Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.17.1

अथ राजन्महाबाहुर्विचरन्स महीतले ।
हिमवद्वनमासाद्य परिचक्राम रावणः ॥ ७.१७.१ ॥

大王啊,大臂的罗波那漫游大地,到达喜马拉雅的森林,在那里四处游荡。

7.17.2

तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।
आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ॥ ७.१७.२ ॥

他在那里看见一位少女,身穿黑羚羊皮,头戴发髻,遵循仙人的规矩,光彩照人如女神。

7.17.3

स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् ।
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ७.१७.३ ॥

他看见那位容貌端丽、持守大誓的少女,心被欲望与迷惑所笼罩,便仿佛笑着问道。

7.17.4

किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।
नहि युक्ता तवैतस्य रूपस्यैव प्रति
क्रिया ॥ ७.१७.४ ॥

善良的女子啊,你这样做违背了青春,这是怎么回事?这不适合你的美貌,也无法补救。

7.17.5

रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् ।
न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ ७.१७.५ ॥

胆怯的女子啊,你无与伦比的美貌令男人欲火发狂。你不宜留在苦行之中,这是定论。

7.17.6

कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।
येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ ७.१७.६ ॥

善良的女子啊,你是谁家的人?这是怎么回事?美颜的女子啊,你的丈夫是谁?胆怯的女子啊,能够拥有你的男人,在世间必是有福之人。

7.17.7

पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ।
एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥ ७.१७.७ ॥

你既问,便把一切告诉我:为了什么缘故而如此辛劳?罗波那这样问后,那位名声显赫的少女便说道。

7.17.8

अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।
बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ७.१७.८ ॥

她按照礼仪款待了他之后,这位以苦行富足的女子说道:我的父亲是俱舍陀嚩阇,梵仙,光辉无量,是广博天之子,智慧与广博天相等。

7.17.9

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।
सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ ७.१७.९ ॥

那位大德一直在学习吠陀时,我与他一同诞生;这位由言语所成的少女名叫吠陀嚩提。

7.17.10

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।
ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ ७.१७.१० ॥

然后,诸天与乾闼婆、夜叉、罗刹、龙也都前往我的父亲处,愿意娶我为妻。

7.17.11

न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।
कारणं तद्वदिष्यामि निशाचर निशामय ॥ ७.१७.११ ॥

我的父亲没有把我许给他们,罗刹中的雄牛啊。我将告诉你原因,夜行者,请听。

7.17.12

पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ ७.१७.१२ ॥

我父亲所期望的女婿,正是三界之主、诸天之王毗湿奴;因此,我的父亲不属于别人。

7.17.13

दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।
दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ॥ ७.१७.१३ ॥

闻此,以力量自傲的达布(Dambhu)大王欲将她许配给他;于是达伊迪亚斯之王勃然大怒。

7.17.14

तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ ७.१७.१४ ॥

那恶人在夜里我父亲熟睡时将他杀害。

7.17.15

ततो मे जननी दीना तच्छरीरं पितुर्मम ।
परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ ७.१७.१५ ॥

于是我悲伤的母亲抱住父亲的遗体,这位大福之人走入了火中。

7.17.16

ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।
करोमीति तमेवाहं हृदयेन समुद्वहे ॥ ७.१७.१६ ॥

因此我决心实现父亲对那罗延的心愿,并一心将他铭记在心中。

7.17.17

एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ ७.१७.१७ ॥

罗刹中的英杰啊,这一切我都已对你讲述了。

7.17.18

नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।
आश्रये नियमं घोरं नारायणपरीप्सया ।
विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥ ७.१७.१८ ॥

那罗延是我的丈夫,除了至上之人,别无他人。我因渴望那罗延而立下可怕的誓愿。国王啊,我已认出你;补罗斯地耶之子,现在请离去吧。

7.17.19

जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ ७.१७.१९ ॥

凭你的苦行,我知道三界中正在发生的一切。

7.17.20

सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।
अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ ७.१७.२० ॥

于是罗波那被迦摩天之箭所折磨,再次对那位持大誓的少女说话,并从飞车顶端下来。

7.17.21

अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी ।
वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ॥ ७.१७.२१ ॥

美腰的女子啊,你因心思如此而骄傲。鹿眼的女子啊,长者积累的功德正在光耀。

7.17.22

त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् ।
त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ ७.१७.२२ ॥

