Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.105

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.105.1

तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ ७.१०५.१ ॥

二人正这样交谈时,尊贵的仙人杜尔婆萨渴望见到罗摩,来到了王宫门前。

7.105.2

सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।
रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ॥ ७.१०५.२ ॥

那位最优秀的仙人走近罗什曼那,说道:“快让我见罗摩;我的事务正在耽搁。”

7.105.3

मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ७.१०५.३ ॥

罗什曼那听了仙人的话,这位斩杀敌方勇士者向大德者行礼,说出了这些话。

7.105.4

किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥ ७.१०५.४ ॥

“尊者,请告诉我,是何事、何意?我该怎么做?婆罗门,罗ghava现在正忙,请稍候片刻。”

7.105.5

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ७.१०५.५ ॥

那位仙人中的猛虎听了这话,怒气蒙蔽了心智,仿佛用目光将罗什曼那烧尽,对他说出了这番话。

7.105.6

अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ ७.१०५.६ ॥

“萨乌弥德罗,请立刻为我通报罗摩。萨乌弥德罗,若你此刻不为我通报——”

7.105.7

विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ ७.१०५.७ ॥

啊,罗什曼那!我将诅咒你、王国、城市、罗ghava(罗摩)、婆罗多,以及你们的子孙。

7.105.8

न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ७.१०५.८ ॥

我心中不能再压抑愤怒。听到那位大德者令人恐惧的话语,他在心中思量那话语的决定。

7.105.10

एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।
निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ ७.१०५.१० ॥

“愿死亡只落在一人身上,不要使一切毁灭。”罗什曼那的话语被罗摩听到后,他遣去了时间,急忙走出,看见了阿提的儿子。

7.105.11

सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ७.१०५.११ ॥

罗摩向那位仿佛因光辉而燃烧的大德者恭敬行礼,合掌说道:“有何事需要我做?”

7.105.12

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ ७.१०५.१२ ॥

最优秀的圣人杜尔瓦萨听到罗摩所说的这些话,回答主人罗摩说:“爱护正法的人啊,请听。”

7.105.13

अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ ७.१०५.१३ ॥

今天我千年的苦行已经圆满。所以,无瑕的人啊,我想要你准备好的食物。

7.105.14

तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ ७.१०५.१४ ॥

国王罗摩听了这番话,心中欢喜,便将已经备好的食物奉献给圣者之首。

7.105.15

स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ॥ ७.१०५.१५ ॥

这位圣者之首食用了那如甘露般的食物,说了一句“做得好,罗摩”,与他交谈后,便回到自己的修行处。

7.105.16

तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ ७.१०५.१६ ॥

那位杰出的圣者回到自己的修行处后,罗什曼那的兄长罗摩想起时间的话语,便陷入了悲伤。

7.105.17

दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ ७.१०५.१७ ॥

罗摩被悲痛深深折磨,回想起那可怕的景象,低着头、心中哀伤,竟说不出话来。

7.105.18

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ ७.१०५.१८ ॥

于是,罗摩以智慧权衡了时间的话语,断定“并非如此”,这位大名鼎鼎的罗摩便沉默不语。