Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.10.1

अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ ७.१०.१ ॥

于是罗摩问仙人:婆罗门啊,你那些大力的兄弟当时在林中修行了怎样的苦行?

7.10.2

अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् ।
तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ ७.१०.२ ॥

于是心中欢喜的阿伽斯提对罗摩说:那里,你的兄弟们各自投入了各种法度之中。

7.10.3

कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ ७.१०.३ ॥

此后,俱缚羅常常警醒,安住于法道;在夏季,他站在周围燃烧的五火之中修行苦行。

7.10.4

मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ७.१०.४ ॥

雨季时,被云中之水浸透,他修习英雄坐姿;而在寒冷季节,他总是在水中寻求庇护。

7.10.5

एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ७.१०.५ ॥

就这样,他在法中精进、安住于正道,十千年过去了。

7.10.6

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ७.१०.६ ॥

维毗沙那心怀正法、常行法道、清净无染,单足而立,历时五千年。

7.10.7

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७.१०.७ ॥

他的誓愿圆满之时,天女群起而舞,花雨纷纷而下,连诸天神也为之震动。

7.10.8

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ७.१०.८ ॥

五千年间,他始终凝视着太阳;头与双臂高举而立,心念专注于诵读吠陀。

7.10.9

एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।
दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ७.१०.९ ॥

如此,毗भीषण亦如身居天上的南丹那园林一般,这位心志节制之人度过了一万年。

7.10.10

दशवर्षसहस्रं तु निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ ७.१०.१० ॥

十首之王罗波那绝食一万年;当千年圆满之时,他将自己的头颅投入火中献祭。

7.10.11

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ७.१०.११ ॥

如此,他经历了数千年,他的九个头颅已投入圣火之中。

7.10.12

अथ वर्षसहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ ७.१०.१२ ॥

于是第十个千年,当十颈之王正欲斩下第十颗头颅时,祖父(梵天)来到了那里。

7.10.13

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ॥ ७.१०.१३ ॥

祖父梵天与诸神一同来到那里,十分欢喜地说:“十首罗刹啊,我对你感到满意。”

7.10.14

शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः ।
कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ ७.१०.१४ ॥

“精通法者啊,快选择你所愿望的恩赐。今天我该满足你哪一个愿望?你的苦修不会白费。”

7.10.15

अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ ७.१०.१५ ॥

于是十首罗刹心中欢喜,低头向天神行礼,以因喜悦而哽咽的声音说道。

7.10.16

भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ ७.१०.१६ ॥

“尊贵的主啊,众生永远只怕死亡,别无他惧。没有与死亡相等的敌人;因此我请求不死。”

7.10.17

एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ ७.१०.१७ ॥

梵天听了这番话,对十首罗刹说:“你不能获得完全的不死;请向我求别的恩赐吧。”

7.10.18

एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ ७.१०.१८ ॥

罗摩啊,创造世界的梵天如此说后,十首罗刹合掌在他面前说道。

7.10.19

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।
अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ ७.१०.१९ ॥

万物之主啊,我不会被金翅鸟、龙、夜叉、提婆、檀那婆、罗刹所杀,也不会被诸神所杀,永恒者啊。

7.10.20

नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ ७.१०.२० ॥

受众神敬拜者啊,我对其他众生毫不挂心;我视人类等众生如草芥。

7.10.21

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं देवः सह देवैः पितामहः ॥ ७.१०.२१ ॥

罗刹十首如此说完,正义的神祖梵天与诸神一同说出了这番话。

7.10.22

भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ ७.१०.२२ ॥

罗刹中的英杰啊,你的话会如此实现。罗摩啊,神祖对十首王说完这番话后……

7.10.23

शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ ७.१०.२३ ॥

请听:我因你而欢喜,再赐你一个吉祥的恩惠。无过者啊,你先前在火中供奉的那些头颅,

7.10.24

पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ ७.१०.२४ ॥

它们将再次属于你,罗刹啊。温和者啊,我在此赐你另一个难以获得的恩惠。

7.10.25

छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।
भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥ ७.१०.२५ ॥

你的形貌将随你的意愿、随你心中所想而成,毫无疑问;以我的恩赐,罗刹啊,必定如此。

7.10.26

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।
अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥ ७.१०.२६ ॥

