Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.15.1

ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।
धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ ७.१५.१ ॥

此时,见数千名惊恐的夜叉王,财神对大夜叉摩尼车说道。

7.15.2

रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।
शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ ७.१५.२ ॥

夜叉之王啊,请诛杀行恶、心怀邪念的罗波那!做那些善战英勇夜叉的庇护所吧。

7.15.3

एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।
वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ७.१५.३ ॥

如此被告知后,大臂的摩尼跋陀罗——极难战胜——被数千夜叉围绕,与四者交战。

7.15.4

ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।
अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ७.१५.४ ॥

于是那些夜叉以棍棒、杵、矛、枪、投枪和铁锤击打,向罗刹冲去。

7.15.5

कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।
बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ७.१५.५ ॥

激烈交战,如鹰般迅捷飞旋,口中说道:“必定给予;我愿意;就让它给予吧!”

7.15.6

ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।
दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ७.१५.६ ॥

于是诸天、乾闼婆与宣说梵义的仙人见那场激战,极为惊异。

7.15.7

यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।
महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७.१५.७ ॥

在战场上,普拉哈斯塔杀死了一千名夜叉,无可指责的摩诃乌达罗又杀死了另一千名。

7.15.8

क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ७.१५.८ ॥

那时,大王,愤怒而渴望战斗的摩利支在一瞬间击倒了两千人。

7.15.9

क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।
रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ॥ ७.१५.९ ॥

夜叉的正面交锋何其简单,而罗刹依仗幻术之力的战斗又何其不同!人中虎啊,因此他们在战斗中更占优势。

7.15.10

धूम्राक्षेण समागम्य माणिभद्रो महारणे ।
मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥ ७.१५.१० ॥

在大战中,摩尼跋陀与烟眼相遇,他在愤怒中被狼牙棒击中胸部,却没有动摇。

7.15.11

ततो गदां समाविध्य माणिभद्रेण राक्षसः ।
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ७.१५.११ ॥

于是摩尼跋陀挥动狼牙棒,击中罗刹烟眼的头部,他晕眩地倒下了。

7.15.12

धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।
अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ ७.१५.१२ ॥

十首罗波那见烟眼被击倒、倒地并浑身是血,便在战场上向摩尼跋陀猛扑过去。

7.15.13

तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ ७.१५.१३ ॥

夜叉中的翘楚摩尼跋陀罗用三支矛击中了愤怒冲来的十首罗波那。

7.15.14

ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।
तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥ ७.१५.१४ ॥

他被摩尼跋陀罗击中后,在战斗中击打其头冠;那一击使头冠歪向一边。

7.15.15

ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।
तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।
सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ॥ ७.१५.१५ ॥

他虽在激战中,却屹立不动。从那时起,这位夜叉便被称为“侧冠”。大王啊,那座山上响起了巨大的喧嚣。

7.15.16

ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।
शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ ७.१५.१६ ॥

这时,从远处出现了手持铁杖的财神(俱毗罗),他被室克罗、普罗斯陀帕达,以及莲花与海螺所环绕。

7.15.17

स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।
उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ ७.१५.१७ ॥

他看见兄弟在战斗中因诅咒而失去了威严,便这位智者说出了与祖父家族相称的话。

7.15.18

यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ ७.१५.१८ ॥

邪恶之人啊,我多次阻止你,你却不明白。之后你将承受其果报,堕入地狱,那时你便会明白。

7.15.19

यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।
स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ ७.१५.१९ ॥

愚迷之人因迷惑饮下毒药而不知,待其后果终了时,方知自己所作之业的果报。

7.15.20

देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।
येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥ ७.१५.२० ॥

诸神不喜悦于任何遵循法义之人;因此你陷入这般境地,却仍不醒悟。

7.15.21

मातरं पितरं यो हि आचार्यं चावमन्यते ।
स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ ७.१५.२१ ॥

轻慢母亲、父亲与师长之人,将落入阎罗王之手,并亲见其果报。

7.15.22

अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।
स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ॥ ७.१५.२२ ॥

