Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.106.1

अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ ७.१०६.१ ॥

见罗怙婆(罗摩)低头忧伤,如月被蚀,罗什曼那欢喜地温言说道。

7.106.2

न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ ७.१०६.२ ॥

大臂者啊,你不应为我而悲伤;时间的运行,由前世所定,本就如此。

7.106.3

जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ७.१०६.३ ॥

温和者啊,请毫不犹豫地舍弃我,守住你的誓言。迦古特stha啊,违背誓言的人会堕入地狱。

7.106.4

यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ७.१०६.४ ॥

大王啊,若你对我有爱,若我值得你恩惠,那就毫不犹豫地舍弃我吧。罗怙婆啊,请增长法(dharma)。

7.106.5

लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।
मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ७.१०६.५ ॥

罗什曼那这样说后,心神不安的罗摩召来了大臣们,也召来了国师。

7.106.6

अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।
दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ७.१०६.६ ॥

于是罗怙婆在众人面前叙述了所发生之事:杜尔婆萨的来访,以及他对苦行者许下的誓言。

7.106.7

तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ।
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७.१०६.७ ॥

众大臣与师长听罢,都坐了下来。于是大光明的伐西斯塔说出了这番话。

7.106.8

दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।
लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ७.१०६.८ ॥

大臂者啊,此事已见:你的灭亡令人毛骨悚然,罗摩啊,大名者,你将与罗什曼那分离。

7.106.9

त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः ।
विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ॥ ७.१०६.९ ॥

舍弃他吧!时间是强大的。不要徒然立誓;誓言若毁,法也将归于消亡。

7.106.10

ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ ७.१०६.१० ॥

那时法若毁灭,三界中的动与不动之物,连同诸天与众仙,必定全部毁灭,毫无疑问。

7.106.11

स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।
लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ७.१०६.११ ॥

因此,人中之虎啊,为了守护三界,今日即便没有罗什曼那,也要使世界安稳。

7.106.12

तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ ७.१०६.१२ ॥

罗摩在众人之中听到了这些合乎法与义的话语,便对罗什曼那说道。

7.106.13

विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।
त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥ ७.१०६.१३ ॥

萨乌弥德罗啊,我遣你离去;愿法不被颠倒。对于善人而言,舍弃与杀戮同样被规定。

7.106.14

रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।
लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ ७.१०६.१४ ॥

罗摩说完这些话后,罗什曼那感官为泪水所扰,急速离去,没有进入自己的住所。

7.106.15

स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ ७.१०६.१५ ॥

他来到萨拉尤河岸,以水净手,合掌,抑制身体的所有孔窍,不发出一声叹息。

7.106.16

अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।
देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ ७.१०६.१६ ॥

当时,因德拉与阿普萨拉斯群,以及所有天神与仙人众,向这位不叹息、镇定的人洒下鲜花。

7.106.17

अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।
प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ ७.१०६.१७ ॥

对所有人隐形,因德拉连同身体抓起大力的罗什曼那,进入了天界。

7.106.18

ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।
दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ॥ ७.१०६.१८ ॥

此时,诸位最优秀的天神见到毗湿奴的四分之一降临,皆欢喜,与大仙众一同向其致敬。