祖父如此说完,那些献入火中的罗刹十首王之头又重新站立起来。

7.10.27

एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।
विभीषणमथोवाच वाक्यं लोकपितामहः ॥ ७.१०.२७ ॥

罗摩啊,对十首王如此说完,世界的祖父随即向毗跋纱说了这些话。

7.10.28

विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।
परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥ ७.१०.२८ ॥

毗跋纱啊,我的孩子,我因你与法相应的智慧而十分欢喜。善于持誓的正法之人啊,请选择一个恩赐吧。

7.10.29

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ ७.१०.२९ ॥

法心的毗跋纱合掌说出这些话——他始终具备一切德行,如月亮具有光芒。

7.10.30

भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् ।
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ ७.१०.३० ॥

世尊啊,既然世界之师您亲自对我欢喜,我便已圆满。若您欢喜地要赐我恩惠,善持誓者啊,请听我说。

7.10.31

परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।
अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ७.१०.३१ ॥

尊贵的大神啊,即使我陷入极大的困厄,愿我的心仍坚守法(dharma);愿未经传授的梵天神箭自然在我心中显现。

7.10.32

या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।
सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ ७.१०.३२ ॥

无论我在各个修行阶段中生出怎样的心念,愿它都归于正法;愿我守护的正是这正法。

7.10.33

एष मे परमोदार वरः परमको मतः ।
नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥ ७.१०.३३ ॥

至仁至厚的大神啊,这便是我认为最殊胜的恩赐;因为对于热爱正法的人,世上没有难得之物。

7.10.34

पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ ७.१०.३४ ॥

于是生主欢喜,对毗缚输那说:孩子啊,你既然坚守正法,此事也必将如此实现。

7.10.35

यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ७.१०.३५ ॥

灭敌者啊,你虽生于罗刹之胎,心却不趋向非法,因此我赐予你不死之身。

7.10.36

इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥ ७.१०.३६ ॥

说完这话,当生主准备赐予俱卢迦尔那恩惠时,诸天都合掌对生主说道。

7.10.37

न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ७.१०.३७ ॥

暂且不要赐予鸠婆迦尔那恩惠。您知道这个恶念之人如何惊扰诸界。

7.10.38

नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश ।
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ७.१०.३८ ॥

在难陀园中,此人吞噬了七位天女和因陀罗的十位随从。梵天啊,他同样也吞噬了仙人和凡人。

7.10.39

अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।
तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ७.१०.३९ ॥

这个罗刹在未得恩惠之前所做的事,此人若得了恩惠,便会吞噬三界。

7.10.40

वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ ।
लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥ ७.१०.४० ॥

无量光明者啊,请以赐恩为名,使他陷入迷惑。如此,诸界将得安宁,而他也将堕落。

7.10.41

एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः ।
चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ॥ ७.१०.४१ ॥

众神如此请求,莲花所生的梵天沉思起来。他一思念,女神萨罗室伐蒂便来到他的身旁。

7.10.42

प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।
इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ ७.१०.४२ ॥

萨罗室伐蒂合掌立于他身旁,说道:"神啊,我已来到。我该做什么呢?"

7.10.43

प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।
वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ७.१०.४३ ॥

已到来的娑罗室伐底对她说:“语女啊,你要成为罗刹王的言语,那是诸天所希望的。”

7.10.44

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।
कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ७.१०.४४ ॥

她说了“就这样吧”,便进入了。之后,生主说:“大臂的俱卢罗,你想要什么恩赐,就请选择吧。”

7.10.45

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ७.१०.४५ ॥

俱卢罗听到这些话后说:“神中之神啊,我所希望的,是长久地沉睡许多年。”

7.10.46

एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।
देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ७.१०.४६ ॥

梵天对他说“就这样吧”,便与诸天一同离去;女神娑罗室伐底也再次离开了那罗刹。

7.10.47

ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।
विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥ ७.१०.४७ ॥

当诸天与梵天一同升入天空后,他从娑罗室伐底的控制中解脱,重新恢复了自己的意识。

7.10.48

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।
ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ७.१०.४८ ॥

然而邪恶的俱卢罗忧伤地思索:“今天我的口中怎么会说出这样的话?”

7.10.49

अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः ।
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ७.१०.४९ ॥

我想那时到来的诸神迷惑了我。于是,所有获得恩赐、光辉灿烂的兄弟们前往沉摩多迦林,在那里快乐地居住。