Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.16.1

स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।
महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ ७.१६.१ ॥

罗刹之主战胜了他的兄长财神,前往摩诃塞那出生之地的那片大芦苇丛。

7.16.2

अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ ७.१६.२ ॥

于是十首罗刹看见那片金色的大芦苇丛,被光芒之网笼罩,宛如第二个太阳。

7.16.3

स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।
अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥ ७.१६.३ ॥

他登上山峰,在一片可爱的森林深处,看见了当时被罗摩阻止的普什帕卡飞车。

7.16.4

विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।
अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ७.१६.४ ॥

罗刹之主看见能随意飞行的普什帕卡停在那里,便在众大臣的环绕中思索起来。

7.16.5

किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।
पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ७.१६.५ ॥

这辆按我意志行驶的普什帕卡,为何不再前进?这一定是山顶上某人所为。

7.16.6

ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।
नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ७.१६.६ ॥

于是善于判断的摩哩制说:大王,这辆普什帕卡不前进,并非无缘无故。

7.16.7

अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।
अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ७.१६.७ ॥

或者,这辆普湿伽迦车不是别人的车,只属于施财者俱毗罗;因此失去财神之主后,它便停滞不动了。

7.16.8

वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ७.१६.८ ॥

侏儒婆摩那、丑陋的毗迦吒、剃光头的文底、双臂下垂的难提,以及强壮者。

7.16.9

ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।
नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ ७.१६.९ ॥

于是,婆婆(湿婆)的侍从难提湿伐罗走近罗刹王,毫无畏惧地说了这些话。

7.16.10

निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।
सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ ७.१६.१० ॥

十首的罗刹王啊,回去吧!湿伐罗(商羯罗)正在此山中嬉戏。这座山对金翅鸟、龙、夜叉、天神、乾闼婆和罗刹来说都是不可接近的。

7.16.12

सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।
को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ ७.१६.१२ ॥

此山对一切众生都成了不可接近之地。他怒目赤红,从普湿伽迦车上下来,说道:“这湿伐罗是谁?”便走到山脚。

7.16.13

सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ ७.१६.१३ ॥

他在那里看见了立于神附近的难提,手持熊熊燃烧的三叉戟,仿佛是第二个湿伐罗。

7.16.14

तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।
प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ ७.१६.१४ ॥

罗刹见他有猴子的面孔,便轻蔑地在那里大笑起来,犹如满载雨水的云团。

7.16.15

तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।
अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ ७.१६.१५ ॥

世尊难提(Nandin)是湿婆的另一化身,他愤怒地对站在那里的那个十首罗刹说道。

7.16.16

यस्माद्वानररूपं मामवज्ञाय दशानन ।
अशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ ७.१६.१६ ॥

十首者啊!你因轻视我的猴子之形,发出了如霹雳般的讥笑,

7.16.17

तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।
उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ ७.१६.१७ ॥

因此,具有我之形貌、勇力与光辉与我相等的猴子,必将为毁灭你的家族而降生。

7.16.18

नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ ७.१६.१८ ॥

以爪牙为武器,凶猛残暴,疾速如意念,因战斗而狂热,因力量而骄傲,如山岳般四处游走。

7.16.19

ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।
व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ ७.१६.१९ ॥

他们联手将消除你强大的傲慢与各种骄矜,连同大臣之子的骄矜一并除去。

7.16.20

किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ ७.१६.२० ॥

夜行者啊,我现在怎能杀你?你不该被杀;你早已因自己的行为而毁灭。

7.16.21

इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१६.२१ ॥

当那位大德之神说完这些话,天界的鼓声响起,花雨从天空落下。

7.16.22

अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।
पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ ७.१६.२२ ॥

于是,大力的十首王不顾难陀的话,走到山前,说出了这些话。

7.16.23

पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।
तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ ७.१६.२३ ॥

因为这座山,我经过时普什帕卡车的行进被阻断;此山我要连根拔起,哦,牧主。

7.16.24

केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ ७.१६.२४ ॥

薄婆(湿婆)凭何威力,总像国王一样游戏?他不知道危险之地已经来到面前。

7.16.25

एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।
तोलयामास तं शीघ्रं स शैलं समकम्पत ॥ ७.१६.२५ ॥

罗摩啊,他说完这些话,便伸展双臂压在山上,迅速地摇动它;那山全都颤动起来。

7.16.26

चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।
चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ॥ ७.१६.२६ ॥