你具备一切美德,不应说这样的话。三界最美的女子啊,胆怯的人啊,你的青春正在消逝。

7.17.23

अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।
तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥ ७.१७.२३ ॥

我是楞伽的主人,名为十首罗波那。善良的女子啊,做我的妻子吧,随心享受各种欢乐。

7.17.24

कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।
वीर्येण तपसा चैव भोगेन च बलेन च ॥
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ॥ ७.१७.२४ ॥

你所称的毗湿奴究竟是谁?论勇力、苦行、威仪和力量,他都不及我,善良的女子啊,你所倾慕的那个人。

7.17.25

इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ॥ ७.१७.२५ ॥

他这样说完后,吠陀婆提回答道。

7.17.26

ैव भोगेन च बलेन च ॥
मा मैवमिति सा कन्या तमुवाच निशाचरम् ।
त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् ।
त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ॥ ७.१७.२६ ॥

吠陀婆提对那夜行者说:“不要这样说。除了你,罗刹之王,哪个智者会轻慢三界之主、为一切世界所礼敬的毗湿奴呢?”

7.17.27

एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।
मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ ७.१७.२७ ॥

吠陀婆提这样说后,那夜行者便用指尖触碰了少女的头发。

7.17.28

ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् ।
असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ॥ ७.१७.२८ ॥

那时吠陀婆提愤怒地用自己的手剪断了头发。她的手化为利剑,并使被剪断的头发保持原样。

7.17.29

सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।
उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ ७.१७.२९ ॥

她仿佛因愤怒而燃烧,仿佛要焚毁那夜行者,她召唤火神,急于赴死,开口说道。

7.17.30

धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ।
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ ७.१७.३० ॥

卑贱者啊,我被你所辱,已无生存之愿。因此,罗刹啊,我要在你的眼前投入这火中。

7.17.31

यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।
तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ ७.१७.३१ ॥

因为你这罪恶之人在林中侮辱了我,所以我将再度降生,以致你于死地。

7.17.32

न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः ।
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ ७.१७.३२ ॥

女子不能杀死存心作恶的男子;若我向你降下诅咒,我的苦修就会白费。

7.17.33

यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा ।
तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ ७.१७.३३ ॥

若我曾行过任何祭祀、布施或献火供,愿借此功德,我成为正法者之女,非由胎生而来的贞节之人。

7.17.34

एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ ७.१७.३४ ॥

说罢,她走入熊熊烈火之中,天空中四面八方降下了天界的花雨。

7.17.35

पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।
तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ७.१७.३५ ॥

她又在莲花之上显现,光辉如莲花一般;那罗刹又像先前一样把她带了回去。

7.17.36

कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।
प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ७.१७.३६ ॥

他带着那位如莲花蕊般光彩的少女回到自己的宫中;罗婆那抱起她,给他的大臣看。

7.17.37

लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् ।
गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ ७.१७.३७ ॥

精通相术的人仔细看了罗波那,便这样说道:“美腰的女子,她看来不是为家庭而生,而是为你的毁灭而现。”

7.17.38

एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः ।
सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ॥ ७.१७.३८ ॥

罗波那听后便把她投入大海,罗摩啊;她到达大地,落在祭坛的中央。

7.17.39

राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।
सैषा जनकराजस्य प्रसूता तनया प्रभो ।
तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ७.१७.३९ ॥

她就是贤德之女,由国王的犁尖挑起,又再次站立起来:这是遮那迦王所生的女儿。主啊,大臂者!她是你的妻子,因为你就是永恒的毗湿奴。

7.17.40

पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा ।
उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ॥ ७.१७.४० ॥

正如从前她杀死了那个怒气冲天的敌人,同样,那个生于山中的敌人也在依靠你非凡的力量后被杀死。

7.17.41

एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।
क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ७.१७.४१ ॥

如此,这位大福之女将再次降生于凡人之中:在被犁尖耕过的田地里,在祭坛上,如同火焰的光芒。

7.17.42

एषा वेदवती नाम पूर्वमासीत्कृते युगे ।
त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ ७.१७.४२ ॥

她在往昔的克利塔时代名为吠陀婆提;到达特勒塔时代,为了杀死那个罗刹,她再次降生。

7.17.43

उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।
सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ७.१७.४३ ॥

她生于大德者遮那伽的弥提罗族。因生于犁沟之中,世人又称她为悉多。