ヴァールミーキのラーマーヤナ · サルガ 6.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.97.1
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।
सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ ६.९७.१ ॥
大戦で軍勢が速やかに打ち倒されたとき、二人は大いなる暑さで水が完全に涸れた湖のようになった。
6.97.2
स्वबलस्य तु घातेन विरूपाक्षवधेन च।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ ६.९७.२ ॥
自軍の殺戮とヴィルーパークシャの死により、羅刹王ラーヴァナは二倍の怒りに燃えた。
6.97.3
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः।
बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम् ॥ ६.९७.३ ॥
自軍が減り猿の戦士たちに殺されるのを見て、戦いの中で彼に苦悩が生じ、運命の逆転を見た。
6.97.4
उवाच च समीपस्थं महोदरमनन्तरम्।
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ६.९७.४ ॥
そして傍らに立つマホーダラに言った。「大いなる腕の者よ、今この時、我が勝利の望みはお前にかかっている。」
6.97.5
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्।
भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥ ६.९७.५ ॥
勇士よ、敵軍を打ち砕け。今日こそお前の武勇を示せ。主君の糧への恩を返す時だ。よく戦え。
6.97.6
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।
प्रविवेशारिसेनां स पतङ्ग इव पावकम् ॥ ६.९७.६ ॥
そう言われた羅刹王マホーダラは「そのとおりに」と答え、蛾が火に飛び込むように敵軍へと突入した。
6.97.7
ततः स कदनं चक्रे वानराणां महाबलः।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ६.९७.७ ॥
そこで、その大力の者は、主君の命とみずからの武勇に駆り立てられて、猿たちを殺戮した。その輝かしき戦士であった。
6.97.8
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।
प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान् ॥ ६.९७.८ ॥
勇猛な猿たちは巨大な岩を持ち上げ、あの恐ろしい敵軍の中に突入して、すべての羅刹を打ち倒した。
6.97.9
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः।
चिच्छेद पाणिपादोरु वानराणां महाहवे ॥ ६.९७.९ ॥
マハーダラは激怒し、黄金の飾りを付けた矢で、あの大戦で猿たちの手と足と腿を断ち切った。
6.97.10
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।
दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥ ६.९७.१० ॥
そのとき、羅刹たちに激しく苦しめられた猿たちは皆、十方へ逃げ散った。ある者はスグリーヴァのもとに身を寄せた。
6.97.11
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ६.९७.११ ॥
猿の大軍が戦で散り散りになったのを見て、スグリーヴァはすぐさまマハーダラに襲いかかった。
6.97.12
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ६.९७.१२ ॥
輝くサルの王は、山のような巨大で恐ろしい岩を持ち上げ、彼を殺すために投げつけた。
6.97.13
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ ६.९७.१३ ॥
突然自分に落ちかかる岩を見て、マホーダラは動じず、矢でその近づき難い岩を貫いた。
6.97.14
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।
निपपात तदा भूमौ गृध्रचक्रमिवाकुलम् ॥ ६.९७.१४ ॥
羅刹の矢の雨に断ち割られたその岩は千片に砕け、乱れた禿鷹の群れのように地に落ちた。
6.97.15
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।
सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा ॥ ६.९७.१५ ॥
その岩が砕けたのを見て、スグリーヴァは怒りに気を失わんばかりになり、沙羅樹を引き抜いて投げつけた。羅刹はそれを幾つにも断ち切った。
6.97.16
शरैश्च विददारैनं शूरः परबलार्दनः।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ ६.९७.१६ ॥
敵軍を砕くその勇士は矢で彼をも貫いた。やがて激怒して、地に落ちた鉄の棍棒を見た。
6.97.17
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।
परिघेणोग्रवेगेन जघानास्य हयोत्तमान् ॥ ६.९७.१७ ॥
その輝く棍棒を振り回して彼に見せつけ、猛烈な勢いでその同じ棍棒により彼の最良の馬を打ち倒した。
6.97.18
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्।
गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥ ६.९७.१८ ॥
馬の斃れた大戦車から、その勇士は飛び降りて棍棒を握った。すると激怒した羅刹マホーダラは、ガダー棍棒を手に取った。
6.97.19
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ ६.९७.१९ ॥