因山的震动,神之侍从皆颤抖;此时与摩诃提婆相拥的帕尔瓦蒂也随之摇晃。

7.16.27

ततो राम महादवो देवानां प्रवरो हरः ।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ ७.१६.२७ ॥

罗摩啊,那时诸神中最殊胜的大天神哈罗,以脚的大脚趾轻松地将那座山压下。

7.16.28

पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ७.१६.२८ ॥

于是他的手臂被压在山下而垂落下去,那罗刹的大臣们在那里都惊愕不已。

7.16.29

रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।
मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ ७.१६.२९ ॥

那罗刹因愤怒且双臂被压,突然发出一声吼叫,三界因此震动。

7.16.30

मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ ७.१६.३० ॥

他的大臣们以为那是劫末雷霆的轰击;此时以因陀罗为首、停留在路上的诸神也都震动了。

7.16.31

समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ७.१६.३१ ॥

大海也翻腾动荡,山岳也摇动;夜叉、持明与悉陀们说道:“这是什么?”

7.16.32

अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।
तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ७.१६.३२ ॥

此时他的大臣对哭喊的他说:去取悦大天神、蓝颈者、乌摩之主吧。

7.16.33

तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥ ७.१६.३३ ॥

十首者啊,除他以外我们在此看不到别的依靠。以颂赞俯首礼拜,便去投靠他吧。

7.16.34

कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।
एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥ ७.१६.३४ ॥

慈悲的湿婆若感欢喜,必将赐你恩惠。大臣这样说后,他便赞颂那以公牛为旗的神。

7.16.35

सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ७.१६.३५ ॥

那十首罗刹以种种娑摩颂歌和赞诗俯首礼拜,哭泣之中度过了一千年。

7.16.36

ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।
मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥ ७.१६.३६ ॥

于是大天神欢喜,端坐山巅,罗摩啊,他松开了那人的手臂,对十首者说出了话语。

7.16.37

प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।
शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ७.१६.३७ ॥

十首者啊,我因你的勇力与豪勇而欢喜。那是你被山压住时发出的可怕吼声。

7.16.38

यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ७.१६.३८ ॥

因为这三界因恐惧而被迫哭喊,所以,国王啊,你将以名字被称为罗波那。

7.16.39

देवता मानुषा यक्षा ये चान्ये जगतीतले ।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ७.१६.३९ ॥

天神、人类、夜叉以及大地上的其他众生都会这样称呼你:使世界哭泣的罗波那。

7.16.40

गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।
मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ७.१६.४० ॥

去吧,补罗私底耶之子,无所畏惧地走你想走的路。罗刹之主啊,在我的允许下去吧。

7.16.41

एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।
प्रीतो यदि महादेव वरं मे देहि याचतः ॥ ७.१६.४१ ॥

湿婆如此说后,楞伽之主自己说道:‘大神啊,如果您满意,请赐予我这个祈求者一个恩典。’

7.16.42

अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ७.१६.४२ ॥

我已获得不被天神、乾达婆、檀那婆、罗刹、古牙、龙蛇以及其他更强大者所杀的恩典。

7.16.43

मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ ७.१६.४३ ॥

天神啊,我不把人类放在眼里,他们在我看来微不足道。三城的毁灭者啊,我也从梵天那里获得了长寿。

7.16.44

वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।
एवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ ७.१६.४४ ॥

“请赐我所求的余寿,并赐一件兵器。”罗波那如此请求后,那位湿婆——

7.16.45

ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।
आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ७.१६.४५ ॥

他赠予一把极其光耀的宝剑,名为月牙剑;随后,众生之主起身,又赐予余下的寿命。

7.16.46

दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ७.१६.४६ ॥

赐予之后,湿婆说道:“此物你不可轻慢。若你轻慢它,它必定会回到我这里,毫无疑问。”

7.16.47

एवं महेश्वरेणैव कृतनामा स रावणः ।
अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ७.१६.४७ ॥

罗波那因摩诃湿伐罗而得此名,他向摩诃提婆行礼,随后登上了普希帕卡飞车。

7.16.48

ततो महीतले राम पर्यक्रामत रावणः ।
क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ७.१६.४८ ॥

此后,罗摩啊,罗波那游走于大地之上,四处压迫那些威力极大的刹帝利。

7.16.49

केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ७.१६.४९ ॥

一些威光赫赫、好勇斗狠的刹帝利勇士,不服从他的命令,连同随从一起灭亡了。

7.16.50

अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ७.१६.५० ॥

其他人知道那个罗刹不可战胜,他们是智者所尊敬的人,便对那个以力量自傲的罗刹说:“我们已经被征服了。”