于此无常之身不修苦行者,愚痴之人死后见到自己的归宿,之后方才悔恨。

7.15.23

धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ ७.१५.२३ ॥

依法则得王位、财富与安乐;违法则唯有痛苦。故为求安乐当行法,舍弃罪恶。

7.15.24

पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।
तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ ७.१५.२४ ॥

罪恶之果乃是苦痛,须由自身在此承受;因此愚痴之人将为自我毁灭而作恶。

7.15.25

कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ७.१५.२५ ॥

恶念之人的心智并非出于任何人的意愿。天命(daiva)主宰一切;被天命击中者,必为天命所杀。所行何业,便得何果。

7.15.26

बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।
प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ ७.१५.२६ ॥

世间之人凭借功德之业所赢得的,正是智慧之果、子嗣、勇武与坚毅。

7.15.27

एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।
न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ॥ ७.१५.२७ ॥

你心念如此,必入地狱。这正是行为邪恶者的定局;我不会与你说话。

7.15.28

एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ ७.१५.२८ ॥

他如此说完,以摩里遮为首的所有大臣都受到了伤害,转过脸去,逃散而去。

7.15.29

ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।
गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ७.१५.२९ ॥

于是那位大德的夜叉王以铁杵击中十首罗婆那的头顶,他却丝毫没有从原地动摇。

7.15.30

ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ७.१५.३० ॥

罗摩啊!那二人在那场大战中彼此相击,既不慌乱,也不疲惫,怀着愤怒依然坚定不移。

7.15.31

आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।
राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ७.१५.३१ ॥

于是俱毗罗向他放出火神之箭,罗刹王以水神伐楼那之箭将其挡开。

7.15.32

ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।
रूपाणां शतसाहस्रं विनाशाय चकार च ॥ ७.१५.३२ ॥

于是罗刹王进入罗刹幻术,为了毁灭而化现十万种形相。

7.15.33

व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।
यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ॥ ७.१५.३३ ॥

十首者现出老虎、野猪、云、山、海、树、夜叉与提婆之形。

7.15.34

बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।
प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ ७.१५.३४ ॥

他化现许多形相,自身却不见。然后,罗摩啊,十首者持起一件大神兵。

7.15.35

जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ ७.१५.३५ ॥

他挥舞巨大的钉棒击中俱毗罗的头部;如此被他击中,俱毗罗昏乱,满身鲜血,

7.15.36

कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ७.१५.३६ ॥

财神如被连根砍断的无忧树般倒下。

7.15.37

ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ७.१५.३७ ॥

于是,他在那里被以莲花宝等宝藏环绕,使财神(俱毗罗)叹息,将其带到了难陀园林。

7.15.38

निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ७.१५.३८ ॥

罗刹王战胜了那位财神(俱毗罗),心中欢喜,夺取了他那带有胜利标记的空中车辇——普史迦罗。

7.15.39

काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ ७.१५.३९ ॥

周围是金柱,门楼以青金石和宝石装饰,覆盖着珍珠网,园中的树木结出一切所求之果。

7.15.40

मनोजवं कामगमं कामरूपं विहङ्गमम् ।
मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ७.१५.४० ॥

快如意念,随意而行,可现任何所愿之形,如鸟般飞翔,有宝石与黄金的台阶,以及熔金的平台。

7.15.41

देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ७.१५.४१ ॥

为诸天所乘,永不朽坏,常使眼与心欢悦,极其奇妙,工艺繁复多彩,由梵天完美创造。

7.15.42

निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ७.१५.४२ ॥

以一切所愿之物造成,迷人而无与伦比;它既不寒,也不热,吉祥,四季皆令人舒适。

7.15.43

स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।
जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ७.१५.४३ ॥

国王登上那辆随意而行、由他的威力所征服的飞车,因骄傲之极、心智极其愚妄,以为自己已征服了三界。

7.15.44

जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ७.१५.४४ ॥

战胜了天神毗沙门(俱毗罗)之后,他从冈仁波齐山(吉罗山)上下来了。

7.15.45

स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥ ७.१५.४५ ॥

他以自身的光辉获得了这一伟大的胜利,威武的夜行者头戴洁净的王冠、身披项链,坐在那辆至尊飞车上,光彩夺目,如同火焰进入集会。