鉄の棍棒と槍を手にした二人の勇士は戦場で相まみえ、雄牛のように吼え、稲妻を伴う雲のようであった。
6.97.20
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ ६.९७.२० ॥
すると怒った夜の徘徊者マホーダラは、燃え盛り太陽のように輝く棍棒をスグリーヴァに投げつけた。
6.97.21
गदां तां सुमहाघोरामापतन्तीं महाबलः।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥ ६.९७.२१ ॥
自分に降りかかる、極めて恐ろしい棍棒を見て、怒りに目を赤く染めた大力のスグリーヴァは、大戦においてそれを振りかざした。
6.97.22
आजघान गदां तस्य परिघेण हरीश्वरः।
पपात तरसा भिन्नः परिघस्तस्य भूतले ॥ ६.९७.२२ ॥
猿の王は鉄の棍棒で彼の棍棒を打った。激しく砕けた鉄の棍棒は地面に落ちた。
6.97.23
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ ६.९७.२३ ॥
すると輝かしいスグリーヴァは大地から鉄の杵を拾い上げた。恐ろしく、全体が金で飾られていた。
6.97.24
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्।
भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले ॥ ६.९७.२४ ॥
彼はそれを振り上げて投げつけた。相手もまた彼に向かって棍棒を投げつけた。二つの武器はぶつかり合って砕け、二人の戦士はともに地面に倒れた。
6.97.25
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ ६.९७.२५ ॥
そして武器が折れると、二人は拳で組み合った。輝きと力に満ち、燃え上がる二つの火のようであった。
6.97.26
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः।
तलैश्चान्योन्यमासाद्य पेततुश्च महीतले ॥ ६.९७.२६ ॥
二人は互いに何度も打ち合い、吠えた。掌で組み合ううちに、二人とも大地に倒れた。
6.97.27
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ ६.९७.२७ ॥
そのとき二人の勇士はすぐに跳ね起き、互いに打ち合った。腕で相手を投げ合い、二人とも不敗であった。
6.97.28
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ।
आजहार तदा खड्गमदूरपरिवर्तिनम् ॥ ६.९७.२८ ॥
敵を苦しめる二人の勇士は、素手の格闘に疲れ果てた。そのとき、近くで舞っていた剣を一人が掴んだ。
6.97.29
राक्षसश्चर्मणा सार्धं महावेगो महोदरः।
तथैव च महाखड्गं चर्मणा पतितं सह।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ ६.९७.२९ ॥
速さに優れた羅刹マハーダラは盾を持って。同じく盾とともに落ちた大剣を、猿の中の最上の者スグリーヴァが、さらに素早くつかみ取った。
6.97.30
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्।
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ ६.९७.३० ॥
そのとき怒りに全身を支配された二人は、吠えながら剣を振り上げて、戦いに歓喜し武器に長けた身で互いに襲いかかった。
6.97.31
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ६.९७.३१ ॥
両者は激しく怒り、勝利に心を定めて、すばやく互いの周りを右回りに回った。
6.97.32
स तु शूरो महावेगो वीर्यश्लाघी महोदरः।
महावर्मणि तं खड्गं पातयामास दुर्मतिः ॥ ६.९७.३२ ॥
勇猛で非常に素早く、己の武勇を誇るマホーダラは、悪しき心で剣を大鎧の上へ振り下ろした。
6.97.33
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।
जहार सशिरस्त्राणं कुण्डलोपगतं शिरः ॥ ६.९७.३३ ॥
猿の象王は、敵の剣が絡んだところを己の剣で引き抜き、兜と耳飾りのついたその首を切り落とした。
6.97.34
निकृत्तशिरसस्तस्य पतितस्य महीतले।
तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते ॥ ६.९७.३४ ॥
首を断たれて地に倒れた彼を見ると、羅刹王の軍勢はそこにもう見えなくなった。
6.97.35
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ६.९७.३५ ॥
彼を殺すと、ハリ(ハヌマーン)は猿たちとともに喜びの雄叫びを上げた。十頭のダシャグリーヴァは怒り、ラーガヴァは喜びに輝いた。
6.97.36
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ६.९७.३६ ॥
顔を曇らせ、心を沈ませ、恐怖に打ちのめされた羅刹たちは、皆そこで逃げ散った。
6.97.37
महोदरं तं विनिपात्य भूमौ
महागिरेः कीर्णमिवैकदेशम्।
सूर्यात्मजस्तत्र रराज लक्ष्म्या
सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ६.९७.३७ ॥
彼はマハーodaraを地に打ち倒した。その身は大山の崩れた一部のように横たわった。そこで太陽の子スグリーヴァは、自らの光輝によって侵しがたい太陽のように、威光に輝いた。
6.97.38
अथ विजयमवाप्य वानरेन्द्रः
समरमुखे सुरसिद्धयक्षसङ्घैः।
अवनितलगतैश्च भूतसङ्घै-
र्हरुषसमाकुलितैर्निरीक्ष्यमाणः ॥ ६.९७.३८ ॥
さて勝利を得た猴王は、戦場の前線で、神々・シッダ・ヤクシャの群れ、そして大地に立つ生き物の群れに、喜びに震えながら見つめられていた。