,像愤怒的狮子一样喘息。
6.93.2
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः।
रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥ ६.९३.२ ॥
摩诃婆罗的罗波那因失子而憔悴,合掌对所有主要将领说了这番话。
6.93.3
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।
निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥ ६.९३.३ ॥
愿你们各位被全部象军和马军环绕,并有车队与步兵装饰,出发吧。
6.93.4
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।
वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः ॥ ६.९३.४ ॥
在战场上包围独自一人的罗摩并杀死他,像雨季的云一样倾泻箭雨。
6.93.5
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे।
भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ६.९३.५ ॥
或者,我自己与你们一同,明天在大战中,当世人看着的时候,杀死身上被利箭射穿的罗摩。
6.93.6
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः।
निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः ॥ ६.९३.६ ॥
罗刹王的这番话传开后,那些罗刹乘着迅捷的战车,与各路军队一同出发了。
6.93.7
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्।
शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥ ६.९३.७ ॥
铁棒、双刃剑、箭矢、刀剑与战斧,所有致人死命的兵器,罗刹都向猴众掷去。
6.93.8
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः।
स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ॥ ६.९३.८ ॥
猴众也将树木与山峰投向罗刹。那场战斗极为可怖,一直延续到日出。
6.93.9
रक्षसां वानराणां च तुमुलः समपद्यत।
ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः ॥ ६.९३.९ ॥
罗刹与猴众之间爆发了巨大的喧嚣。他们以各式棍棒、长矛、刀剑与战斧相搏。
6.93.10
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः।
एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः ॥ ६.९३.१० ॥
于是猴众与罗刹在战场上彼此相击。战斗这样开始时,升起了一片奇异而巨大的尘埃。
6.93.11
रक्षसां वानराणां च शान्तं शोणितविस्रवैः।
मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः ॥ ६.९३.११ ॥
罗刹与猴众扬起的尘埃,被流淌的鲜血所平息。象与车成了它的两岸,箭矢成了其中的鱼,旗幡成了其中的树木。
6.93.12
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः।
ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ॥ ६.९३.१२ ॥
血河奔流,挟带着层层尸堆。此时猴众全都浸泡在血流之中。
6.93.13
ध्वजवर्मरथानश्वान् नानाप्रहरणानि च।
आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे ॥ ६.९३.१३ ॥
猴王们在战场上一次次跃起,将旗帜、铠甲、战车、战马以及各种兵器尽数摧毁。
6.93.14
केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः।
रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ॥ ६.९३.१४ ॥
猴子们用锋利的牙齿和指甲,撕扯罗刹的头发、耳朵、前额和鼻子。
6.93.15
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः।
अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ ६.९३.१५ ॥
战场上,猴中豪杰每人对一个罗刹便有百猴扑上,如群鸟扑向果实累累的树。
6.93.16
तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।
निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥ ६.९३.१६ ॥
那时,如山岳般的罗刹以沉重的铁棒、长矛、刀剑与斧钺,击杀了凶猛的猴兵。
6.93.17
राक्षसैर्वध्यमानानां वानराणां महाचमूः।
शरण्यं शरणं याता रामं दशरथात्मजम् ॥ ६.९३.१७ ॥
被罗刹屠戮的猴兵大军,投奔了值得依靠的十车王之子罗摩。
6.93.18
ततो रामो महातेजा धनुरादाय वीर्यवान्।
प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च ॥ ६.९३.१८ ॥
于是,威光赫赫、勇猛无比的罗摩拿起弓,冲入罗刹大军,降下一场箭雨。
6.93.19
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।
नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना ॥ ६.९३.१९ ॥
罗摩进入时,犹如云彩无法靠近天空中的太阳,极其可怕的敌人也无法靠近他,他以箭火焚烧着敌人。
6.93.20
कृतान्येव सुघोराणि रामेण रजनीचराः।
रणे रामस्य ददृशुः कर्माण्यसुकराणि ते ॥ ६.९३.२० ॥
夜行的罗刹在战场上看见了罗摩那极其可怕、难以做到的功业。
