Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.13.1

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ ७.१३.१ ॥

随后,由世界之主派遣的一种强烈而具形的睡眠,经过一段时间降临到了俱卢劫那身上。

7.13.2

ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।
निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ ७.१३.२ ॥

于是俱卢劫那对坐着的兄长说:“大王,睡眠折磨着我;请为我建造一座居所。”

7.13.3

विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥ ७.१३.३ ॥

随后,国王所雇的工匠如同毗首羯摩,建造了一座明亮的居所,宽一由旬,长为其两倍。

7.13.4

दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥ ७.१३.४ ॥

他们为俱卢劫那建造了一座赏心悦目、无所阻碍的居所,到处以水晶、黄金和彩色柱子装饰。

7.13.5

वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ ७.१३.५ ॥

其中有青金石台阶、叮当作响的铃网、象牙拱门,以及金刚石与水晶的平台。

7.13.6

मनोहरं सर्वसुखं कारयामास राक्षसः ।
सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ७.१३.६ ॥

罗刹建造了一座迷人、充满一切舒适的居所,处处常时令人愉悦,宛如须弥山的圣洁洞窟。

7.13.7

तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।
बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥ ७.१३.७ ॥

在那里,大力的鬼王昆婆羯叻沉入深眠,躺卧了许多千年,没有醒来。

7.13.8

निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।
देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥ ७.१३.८ ॥

昆婆羯叻沉睡之时,十首的罗波那毫无节制,打击天仙、夜叉与乾闼婆。

7.13.9

उद्यानानि च चित्राणि नन्दनादीनि यानि च ।
तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥ ७.१३.९ ॥

十首者怒不可遏,前往那些奇妙的园林,从难陀园开始,将其一一摧毁。

7.13.10

नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।
नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ ७.१३.१० ॥

如象在河中嬉戏,如风摇撼树木,如雷霆击碎山岳,那罗刹便如此毁灭。

7.13.11

तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ ७.१३.११ ॥

财神俱毗罗知道了十颈者的行为,这位通晓法义的财主便想起了与其家族相称的品行。

7.13.12

सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।
लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥ ७.१३.१२ ॥

于是毗舍罗之子俱毗罗,为显示兄弟之情,并为十首者谋福祉,派遣一名使者前往楞伽。

7.13.13

स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ ७.१३.१३ ॥

他来到楼城(楼卡),见到了毗భీषण。毗भीषण依法敬待他,并询问他来访的原因。

7.13.14

पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।
सभायां दर्शयामास तमासीनं दशाननम् ॥ ७.१३.१४ ॥

毗भीषण问候了国王和亲族之后,把端坐于议会中的十首王指给他看。

7.13.15

स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।
जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥ ७.१३.१५ ॥

他在那里见到以自身光辉照耀的国王,以“胜利!”之语致敬,然后默然上前。

7.13.16

तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।
उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ ७.१३.१६ ॥

在那里,посланник向坐在华美卧榻上、饰以精致锦褥的十首王说了这些话。

7.13.17

राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।
उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ ७.१३.१७ ॥

大王,我把你兄弟所说的一切告诉你。英雄啊,这与你们二人的品行和家族都相称。

7.13.18

साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ ७.१३.१८ ॥

够了,这已经足够;行为的概要已经说明。好吧,如果可能,就依照法来安排吧。

7.13.19

दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।
देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ ७.१३.१९ ॥

君王啊,我看见难陀园被毁;听说仙人们被杀;而从你那里我听说了诸天的行动。

7.13.20

निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।
अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥ ७.१३.२० ॥

罗刹之主啊,你多次拒绝我;的确,可爱的亲族因年少无知而犯错。

7.13.21

अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।
रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥ ७.१३.२१ ॥

而我前往喜马拉雅山坡修奉法道,立下严厉的誓愿,克制自身,制伏诸根。

7.13.22

तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।
सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥ ७.१३.२२ ॥

我在那里看见主神与女神在一起;命运使我的左眼落在了那位女神身上。

7.13.23

का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥ ७.१३.२३ ॥

我想:“这位美丽的女子是谁呢?”并非出于别的缘故;她以无与伦比的形象,站立在那里,乃是鲁陀罗尼。

7.13.24

देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।
रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥ ७.१३.२४ ॥

由于女神的神圣威力,我的左眼被烧毁;如同被尘土遮蔽的光,它变成了昏黄暗淡之色。

7.13.25

ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।
तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ ७.१३.२५ ॥

随后我来到那座山的另一处宽阔山坡,默然静坐,以专注的心念持守大誓八百年。

7.13.26

समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ ७.१३.२६ ॥

誓戒圆满之时,大神摩诃输婆以欢喜之心在彼处说了这番话。

7.13.27

पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।
प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥ ७.१३.२७ ॥

知法者啊,你因凝视女神之形而得的黄褐之色,我也因此而欢喜;善持誓愿者啊,你的这番苦行,我亦欢喜。

7.13.28

मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।
तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥ ७.१३.२८ ॥

财神之主啊,这一誓愿我与你都曾行持;如此誓愿,再没有第三个人能够行持。

7.13.29

व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥ ७.१३.२९ ॥

此坚定誓愿乃是我往昔所立;因此,善良的财神之主啊,请接受我的友谊吧。

7.13.30

तपसा निर्जितश्चैव सखा भव ममानघ ।
देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥ ७.१३.३० ॥

无垢之人啊,你因苦行而被征服,请成为我的朋友吧;因女神的神力,你的左眼被焚毁了。

7.13.31

एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।
एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥ ७.१३.३१ ॥

"独目黄褐"这一名字将永远属于他。如此,他获得了他的友谊和湿婆(商羯罗)的允许。

7.13.32

आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ॥ ७.१३.३२ ॥

我来到此地,听说这是你罪恶的决定。

7.13.33

तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।
चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ ७.१३.३३ ॥

因此,请远离与不义之人的结交,你这玷污家族的人。诸神与众多仙人正在谋划除掉你的办法。

7.13.34

एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।
हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥ ७.१३.३४ ॥

听罢此言,十首罗刹(十首王)双眼因愤怒而通红,紧握双手,咬紧牙关,说出了这些话。

7.13.35

विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।
नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ७.१३.३५ ॥

使者啊,我已知道你所说之言出自谁口。你并非此人,派你来的我的兄弟也并非此人。

7.13.36

हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।
महेश्वरसखित्वं तु मूढ श्रावयते किल ॥ ७.१३.३६ ॥

这对我并无益处;财富之主(俱毗罗)如是说。但是,愚者啊,据说他正在传播他与大自在天(湿婆)的友谊。

7.13.37

न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।
यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ७.१३.३७ ॥

使者啊,你所说的话对我来说不可宽恕;然而为了他,我已经容忍了这么久。

7.13.38

न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ ७.१३.३८ ॥

他想:'这是我的哥哥,我不应杀他。'但如今听了我关于他的话,我的决定已经定下了。

7.13.39

त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ७.१३.३९ ॥

依靠我双臂的勇力,我将征服三界。

7.13.40

एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ७.१३.४० ॥

为了那一个人,就在此刻,我要把那四位世界守护者送往阎摩的住所。

7.13.41

एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ७.१३.४१ ॥

说完这些,楞伽之主便用剑击杀了使者,把他交给邪恶的罗刹们吞食。

7.13.42

एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ७.१३.४२ ॥

如此完成吉祥仪式后,罗波那渴望征服三界,登上战车,前往财神俱毗罗所在之处。