Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.11.1

सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ ७.११.१ ॥

苏摩利知道这些夜行者已获得恩赐,便抛弃恐惧,与随从从地底世界站起身来。

7.11.2

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ ७.११.२ ॥

摩利遮、普罗诃斯多、毗卢波叉与摩诃陀罗也站了起来——那罗刹极度愤怒的大臣们。

7.11.3

सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ७.११.३ ॥

苏摩利被大臣与最优秀的罗刹们簇拥,走近十首罗波那,拥抱了他,并说了这番话。

7.11.4

दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः ।
यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ ७.११.४ ॥

幸运的是,亲爱的孩子,你的这个心愿实现了——你从三界中最优秀者那里获得了至上的恩赐。

7.11.5

यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् ।
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ७.११.५ ॥

我们因他而离开楞伽、下到地底世界——啊,大臂者,那由毗湿奴引起的巨大恐惧已经离我们而去。

7.11.6

असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् ।
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ७.११.६ ॥

因这恐惧而屡屡惊惧,我们离开了自己的居所并逃走;我们全体一同进入了地底世界。

7.11.7

अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७.११.७ ॥

此楞伽城是我们的城市,适合罗刹居住;你那智慧的兄长,财神,建立了它。

7.11.8

यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ७.११.८ ॥

无罪者啊,若能以和解、以赠礼,或以武力,大臂者啊,把它夺回,事情就成了。

7.11.9

त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।
त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः ।
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ७.११.९ ॥

爱子啊,你无疑将成为楞伽之主。这罗刹族曾经沉没,却由你重新振兴。大力者啊,你也将成为我们所有人的主人。

7.11.10

अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।
वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ ७.११.१० ॥

于是十首罗波那对走近的外祖父说:“财神是我们的尊长;你不应当说这样的话。”

7.11.11

साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।
किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥ ७.११.११ ॥

即便以和解之道,罗刹之王也拒绝了他;那罗刹知道他的用意,当时什么也没说。

7.11.12

कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥ ७.११.१२ ॥

过了一段时间,罗波那住在那里时,那夜行者对十首罗波那说了这些话。

7.11.13

प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥ ७.११.१३ ॥

普拉哈斯塔谦恭地、有理有据地说出了这些话。

7.11.14

दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ ७.११.१४ ॥

十首罗摩啊,大臂者,你不应说这样的话。英雄之间没有兄弟之情;请听我这番话。

7.11.15

अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते ।
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ ७.११.१५ ॥

阿提提与提提两姊妹,都是造物主迦叶波最美丽的妻子。

7.11.16

अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।
दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥ ७.११.१६ ॥

阿提提生下了三界之主的诸神;而提提则生下了由迦叶波所生、出自他自身的儿子们。

7.11.17

दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।
सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ॥ ७.११.१७ ॥

精通法的人啊,英雄,这座城市以及这带着海洋与山脉的大地,原本属于提耶人;它们已归你所有。

7.11.18

निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ ७.११.१८ ॥

在战斗中杀死他们之后,强大的毗湿奴将这不朽的三界置于诸神的掌控之下。

7.11.19

नैतदेको भवानेव करिष्यति विपर्ययम् ।
सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥ ७.११.१९ ॥

此等翻转你不会独自完成。照诸天与阿修罗所为去做,听从我的话。

7.11.20

एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।
चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ॥ ७.११.२० ॥

十首罗波闻言,内心欢喜,思索片刻,便说:「好吧。」

7.11.21

स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ ७.११.२१ ॥

于是,怀着那份喜悦,那天,勇猛的十首罗波与那些夜行的罗刹一同前往森林。

7.11.22

त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।
प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ ७.११.२२ ॥

当时居于三峰山的夜行者十首罗波,派遣善于言辞的普拉哈斯塔为使者。

7.11.23

प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।
वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ ७.११.२३ ॥

普拉哈斯塔,你快去,以我的言辞,先以和善之道,向那位诸罗刹中最优秀的财神(俱毗罗)传达此言。

7.11.24

इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ ७.११.२४ ॥

君王啊,这座楞伽城属于诸位高贵的罗刹,是你亲自建立的。善良的人啊,无过的人啊,此举于你不相宜。

7.11.25

तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।
कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥ ७.११.२५ ॥

因此,无比勇猛的您啊,若您今日将此物赠予我们,我便欢喜,法也得以守护。

7.11.26

स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।
अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ ७.११.२६ ॥

他来到由财神(Dhanada)妥善守护的楞伽城,对极其慷慨的财富守护者说了这些话。

7.11.27

प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।
त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ ७.११.२७ ॥

你的兄长十首王(罗波那)派我来见你,持守誓愿的您啊。大臂者啊,持兵器者中的最优者!