6.93.21
चालयन्तं महासैन्यं विधमन्तं महारथान्।
ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ ६.९३.२१ ॥
他们看不见罗摩,他震撼大军,驱散大车将;他就像穿行于林中的风。
6.93.22
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।
बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥ ६.९३.२२ ॥
他们看见军队被罗摩斩断、冲散、被箭焚烧、溃败并受兵器折磨,却不见那迅捷行动的罗摩。
6.93.23
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।
इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ ६.९३.२३ ॥
他们看不见击打敌身的罗怙婆,正如众生看不见安住于感官对象之中的万物之我。
6.93.24
एष हन्ति गजानीकमेष हन्ति महारथान्।
एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ॥ ६.९३.२४ ॥
此人击杀象军;此人击杀大车将;此人以锐利的箭射杀步兵与骑兵。
6.93.25
अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु ॥ ६.९३.२५ ॥
他们愤怒地相互攻击,因为他们与罗摩(Rāghava)相似。
6.93.26
न ते ददृशिरे रामं दहन्तमपि वाहिनीम्।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥ ६.९३.२६ ॥
他们虽被焚烧军队,却看不见罗摩;被这位大德的乾闼婆至高神兵所迷惑。
6.93.27
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।
पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ ६.९३.२७ ॥
罗刹在战场上看到千个罗摩;而在那场大战中,他们又只看见一位迦古特斯塔(罗摩)。
6.93.28
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।
अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ ६.९३.२८ ॥
他们看见大德者弓上旋转的金色弓端,如火轮一般;却看不见罗摩(Rāghava)。
6.93.29
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्।
ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ॥ ६.९३.२९ ॥
其身为轮毂,其精为火焰,其辐条与轮形弓;弓弦之响与拍掌之声即其吼声,它以光辉、智慧与德性而闪耀。
6.93.30
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।
ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥ ६.९३.३० ॥
在战场上击杀罗刹,在神兵弓弦的尽头,他们看见那罗摩之轮,如众生看见时间之轮。
6.93.31
अनीकं दशसाहस्रं रथानां वातरंहसाम्।
अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥ ६.९३.३१ ॥
一万辆疾如风的战车,以及一万八千头敏捷的战象。
6.93.32
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्।
पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥ ६.९३.३२ ॥
一万四千名骑兵,以及罗刹的二十万步兵。
6.93.33
दिवसस्याष्टभागेन शरैरग्निशिखोपमैः।
हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ६.९३.३३ ॥
白昼的八分之一时间里,罗摩独自以如火焰般的箭矢,杀死了能随意变化形貌的罗刹。
6.93.34
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः।
अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥ ६.९३.३४ ॥
马匹被杀,战车被毁,士气低落,旗帜倒折,残存的夜行者们奔向楞伽城。
6.93.35
हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम्।
आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः ॥ ६.९३.३५ ॥
象群、步兵与马匹尽皆倒毙,那片战场竟如愤怒的大德楼陀罗的游戏之地。
6.93.36
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
साधु साध्विति रामस्य तत् कर्म समपूजयन् ॥ ६.९३.३६ ॥
于是诸天与乾闼婆、悉陀及大仙齐声赞叹:"善哉!善哉!",并盛赞罗摩的这一功绩。
6.93.37
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।
विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥ ६.९३.३७ ॥
此时,心地正直的罗摩对近旁的须羯里婆、毗భीषण以及猴子哈奴曼说道。
6.93.38
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च।
एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ ६.९३.३८ ॥
还有耆婆、猴中之最的摩因陀,以及双毗陀;这神圣的兵器之力,是我的,还是三眼神(湿婆)的。
6.93.39
निहत्य तां राक्षसराजवाहिनीं
रामस्तदा शक्रसमो महात्मा।
अस्त्रेषु शस्त्रेषु जितक्लमश्च
संस्तूयते देवगणैः प्रहृष्टैः ॥ ६.९३.३९ ॥
摧毁了罗刹王的那支军队之后,与因陀罗相等的大心罗摩,在兵器之战中不知疲倦,正受到欢喜的诸神众的赞颂。