Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.94.1

तानि नागसहस्राणि सारोहाणि च वाजिनाम्।
रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ ६.९४.१ ॥

那数千头象及其御者,数千匹马,以及数千辆火焰色、带旗幡的战车。

6.94.2

राक्षसानां सहस्राणि गदापरिघयोधिनाम्।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ ६.९४.२ ॥

数千罗刹,持棍棒与铁杵作战,饰以金色旗幡,皆是勇士,能随意变化形貌。

6.94.3

निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ६.९४.३ ॥

这些被罗波那射出的、饰以精炼金饰的炽热箭矢所杀,射者是行事毫不费力的罗摩。

6.94.4

दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः।
राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ६.९४.४ ॥

目睹并听闻此事,心惊胆战的残存夜行者与罗刹女聚集一处,悲苦而忧虑缠身。

6.94.5

विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।
राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥ ६.९४.५ ॥

丧夫、丧子、丧亲的罗刹女们哭喊着聚集一处,为悲痛所苦,哀号不止。

6.94.6

कथं शूर्पणखा वृद्धा कराला निर्णतोदरी।
आससाद वने रामं कंदर्पसमरूपिणम् ॥ ६.९४.६ ॥

年老、模样可怖、肚腹凹陷的首波那卡,如何在森林中接近那容貌如爱神迦摩的罗摩?

6.94.7

सुकुमारं महासत्त्वं सर्वभूतहिते रतम्।
तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता ॥ ६.९४.७ ॥

她看见他温柔、力量强大、致力于众生之福,这个相貌丑陋、为世人所应诛杀的罗刹女便极度渴望他。

6.94.8

कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्।
सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ६.९४.८ ॥

这个毫无美德、面容丑陋的罗刹女,怎么会渴望有德、光辉盛大、面容俊美的罗摩呢?

6.94.9

जनस्यास्याल्पभाग्यत्वाद् वलिनी श्वेतमूर्धजा।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ ६.९४.९ ॥

由于这些人的福分微薄,那个满脸皱纹、白发苍苍的女子做出了不应做的、可笑的、为全世界所鄙视的事。

6.94.10

राक्षसानां विनाशाय दूषणस्य खरस्य च।
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥ ६.९४.१० ॥

为了罗刹们的毁灭,为了杜savana与卡罗的毁灭,那位形貌无比的女子冒犯了罗怙之后。

6.94.11

तन्निमित्तमिदं वैरं रावणेन कृतं महत्।
वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा ॥ ६.९४.११ ॥

正因此故,罗波那造成了这场大仇;为了毁灭,那位悉多被十首罗刹掳来。

6.94.12

न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।
बद्धं बलवता वैरमक्षयं राघवेण च ॥ ६.९४.१२ ॥

十首罗刹也不能得到遮那竭之女悉多;被强大的罗怙之后所结的仇恨是不会消失的。

6.94.13

वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्।
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ ६.९४.१३ ॥

看那想要毗提诃的罗刹毗罗陀,被罗摩一人所杀——这已足以为证。

6.94.14

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ६.९४.१४ ॥

在人站地方,十四千名行事凶暴的罗刹被如火焰般的箭矢所杀。

6.94.15

खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा।
शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ ६.९४.१५ ॥

战中,驴的哈罗、杜沙那与三头罗刹皆被如太阳般的箭矢所杀——这已足以为证。

6.94.16

हतो योजनबाहुश्च कबन्धो रुधिराशनः।
क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम् ॥ ६.९४.१६ ॥

身长一由旬之臂、嗜饮血的迦般陀,怒吼之际也被杀死——这已足以为证。

6.94.17

जघान बलिनं रामः सहस्रनयनात्मजम्।
वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम् ॥ ६.९४.१७ ॥

罗摩杀死了千眼神(因陀罗)之子、身如须弥山的勇猛婆梨——这已足以为证。

6.94.18

ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः।
सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम् ॥ ६.९४.१८ ॥

住在仙人山、心灰意冷的须羯哩婆,被罗摩扶助复得王位——这已足以为证。

6.94.19

धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।
युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते ॥ ६.९४.१९ ॥

维毗沙那所说之言,合于法与利,有益于一切罗刹,本是恰当的;然而他因迷惑,不喜欢这些话。

6.94.20

विभीषणवचः कुर्याद् यदि स्म धनदानुजः।
श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति ॥ ६.९४.२० ॥

若财神(俱毗罗)之弟听从维毗沙那的劝告,这座因悲痛而凄苦的楞伽城就不会变成焚尸之地。

6.94.21

कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्।
अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा।
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥ ६.९४.२१ ॥

虽听说威力强大的俱布伽尔那被罗怙族(罗摩)所杀,又听说那时难以抵挡的阿提迦耶被罗什曼那所杀,罗波那仍未察觉他所钟爱的儿子因陀罗耆特的处境。

6.94.22

मम पुत्रो मम भ्राता मम भर्ता रणे हतः।
इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले ॥ ६.९४.२२ ॥

