蚁垤《罗摩衍那》 · 篇 7.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.18.1
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।
पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ ७.१८.१ ॥
当吠陀跋提进入祭火之后,罗波那登上普须帕卡飞车,在大地上四处游行。
7.18.2
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।
उशीरबीजमासाद्य ददर्श स तु रावणः ॥ ७.१८.२ ॥
随后,罗波那来到名为乌尸罗菩阇的地方,看见国王摩噜多与诸神一同举行祭祀。
7.18.3
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।
याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ७.१८.३ ॥
梵仙善伐多,乃诃婆帝之兄,通晓法义,被诸天众围绕,主持祭祀。
7.18.4
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।
तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ७.१८.४ ॥
诸天见此罗刹因恩赐而不可战胜,畏惧其相,遂入于畜生之身。
7.18.5
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।
कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ॥ ७.१८.५ ॥
因陀罗化为孔雀,法王化为乌鸦,财神化为蜥蜴,水神伐楼那化为天鹅。
7.18.6
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।
रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ७.१८.६ ॥
诛灭敌人者啊,诸天以如此方式离去之后,罗波那便如不净之狗闯入祭祀之中。
7.18.7
तं च राजानमासाद्य रावणो राक्षसाधिपः ।
प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ॥ ७.१८.७ ॥
罗刹之主罗波那走近那位国王,说道:"给我战斗,或者说我已被击败。"
7.18.8
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।
अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ७.१८.८ ॥
于是国王摩卢多问他:"你是谁?"罗波那于是止住嘲笑,说出了这些话。
7.18.9
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।
धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ७.१८.९ ॥
"国王啊,虽无好奇之心,我对你的询问仍然感到欣慰。你不认识我吗?我罗波那,是施财者(俱毗罗)的幼弟。"
7.18.10
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।
भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।
ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ ७.१८.१० ॥
"三界之中,谁不知我的力量?是我战胜了兄长,夺来了这辆飞车。"于是国王摩卢多对那罗波那说道。
7.18.11
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।
न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥ ७.१८.११ ॥
"你的确有福,因为你在战场上战胜了兄长。在三界之中,没有与你相当、值得称赞的人。"
7.18.12
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।
कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ ७.१८.१२ ॥
"与不义相连的行为,即使关联着那个世界,也不值得称赞。你做了邪恶之事,却因战胜兄弟而受到赞美。"
7.18.13
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।
श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ ७.१८.१३ ॥
你是谁?你曾经仅凭修行法道而获得恩赐。你自己所说的这些话,我从前从未听过。
7.18.14
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।
अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ ७.१८.१४ ॥
站住!今日你不会活着从我这里回去,恶意之徒!我将以利箭把你送往阎摩之所。
7.18.15
ततः शरासनं गृह्य सायकांश्च नराधिपः ।
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ ७.१८.१५ ॥
于是人主持弓执箭,怒气冲冲地出发迎战;僧伐多堵住了道路。
7.18.16
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।
श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥ ७.१८.१६ ॥
那位大仙怀着慈爱对摩录多说:若你肯听我的话,你不宜交战。
7.18.17
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ ७.१८.१७ ॥
这场大自在天之祭尚未完成;它将焚烧整个家族。
7.18.18
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।
संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ ७.१८.१८ ॥
受戒者怎会有战斗?受戒者怎会有愤怒?胜利之中常有疑虑,而罗刹极难战胜。
7.18.19
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।
विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ॥ ७.१८.१९ ॥
听从老师的话,大地之主摩禄多收回心意,放下带箭的弓,心神安定,站在祭祀之前。
7.18.20
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।
रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ ७.१८.२० ॥
以为他已被击败,шук便宣告了此事;罗波那欢喜之下高声咆哮道:“罗波那获胜!”
7.18.21
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।
वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ ७.१८.२१ ॥
他吞食了前来祭祀并站在那里的大仙人,饱饮了他们的血,便又返回大地。
7.18.22
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।
ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ ७.१८.२२ ॥
罗波那离去后,因陀罗率众天神回到自己的居所,并对那些生灵说话。
7.18.23
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।
प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ ७.१८.२३ ॥
于是因陀罗欢喜地对那只蓝羽孔雀说:“精通法的你,我对你很满意;你不必害怕蛇。”
7.18.24
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।
एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ ७.१८.२४ ॥
“你的羽毛上将有这千只眼睛;我降雨时,你将获得充满喜悦的欢乐。”就这样,众神之主因陀罗赐予了孔雀一个恩惠。
7.18.25
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।
सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ॥ ७.१८.२५ ॥
人主啊,往昔孔雀的羽毛是深蓝色的;从众神之主那里得到恩赐后,它们全都变成了那样。
7.18.26
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।
पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ ७.१८.२६ ॥
罗摩啊,法王(阎摩)往昔对栖于族中的一只乌鸦说:“鸟啊,我非常喜欢你;请听我满怀欢喜所说的话。”
7.18.27
यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया ।
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ ७.१८.२७ ॥
其他生灵由我而遭受种种疾病之苦,但当我欢喜时,这些疾病将不能伤害你——对此毫无疑问。
7.18.28
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम ।
यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ ७.१८.२८ ॥
鸟啊,因我的恩赐,你不惧死亡;只要人们不杀你,你就会存在下去。
7.18.29
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ ७.१८.२९ ॥
住在我领地中的这些人饱受饥饿与恐惧的折磨;当你被食用后,他们和亲属都将得到满足。
7.18.30
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ७.१८.३० ॥
伐楼那对在恒河水中嬉戏的天鹅说:“鸟王啊,请听我满怀情意的话。”
7.18.31
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः ।
भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ७.१८.३१ ॥
你的颜色将美丽而温柔,如同月轮;你的光泽将高洁如纯净的泡沫。
7.18.32
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ ७.१८.३२ ॥
得到我的身体后,你将永远被喜爱,并获得无与伦比的爱;这便是我爱意的标志。
7.18.33
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ।
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ७.१८.३३ ॥
罗摩啊,往昔天鹅呈深蓝色并带淡白;它们的翅膀尖端深蓝,胸腹洁净如草尖。
7.18.34
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।
हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ७.१८.३४ ॥
于是毗舍罗婆那(俱毗罗)对站在山上的壁虎说:“我将赐你金色之身,因为我也对你感到满意。”
7.18.35
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ७.१८.३५ ॥
你的头颅将永远拥有不竭的善财;因我的恩惠,这金色将属于你。
7.18.36
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।
निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥ ७.१८.३६ ॥
如此赐予他们恩典之后,诸神与国王一同从那场祭祀盛典中返回,又各自回到了自己的居所。