蚁垤《罗摩衍那》 · 篇 7.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.110.1
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ ७.११०.१ ॥
走了一又半由旬后,罗怙之子之乐看见了向西流淌、水源神圣的萨拉尤河。
7.110.2
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।
आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ ७.११०.२ ॥
沿着那条旋涡汹涌的河流到处前行,罗怙之子之乐、国王罗摩与臣民一同来到了那个地方。
7.110.3
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ७.११०.३ ॥
就在那一刻,世界的祖父梵天被所有天神和大心的仙人环绕着来到了那里。
7.110.4
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ७.११०.४ ॥
他来到了已准备升天的迦古特斯塔(罗摩)所在之处,被亿万辆神圣的天车所环绕。
7.110.5
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।
स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ७.११०.५ ॥
被神圣光辉笼罩的天空变成了至高的光明;行善积德的天界居民以自身的光辉自发地闪耀。
7.110.6
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ७.११०.६ ॥
纯净芬芳、令人愉悦的风吹拂起来;天神撒下的花雨如同大水奔涌般落下。
7.110.7
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७.११०.७ ॥
在数百种乐器的喧响中,满是乾达婆与阿普萨拉斯的人群里,罗摩徒步走入萨拉尤河的水中。
7.110.8
ततः पितामहो वाणीमन्तरिक्षादभाषत ।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.११०.८ ॥
于是祖父从天空中说道:“来吧,毗湿奴,愿你吉祥;罗ghava啊,幸运的是你已经到来。”
7.110.9
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।
यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।
वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥ ७.११०.९ ॥
与如天神般的兄弟们一同,进入你自己的形体。啊,大臂者,进入你所愿的那毗湿奴之身;啊,大光明者,进入那永恒的虚空。
7.110.10
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।
ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।
त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥ ७.११०.१० ॥
你正是诸世界的归宿,神啊;除了你那大眼睛的幻力——它自古便属于你——无人能认识你。你不可思议,是伟大的存在,不灭,摄受一切。
7.110.11
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ७.११०.११ ॥
啊,大光明者,你自己进入你所愿的那个身体吧。
7.110.12
ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।
विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ ७.११०.१२ ॥
(此句开头有缺损:“大眼睛的,你古来的所有”)大智者听完祖父的话,下定决心,与其弟一同,带着身躯,进入了毗湿奴的光辉之中。
7.110.13
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ ७.११०.१३ ॥
于是众神礼拜那充满毗湿奴之力的神:萨提亚神众与风神众,连同因陀罗,以火神为先导。
7.110.14
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ ७.११०.१४ ॥
还有天界的仙人群、乾闼婆与阿普萨拉斯、金翅鸟、龙、夜叉、提泰耶、檀那婆与罗刹。
7.110.15
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।
साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ ७.११०.१५ ॥
万物得到滋养而欢欣,心愿尽皆圆满;诸神齐声说:“善哉!善哉!”天界便已洗尽污垢。
7.110.16
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ ७.११०.१६ ॥
于是大光明的毗湿奴对祖父说:“善持誓愿者啊,你应当将他们的世界赐予这些众人。”
7.110.17
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ ७.११०.१७ ॥
这些有名望的人出于深情跟随我;他们是虔诚的信徒,确实值得尊敬,为了我而舍弃了自身。
7.110.18
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ ७.११०.१८ ॥
梵天听了毗湿奴的话,作为世界之师与主宰说:“这些聚集于此的人将前往名为桑塔尼迦的世界。”
7.110.19
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।
प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥ ७.११०.१९ ॥
凡渡过之后、如此默念于你的众生,以虔诚舍弃生命者,将住于那一族之中。
7.110.20
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ ७.११०.२० ॥
具足梵的一切德性,紧接在梵天世界之后。
7.110.21
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।
येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥ ७.११०.२१ ॥
猴与熊也各自回归其本源,即他们皆从中而生的诸神,乃诸神所生者。
7.110.22
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।
पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ॥ ७.११०.२२ ॥
其中,须羯里婆也进入了太阳之轮;诸神皆在观望之际,他们各自抵达了自己的先祖。
7.110.23
तथोक्तवति देवेशे गोप्रतारमुपागताः ।
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥ ७.११०.२३ ॥
天神之主如此说罢,他们皆来到牛渡之处,满怀喜悦、泪流满面,前往萨罗延河。
7.110.24
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।
मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ॥ ७.११०.२४ ॥
凡入水之中而心生欢喜的众生,舍弃人身,登上天车。
7.110.25
तिर्यग्योनिगतानां च शतानि सरयूजलम् ।
सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ ७.११०.२५ ॥
数百个生于畜生胎中的众生,抵达萨拉尤河水后,以光耀之身升往天界;以神圣之身,他们如同光辉的天神。
7.110.26
गत्वा तु सरयूतोयं स्थावराणि चराणि च ।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ ७.११०.२६ ॥
众生,无论静止者或动者,前往萨拉尤河水,被其浸润,便抵达诸神之界。
7.110.27
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।
ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ ७.११०.२७ ॥
聚集于那条河中的熊、猴与罗刹,也舍弃身躯于水中,进入天界。
7.110.28
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ ७.११०.२८ ॥
于是,世界之师将所有聚集者安置于天界,便与常欢喜的诸天神一同前往广大的天界。