ヴァールミーキのラーマーヤナ · サルガ 6.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.98.1
महोदरे तु निहते महापार्श्वो महाबलः।
सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः ॥ ६.९८.१ ॥
マホーダラが殺されると、大力のマハーパールシュヴァはスグリーヴァを見やり、怒りに目を赤く染めた。
6.98.2
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः।
स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः ॥ ६.९८.२ ॥
彼は矢でアンガダの恐ろしい軍勢をかき乱し、その羅刹は猿族の長たちの頭を狙った。
6.98.3
पातयामास कायेभ्यः फलं वृन्तादिवानिलः।
केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः ॥ ६.९८.३ ॥
風が枝から果実を落とすように、彼は体から首を落とし、その羅刹は幾人かの腕を矢で断ち切った。
6.98.4
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्।
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥ ६.९८.४ ॥
激怒して彼は幾人かの猿の脇腹を打った。マハーパールシュヴァの矢の雨に苦しめられた猿たちは……
6.98.5
विषादविमुखाः सर्वे बभूवुर्गतचेतसः।
निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ ६.९८.५ ॥
猿たちは皆、悲嘆に背を向け、意識を失ったようになった。羅刹に苦しめられ動揺する軍勢のことを聞いて、アンガダは……
6.98.6
वेगं चक्रे महावेगः समुद्र इव पर्वसु।
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥ ६.९८.६ ॥
満月に海が荒れ立つように、大いなる勢いのアンガダは突き進んだ。太陽の光のように輝く鉄の棍棒を手に取り……
6.98.7
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्।
स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥ ६.९८.७ ॥
戦いで猿の中の最良の者はマハーパールシュヴァを打ち倒した。その一撃でマハーパールシュヴァは意識を失った。
6.98.8
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि।
तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः ॥ ६.९८.८ ॥
御者とともに彼は戦車から意識を失って地面に落ちた。輝かしい熊の王は青い黛の山のように見えた。
6.98.9
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ॥ ६.९८.९ ॥
その大いなる勇者は、雲のような己の群れから飛び出した。怒りに駆られ、山の頂のような巨大な岩を掴んだ。
6.98.10
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्।
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ॥ ६.९८.१० ॥
彼は勢いよく馬を打ち倒し、その戦車も砕いた。一瞬で意識を取り戻した大力のマハーパールシュヴァは……
6.98.11
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ६.९८.११ ॥
彼は再びアンガダを多くの矢で射抜き、ジャーンバヴァーンを三本の矢で胸の中央に射た。
6.98.12
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः।
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ॥ ६.९८.१२ ॥
彼は熊の王とガヴァークシャを多くの矢で打った。ガヴァークシャとジャーンバヴァーンが矢に苦しめられているのを見て……
6.98.13
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः।
तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम् ॥ ६.९८.१३ ॥
怒りに我を失ったアンガダは、恐ろしい鉄の棍棒を掴んだ。怒りに目を赤く燃やすその羅刹の鉄棍を、アンガダは奪い取った。
6.98.14
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्।
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत् ॥ ६.९८.१४ ॥
遠くにあった、太陽の光のように輝く羅刹の棍棒を両腕でしっかりと掴み、勢いよく振り回し。
6.98.15
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः।
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ ६.९८.१५ ॥
ヴァーリの息子は、マハーパールシュヴァを殺すために棍棒を投げつけた。その強者が投げた棍棒は、羅刹の上に落ちた。
6.98.16
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्।
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ ६.९८.१६ ॥
羅刹の手から矢のついた弓を叩き落とし、頭の兜も落とした。素早く近づいた勇猛なヴァーリの息子がそうしたのである。
6.98.17
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले।
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥ ६.९८.१७ ॥
激怒したヴァーリの息子は、耳飾りのついた彼の耳の付け根を掌で打った。だが、大いに速く大いに輝くマハーパールシュヴァもまた怒り狂った。
6.98.18
करेणैकेन जग्राह सुमहान्तं परश्वधम्।
तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ ६.९८.१८ ॥
片手で、非常に大きな戦斧を掴んだ。油で磨かれ、汚れなく、岩の精髄から作られた堅牢なその斧を。
6.98.19
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्।
तेन वामांसफलके भृशं प्रत्यवपातितम् ॥ ६.९८.१९ ॥
非常に激怒した羅刹はヴァーリの息子に襲いかかり、その斧で左肩の板に強く打たれた。
6.98.20
अङ्गदो मोक्षयामास सरोषः स परश्वधम्।
स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ॥ ६.९८.२० ॥
怒ったアンガダは斧をもぎ取った。その英雄アンガダは自分の拳を雷杵のように固くした。
6.98.21
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः।
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥ ६.९८.२१ ॥
激怒したアンガダは、父に匹敵する勇猛さで急所を知り、羅刹の胸のそば、心臓をめがけて拳を引いた。
6.98.22
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्।
तेन तस्य निपातेन राक्षसस्य महामृधे ॥ ६.९८.२२ ॥
インドラの雷杵のような一撃の拳で彼は打った。その一撃によって、あの大戦で羅刹の——
6.98.23
पफाल हृदयं चास्य स पपात हतो भुवि।
तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे ॥ ६.९८.२३ ॥
彼の心臓は裂け、彼は殺されて地に倒れた。彼が地上に殺されて横たわると、その軍勢は大いに動揺した。
6.98.24
अभवच्च महान् क्रोधः समरे रावणस्य तु।
वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः ॥ ६.९८.२४ ॥
戦いの中でラーヴァナに大きな怒りが湧き、歓喜した猿たちは非常に大きな獅子吼をあげた。
6.98.25
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्।
सहेन्द्रेणेव देवानां नादः समभवन्महान् ॥ ६.९८.२५ ॥
音で楼閣と城門をそなえたラーンカーを裂くかのように、インドラとともに神々の大きな轟きが起こった。
6.98.26
अथेन्द्रशत्रुस्त्रिदशालयानां
वनौकसां चैव महाप्रणादम्।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे ॥ ६.९८.२६ ॥
そこでインドラの敵、羅刹王は、天界の住人と森の住むヴァーナラたちの大きな叫びを聞き、怒って再び戦いに向き直って立ち構えた。