蚁垤《罗摩衍那》 · 篇 7.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.103.1
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ॥ ७.१०३.१ ॥
有一次,罗摩坚守法度之时,时间(迦罗)化作苦行者来到王宫门前。
7.103.2
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।
मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ॥ ७.१०३.२ ॥
他对坚定而有名望的罗什曼那说:"请禀报罗摩,我因事关重大而来。"
7.103.3
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ७.१०३.३ ॥
"我是那位大力、无量威光的大仙的使者。啊,大力者,我因想见罗摩,为一件事而来。"
7.103.4
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।
न्यवेदयत रामाय तापसं तं समागतम् ॥ ७.१०३.४ ॥
听了他的话,苏弥特拉之子罗什曼那急忙向罗摩禀报了那位来到的苦行者。
7.103.5
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ७.१०३.५ ॥
"啊,罗摩,愿你以法度胜过两界!啊,大光明者,这位以苦行如太阳般光耀的使者前来见你。"
7.103.6
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ७.१०३.६ ॥
罗摩听了罗什曼那所说的话,便道:"好弟弟,请让那位大光明的仙人进来;他是言出必行之人。"
7.103.7
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७.१०३.७ ॥
罗什曼说:“就这样吧。”便引领那位光辉灼灼、仿佛以光芒焚烧的仙人进入。
7.103.8
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ७.१०३.८ ॥
仙人以自身光辉照耀,走近罗怙族中最杰出者,以甜美的话语说:“愿你兴旺。”
7.103.9
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ७.१०३.९ ॥
大光辉的罗摩先以阿尔迦(供水)等礼敬之,随后从容地询问他的安康。
7.103.10
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ॥ ७.१०३.१० ॥
罗摩问候安康后,这位最善言辞、大名远扬的仙人坐在神圣的金座上。
7.103.11
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ॥ ७.१०३.११ ॥
于是罗摩对他说:“大仙,欢迎您。您既是作为使者而来,请传达他的话语吧。”
7.103.12
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ ७.१०३.१२ ॥
在王中雄狮罗摩的催促下,仙人说道:“若您愿闻,这件有益的双重之事,务必要说出来。”
7.103.13
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ ७.१०३.१३ ॥
凡听到或看见者,都将被你所杀。若你希望听到大仙之言,便请如此。
7.103.14
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ ७.१०३.१४ ॥
他答应说“就这样吧”,罗摩对罗什曼那说:啊,大臂者,站在门口,把守门人遣走吧。
7.103.15
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ ७.१०३.१५ ॥
啊,苏弥多罗之子,凡看见或听到此仙人与我之对话者,必将被我所杀。
7.103.16
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ ७.१०३.१६ ॥
于是,甘古提斯特之裔、罗怙之子罗摩将罗什曼那安置在门口守卫,对那位仙人说:“请说出您的话吧,仙人。”
7.103.17
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ ७.१०३.१७ ॥
无论您心中想说什么话,您因此而心定,请毫无顾虑地说出来;我的心中也正有此意。