“我的儿子、我的兄弟、我的丈夫在战场上被杀”——这样的哭声在每一户罗刹女的家中都能听到。

6.94.23

रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः।
रणे रामेण शूरेण हताश्चापि पदातयः ॥ ६.९४.२३ ॥

到处有成千上万的战车、战马和战象被摧毁;在战场上,连步兵也被英勇的罗摩所杀。

6.94.24

रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ ६.९४.२४ ॥

无论是楼陀罗、毗湿奴,大因陀罗,百祭因陀罗,还是死神本尊——以罗摩的形象出现,正是他们在杀害我们。

6.94.25

हतप्रवीरा रामेण निराशा जीविते वयम्।
अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे ॥ ६.९४.२५ ॥

我们的英雄被罗摩所杀;我们对生命已绝望。看不到恐惧的尽头,无所依靠,我们悲泣哀号。

6.94.26

रामहस्ताद् दशग्रीवः शूरो दत्तमहावरः।
इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते ॥ ६.९४.२६ ॥

罗摩之手降临,英勇的十首罗波那——曾得大恩赐者——心中生起这极可怕的恐惧,而他却未察觉。

6.94.27

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः।
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥ ६.९४.२७ ॥

无论天神、乾闼婆、毗舍遮还是罗刹,都无法在战场上从罗摩的打击中救出他。

6.94.28

उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।
कथयन्ति हि रामेण रावणस्य निबर्हणम् ॥ ६.९४.२८ ॥

在一场又一场的战斗中,罗波那也显现出种种凶兆;它们确实预示着罗波那将被罗摩所毁灭。

6.94.29

पितामहेन प्रीतेन देवदानवराक्षसैः।
रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम् ॥ ६.९४.२९ ॥

慈悲的祖父(梵天)赐予罗波那对天神、檀那婆与罗刹无所畏惧的恩典;但对人类的恩典,他并未祈求。

6.94.30

तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्।
जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥ ६.९४.३० ॥

我想,这来自人类的恐惧无疑已经降临,致命而可怕,对罗刹们,也对罗波那。

6.94.31

पीड्यमानास्तु बलिना वरदानेन रक्षसा।
दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥ ६.९४.३१ ॥

诸天神被获得恩赐(varadāna)的强大罗刹所压迫,便以炽烈的苦行礼拜祖父(梵天)。

6.94.32

देवतानां हितार्थाय महात्मा वै पितामहः।
उवाच देवतास्तुष्ट इदं सर्वा महद्वचः ॥ ६.९४.३२ ॥

为了诸神的利益,心胸宽广的祖父(梵天)心满意足,向所有神灵说出了这番重要的话。

6.94.33

अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः।
भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ ६.९४.३३ ॥

从今日起,所有的檀那婆与罗刹都将被恐惧所困,永远在三界中流浪。

6.94.34

दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।
वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः ॥ ६.९४.३४ ॥

于是,以因陀罗为首的诸神聚集起来,使以牛旗为标识、摧毁三城的大天(摩诃提婆)心生欢喜。

6.94.35

प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत्।
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥ ६.९४.३५ ॥

欢喜的摩诃提婆对诸神说:“为了你们的利益,将会诞生一位女子,她将带来罗刹的毁灭。”

6.94.36

एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा।
भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान् ॥ ६.९४.३६ ॥

此女由诸神派遣,将如往昔饥饿吞噬檀那婆一般,与罗婆那一同吞噬我们所有的罗刹。

6.94.37

रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।
अयं निष्टानको घोरः शोकेन समभिप्लुतः ॥ ६.९४.३७ ॥

这场由桀骜、恶念的罗波那所致的可怕哀号,被悲痛彻底淹没。

6.94.38

तं न पश्यामहे लोके यो नः शरणदो भवेत्।
राघवेणोपसृष्टानां कालेनेव युगक्षये ॥ ६.९४.३८ ॥

世上我们看不到能给予庇护的人;被罗伽婆所击倒的我们,就像在劫末被时间吞噬的众生。

6.94.39

नास्ति नः शरणं किंचिद् भये महति तिष्ठताम्।
दावाग्निवेष्टितानां हि करेणूनां यथा वने ॥ ६.९४.३९ ॥

我们身处巨大的恐惧之中,毫无庇护之所,就像森林里被野火包围的母象一样。

6.94.40

प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना।
यत एव भयं दृष्टं तमेव शरणं गतः ॥ ६.९४.४० ॥

大德的补罗私多之子做了及时之事:一见危险,便投奔于他。

6.94.41

इतीव सर्वा रजनीचरस्त्रियः
परस्परं सम्परिरभ्य बाहुभिः।
विषेदुरार्तातिभयाभिपीडिता
विनेदुरुच्चैश्च तदा सुदारुणम् ॥ ६.९४.४१ ॥

于是,所有夜行者的妇女们用手臂紧紧相拥,被悲痛与巨大的恐惧所折磨,纷纷瘫倒,随即放声大哭,声音极为凄厉。