7.11.28

तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।
वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ ७.११.२८ ॥

大智者啊,通晓一切经典的人啊,财富之主啊,请听十首王所说的这些话。

7.11.29

इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।
भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ ७.११.२९ ॥

广眼者啊,这座美丽的城市,从前曾为以苏马利为首的、勇猛可怖的罗刹们所享有。

7.11.30

तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज ।
तदेषा दीयतां तात याचतस्तस्य सामतः ॥ ७.११.३० ॥

现在他要求说:维室罗婆之子啊,亲爱的,请以和善之道将此地交给向您请求的人。

7.11.31

प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ७.११.३१ ॥

闻听普拉哈斯塔之言,善于言辞的天神毗湿罗婆那答复了普拉哈斯塔。

7.11.32

दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।
निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ ७.११.३२ ॥

这座楞伽城是父亲赐给我的;它曾因罗刹而空无一人,我凭借慷慨、荣誉等德行,使夜叉在此定居。

7.11.33

ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।
तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ॥ ७.११.३३ ॥

去告诉十首王:我的城池与国土,啊,大臂者,你也可享用这无荆棘的王国。

7.11.34

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥ ७.११.३४ ॥

说完这些话,财神便前往父亲面前。

7.11.35

अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ।
एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥ ७.११.३५ ॥

他向师长与父亲恭敬行礼后,说出了罗波那的心愿:"父亲,这位十首王派了使者来见我。"

7.11.36

दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।
मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ ७.११.३६ ॥

请将这座往昔由罗刹大众所居的楞伽城交出。啊,持善誓者,请告诉我此处我该做什么。

7.11.37

ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः ।
प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥ ७.११.३७ ॥

婆罗门仙人毗首罗婆(最优秀的牟尼)听他这样说后,合掌对财神(俱毗罗)说:“孩子,听我的话。”

7.11.38

दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।
मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ ७.११.३८ ॥

十首、大臂的罗波那在我面前(言辞严厉)说话;那恶念之人,我多次斥责他。

7.11.39

स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।
श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ ७.११.३९ ॥

我怒而对他说话,他却一再不理。现在,孩子,听我的话,那是吉祥而合于法的。

7.11.40

वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः ।
न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ७.११.४० ॥

被赐予的恩惠迷惑,那恶念之人不能分辨尊者与卑者;由于我的诅咒,他已堕入可怕的本性。

7.11.41

तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।
निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ ७.११.४१ ॥

因此,大臂者啊,离开楼由卡,与你的随从前往承载大地的凯拉萨山,在那里安居。

7.11.42

तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।
काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥ ७.११.४२ ॥

那里有可爱的曼陀基尼河,是诸河中最殊胜的,其水面被如太阳般的金色莲花覆盖。

7.11.43

कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ॥ ७.११.४३ ॥

开满白睡莲、青莲以及其他芬芳的花朵。

7.11.44

तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः ।
विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ॥ ७.११.४४ ॥

诸天神、乾达婆、阿普萨拉、蛇众与紧那罗,喜爱游乐,常居于此,不断欢愉。

7.11.45

न हि क्षमं तवानेन वैरं धनद रक्षसा ।
जानीषे हि यथा ऽनेन लब्धः परमको वरः ॥ ७.११.४५ ॥

财富之主啊,与这罗刹为敌对你不相宜;你自然知道他所得的至高恩赐。

7.11.46

एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् ।
सदारपुत्रः सामान्यः सवाहनधनो गतः ॥ ७.११.४६ ॥

听罢此言,他出于对父亲的敬重,立即接受其言,以寻常之相,偕妻儿、车乘与财富离去。

7.11.47

प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् ।
प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ ७.११.४७ ॥

于是普罗诃斯塔来到十首罗刹王前,心怀欢喜,向这位大德之人及其大臣与幼弟说出了这番话。

7.11.48

शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः ।
प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥ ७.११.४८ ॥

那座楞伽城如今已空无一人,财神已弃城而去。请与我们一同入城,守护你自己的职责。

7.11.49

एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।
विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ ७.११.४९ ॥

普罗诃斯塔如此说后,大力的十首王与兄弟、军队和随从一同进入了楞伽城。

7.11.50

धनदेन परित्यक्तां सुविभक्तमहापथाम् ।
आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ ७.११.५० ॥

这座被财神抛弃、大路划分得井然有序的楞伽城,被诸神之敌占据,犹如天神之主登上天界。

7.11.51

स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।
निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ७.११.५१ ॥

当时,被夜行者们膏立为王的十面王使城市重新兴旺;城中充满了如乌云般的夜行者。

7.11.52

धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।
स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ॥ ७.११.५२ ॥

出于对父亲之言的敬重,财神俱毗罗便将他的城市建在皎洁如月的山上;城中以精美华丽的宫殿装饰,宛如因陀罗(补兰达罗)的阿摩罗缚底城。