Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.20.1

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।
आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ ७.२०.१ ॥

此时,在大地上惊吓凡人的罗刹之王,在那片浓云中接近了最杰出的仙人那罗陀。

7.20.2

तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।
अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ ७.२०.२ ॥

十首的夜行者向他行礼,问候安好并询问来意后说道:

7.20.3

नारदस्तु महातेजा देवर्षिरमितप्रभः ।
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ७.२०.३ ॥

然而,大光明、无量光辉的天仙那罗陀站在云背上,对站在普什帕卡车中的罗波那说道。

7.20.4

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।
प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥ ७.२०.४ ॥

罗刹之王啊,善良的毗什罗婆之子,停下!你那与高贵家族相称的强大勇力使我欢喜。

7.20.5

विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।
त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ७.२०.५ ॥

与毗湿奴共同诛灭达蒂耶、降服乾闼婆与蛇族,以及与你交手的事迹,使我大为欢喜。

7.20.6

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।
तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ७.२०.६ ॥

我要对你说一些话,你若愿听便听。罗刹中最杰出者啊,听完之后,你应当去做该做的事。亲爱的,我说话时请专心倾听。

7.20.7

किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।
हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७.२०.७ ॥

孩子啊,连天神也不能杀的人,你为何要杀?这个已落入死亡之手的世界,早已被击倒了。

7.20.8

्तम ।
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।
अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ७.२०.८ ॥

你是天神、檀那婆、提婆、夜叉、乾闼婆、罗刹都不能杀死的,不应去折磨人间的世界。

7.20.9

नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।
हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ७.२०.९ ॥

这样一个始终迷惑于福祉、被重大灾难所困、又为数百种衰老与疾病所缠的世界,谁会杀它呢?

7.20.10

तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।
मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ ७.२०.१० ॥

在到处不断充满各种不幸事件的人间世界里,哪位智者会通过战争去爱慕它呢?

7.20.11

क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।
विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ ७.२०.११ ॥

不要毁灭这个因饥渴、衰老等而日渐消损、被命运所击、为忧愁与悲伤所迷惑的世界。

7.20.12

पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।
मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ ७.२०.१२ ॥

啊,大臂的罗刹之王,你且看看人类吧——如此迷惑、目的奇特、其去向无人知晓的人类。

7.20.13

क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ ७.२०.१३ ॥

有处欢乐的人们享受着音乐、舞蹈等;另一处,悲伤的人们泪流满面地哭泣。

7.20.14

मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।
मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ ७.२०.१४ ॥

这人被母亲、父亲、儿子的亲情,以及妻子和亲族迷人的纽带所迷惑,正在毁灭,却不觉察自己的苦难。

7.20.15

अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।
जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ ७.२०.१५ ॥

够了!不要再折磨这被迷惑所征服的世界。善良的人啊,你已经征服了凡人世界,毫无疑问。

7.20.16

अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।
तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ ७.२०.१६ ॥

所有这些人必定都要前往阎摩之居。因此,补罗斯底耶的后裔啊,攻克敌城的勇士,你去制服阎摩吧。

7.20.17

तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।
एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।
अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥ ७.२०.१७ ॥

他若被征服,一切便都被征服,毫无疑问。被如此告知后,楞伽之主以自身光辉照耀,在那里大笑,向那罗陀致敬后说道。

7.20.18

महर्षे देवगन्धर्वविहार समरप्रिय ।
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ ७.२०.१८ ॥

伟大的仙人啊,在天神与乾闼婆之间游历者,好战之人!为了胜利,我已准备前往罗萨塔拉(地下界)。

7.20.19

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।
समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ ७.२०.१९ ॥

随后,我将征服三界,使诸龙与诸天俯首听命,为求甘露而搅动这水之居所——大海。

7.20.20

अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।
क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ ७.२०.२० ॥

于是尊贵的仙人那罗陀对十首的罗波那说:“你现在要去哪里?你走的是另一条路。”

7.20.21

अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ ७.२०.२१ ॥

“此路实在极难通行,它通往死者之王的城邦。摧毁敌人者啊,这是阎摩那无法抵挡的道路。”

7.20.22

स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ ७.२०.२२ ॥

十首罗波那却如秋云般大笑,说道:“此事已经办妥了。”于是说出了这番话。

7.20.23

तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ ७.२०.२३ ॥

“因此,婆罗门啊,我决意诛杀维瓦斯瓦塔,正前往南方,那里住着太阳之子的国王。”

7.20.24

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।
अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ ७.२०.२४ ॥

“尊贵者啊,我出于愤怒且渴望战斗,已立下誓愿:主啊,我将征服四方护世神。”

7.20.25

तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।
प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥ ७.२०.२५ ॥

因此我从此处出发,前往死王的城市;使众生受苦的那人,我将让他与死神相会。

7.20.26

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।
प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥ ७.२०.२६ ॥

说完这些,十首的罗波那向那位仙人致敬,便与大臣们一同向南方而去。

7.20.27

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ ७.२०.२७ ॥

光辉伟大的那罗陀静坐冥想片刻,陷入沉思;那位婆罗门中的至尊闪耀如无烟之火。

7.20.28

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ ७.२०.२८ ॥

那使三界连同因陀罗以及一切动与不动之众生受苦、又在寿命耗尽时依法带来死亡的时间,将如何被战胜?

7.20.29

स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।
लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ ७.२०.२९ ॥

他是自己所施与所作为的见证者,如同第二团火焰;那位大人,众生因之获得觉知,而世界被征服——

7.20.30

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।
तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ॥ ७.२०.३० ॥

三界因其恐惧而备受折磨、常常逃避——罗刹之主怎会亲自前去见他呢?

7.20.31

यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ७.२०.३१ ॥

他是创造者与守护者,善恶业报的主宰,征服了三界——如何能够战胜他?

7.20.32

अपरं किन्तु कृत्वायं विधानं संविधास्यति ।
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ ७.२०.३२ ॥

然而另有他人会安排此事。出于好奇,我将前往阎摩之所。

7.20.33

विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ७.२०.३३ ॥

我将亲自前去观看这两者——阎摩与罗刹之间的冲突。