蚁垤《罗摩衍那》 · 篇 7.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.2.1
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥ ७.२.१ ॥
大德的罗怙后裔听罢此言,大光明的瓶生仙人便对罗摩说了这番话。
7.2.2
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।
जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ ७.२.२ ॥
罗摩啊,请听他的事迹始末:他的大威光与力量,凭此他杀灭了敌人,而他也不会被敌人杀死。
7.2.3
तावत्ते रावणस्येदं कुलं जन्म च राघव ।
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ७.२.३ ॥
罗怙之子啊,现在我为你讲述罗波那的家族、他的出生,以及授予他的恩赐。
7.2.4
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ७.२.४ ॥
罗摩啊,往昔在克里塔时代,有一位主宰者名叫补羯室建,是生主之子,婆罗门仙人,仿佛亲身即是祖父梵天。
7.2.5
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ७.२.५ ॥
他在法与品行上的德性,无法完全叙述;只能就名称而言,说他是生主之子。
7.2.6
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।
हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ७.२.६ ॥
作为生主之子,他为诸神所爱;这位大智者以其光明的德性使整个世界欢喜。
7.2.7
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।
तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७.२.७ ॥
因论说法义之缘,他前往大山弥卢之侧的檀陀宾度仙人精舍居住,乃是诸仙中的最优者。
7.2.8
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ७.२.८ ॥
此正义之人以诵习经典约束诸根而修苦行;少女们来到他的精舍之处,制造障碍。
7.2.9
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।
क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ७.२.९ ॥
天神与龙蛇之女、王仙之女,以及天女们,嬉戏着来到了那个地方。
7.2.10
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ ७.२.१० ॥
因四季皆可享受,且森林秀美,少女们总是前往那地方嬉戏。
7.2.11
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।
गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।
मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ७.२.११ ॥
因所居之地甚美,婆罗门仙人补罗斯蒂耶所在之处,那些无瑕的少女们或歌或奏乐或舞蹈,扰乱了这位苦行仙人的修行。
7.2.12
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ ७.२.१२ ॥
那时,大光明的大仙愤怒地说道:“凡来到我眼前的少女,必将怀上身孕。”
7.2.13
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ ७.२.१३ ॥
她们都答应了这位大德的话,因惧怕婆罗门的诅咒,便不再靠近那个地方。
7.2.14
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ ७.२.१४ ॥
然而,王仙仙人特里纳宾杜的女儿没有听到这些。
7.2.15
गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।
न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥ ७.२.१५ ॥
她来到修行之地,毫无畏惧地四处走动,却没有看见有一位来到此地、站在那里的女伴。
7.2.16
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।
स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ ७.२.१६ ॥
那时,具有大光辉、出自生主之族的大仙,因苦行而清净,正亲自在那里诵习吠陀。
7.2.17
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ ७.२.१७ ॥
她听到吠陀之声,又见到这苦行的宝藏,身体果然变得苍白,身上的怀孕征象明显显现出来。
7.2.18
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।
इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ॥ ७.२.१८ ॥
她看见自己的这一过失,心中极为不安;她想:“这是怎么回事?”便去到父亲的修行处,站在那里。
7.2.19
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ ७.२.१९ ॥
看到她这样变了形,多里那宾都说:“你为何以这样不相称的形貌示人?”
7.2.20
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।
न जाने कारणं तात येन मे रूपमीदृशम् ॥ ७.२.२० ॥
这位少女悲伤地合掌对那位苦行的圣人说:“父亲,我不知道我的形貌为何变成这样。”
7.2.21
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ ७.२.२१ ॥
先前我独自前往自制的大仙人补罗斯底耶的神圣净修林,寻找我的伙伴。
7.2.22
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।
रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ ७.२.२२ ॥
在那里我没有看到任何已经到来的伙伴;看到自己形貌如此颠倒,我害怕,便来到这里。
7.2.23
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।
ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ ७.२.२३ ॥
然而,因苦行而光辉照耀的王仙多里那宾都进入禅定,并看出这乃是仙人之业所生。
7.2.24
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ ७.२.२४ ॥
于是,他明白了那位自制的大仙人的诅咒,便带着女儿去见补罗斯底耶,并说了这些话。
7.2.25
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ ७.२.२५ ॥
尊者啊,这是我的女儿,她以自身的德行而庄严。大仙啊,请接受这份她自愿献上的供养。
7.2.26
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।
शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ ७.२.२६ ॥
她将始终尽心侍奉您,您修持苦行,诸根已然疲倦;此事毫无疑问。
7.2.27
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ७.२.२७ ॥
当那位正直的王仙说出这些话时,那位再生者想要娶这位少女,便说:「好。」
7.2.28
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ ७.२.२८ ॥
依法把她交付之后,他回到了自己的修行林。那位少女也住在那里,以自己的德行使丈夫欢喜。
7.2.29
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ ७.२.२९ ॥
那位最尊的仙人因她的品德与行为而欢喜;满心喜悦的这位大光辉者说出了这些话。
7.2.30
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।
तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ ७.२.३० ॥
美臀的女子啊,我因你德行的丰盛而深感欢喜。因此,女神啊,今日我赐予你一个与我相等的儿子。
7.2.31
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।
यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ॥ ७.२.३१ ॥
他将成为两个家族的始祖,并以补罗私多之名闻名,因为我学习吠陀时,你曾聆听并领会了它。
7.2.32
तस्मात्स विश्रवा नाम भविष्यति न संशयः ।
एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ ७.२.३२ ॥
因此他将名为毗室罗婆,此毫无疑问。女神闻言,心中欢喜,...
7.2.33
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।
त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ७.२.३३ ॥
不久,她便生下了毗室罗婆之子,他名闻三界,兼具声望与法德。
7.2.34
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।
पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ७.२.३४ ॥
他通晓吠陀,视众平等,专心于戒律与品行;如其父一般具足苦行,毗室罗婆遂成为一位圣人。