蚁垤《罗摩衍那》 · 篇 7.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.21.1
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ ७.२१.१ ॥
如此思量之后,这位婆罗门中的翘楚、步履轻捷的仙人,便前往阎摩的住所,去告知所发生的一切。
7.21.2
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ ७.२१.२ ॥
他在那里看见了神明阎摩,前面供奉着火神,依礼而立,按照众生的所行给予相应的果报。
7.21.3
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ७.२१.३ ॥
阎摩看见大仙那罗陀到来,便让他安坐,依法奉上供水,然后说道。
7.21.4
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।
किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ७.२१.४ ॥
天仙啊,一切安好吗?正法没有衰亡吧?受诸天与乾达婆供养的您,前来的目的是什么?
7.21.5
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।
श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ७.२१.५ ॥
于是,尊贵的仙人那罗陀说道:“请听,我将宣说,且让此仪轨得以施行。”
7.21.6
एष नाम्नो दशग्रीवः पितृराज निशाचरः ।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ७.२१.६ ॥
阎摩之王啊,这位名叫十首的夜行者,正凭借其威力前来制服您,而您是极难战胜的。
7.21.7
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।
दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥ ७.२१.७ ॥
因此我匆忙赶来,主人。今日持杖的你将会怎样呢?
7.21.8
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।
ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ७.२१.८ ॥
就在此时,他们远远看见那罗刹的空中车辇闪耀而来,宛如升起的太阳。
7.21.9
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।
कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ॥ ७.२१.९ ॥
以普史波迦车辇的光芒照亮整个地方,这位大力者来到近前。
7.21.10
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ ७.२१.१० ॥
那大臂的十首罗刹王四下观望,看见众生正在承受自己善行与恶行的果报。
7.21.11
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।
यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ७.२१.११ ॥
他看见阎摩的士兵与阎摩的侍从在一起,都是凶猛、形貌可怖、令人惊骇的人。
7.21.12
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।
क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ ७.२१.१२ ॥
他看见有形之身者正被击打、受折磨,大声哭喊,发出剧烈的呻吟。
7.21.13
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ ७.२१.१३ ॥
他看见那些被蛆虫和凶猛的狗啃食的人。
7.21.14
क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।
सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ ७.२१.१४ ॥
说话刺耳惊人的人,以及被反复押渡血水之河韦塔兰尼的人。
7.21.15
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।
असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ ७.२१.१५ ॥
他看见不义之人在滚烫的沙地上被反复烤烧,并在剑叶林中被刺穿。
7.21.16
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।
पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ ७.२१.१६ ॥
在罗罗婆地狱、咸水河和剃刀之流中;他看见乞求水的口渴和饥饿的人。
7.21.17
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।
मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥ ७.२१.१७ ॥
他看见那些如同尸体、消瘦、可怜、面色苍白、披头散发、满身污秽与泥浆、粗陋、四处奔跑的人。
7.21.18
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः ।
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।
प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ ७.२१.१८ ॥
罗波那在路上看见成百上千的人。他看见一些人在大宅中伴着歌声与乐器之声欢喜,因自己的善行而快乐。
7.21.19
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।
गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ ७.२१.१९ ॥
布施牛与芝麻的人、布施食物的人、布施房屋的人,都在享受自己所作之业的果报。
7.21.20
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥ ७.२१.२० ॥
以金、宝石、珍珠和女子装饰。
7.21.21
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।
ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ ७.२१.२१ ॥
罗刹之主、大臂的罗婆那在那里看见其他以自身光辉闪耀的义人。
7.21.22
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।
रावणो मोचयामास विक्रमेण बलाद्बली ॥ ७.२१.२२ ॥
于是力大的罗婆那以勇力和威力,解救了那些被自己恶业撕裂的人。
7.21.23
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ ७.२१.२३ ॥
被十首罗刹解救的那些众生,片刻间获得了意想不到、难以想象的快乐。
7.21.24
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।
प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ ७.२१.२४ ॥
当大力罗刹释放饿鬼之时,饿鬼的看守极度愤怒,冲向罗刹之主。
7.21.25
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।
धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥ ७.२१.२५ ॥
此时,法王的勇士们奔驰而来,从四面八方响起了呼喊之声。
7.21.26
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।
पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ ७.२१.२६ ॥
这些勇士成百上千地向普希帕卡飞车投掷长矛、铁棍、三叉戟、木槌、标枪与短枪,如雨般倾泻。
7.21.27
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ ७.२१.२७ ॥
他们像蜜蜂一样迅速捣毁了普希帕卡飞车的座位、楼阁、平台和门楼。
7.21.28
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ ७.२१.२८ ॥
那作为诸神居所的普希帕卡飞车,虽在战斗中被毁坏,却因梵天的威力而永不损坏。
7.21.29
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।
शूराणामग्रयातऽणां सहस्राणि शतानि च ॥ ७.२१.२९ ॥
那位大心者的军队不可计数,极为庞大;走在前面的勇士有数千乃至数百。
7.21.30
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।
ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।
अयुध्यन्त महावीराः स च राजा दशाननः ॥ ७.२१.३० ॥
随后,他的大臣们依自己的意愿和力量,以树木、山岳和成百上千的楼阁作战;那些大勇士们与国王十首罗波那也投入了战斗。
7.21.31
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ ७.२१.३१ ॥
众大臣身被鲜血,遭各式兵器击伤,为罗刹之王展开了一场大战。
7.21.32
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।
यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ७.२१.३२ ॥
啊,大臂者!阎摩与罗波那的那些福德之臣,以兵器猛烈地相互攻击。
7.21.33
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।
तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ७.२१.३३ ॥
阎摩的大力战士们舍弃那些大臣,以如雨的长矛直冲向十首罗波那。
7.21.34
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।
फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ७.२१.३४ ॥
此时,身被鲜血、被打击得遍体鳞伤的罗刹之王,立于普思波迦车上,犹如盛开的阿输迦树般闪耀。
7.21.35
स तु शूलगदापासाञ्छक्तितोमरसायकान् ।
मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ ७.२१.३५ ॥
这位大力者凭借兵器之力,开始投掷长矛、铁锤、绳索、标枪、短矛与箭矢,以及铁杵、巨石与树木。
7.21.36
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।
यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ७.२१.३६ ॥
那可怕至极的树木、巨石与兵器之雨,落在阎摩的军队之上,坠于大地表面。
7.21.37
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ७.२१.३७ ॥
他们刺穿了所有人,挡开了那件武器,对那个可怖的罗刹一人打击了成百上千次。
7.21.38
परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ७.२१.३८ ॥
他们全体将他包围,如同徒然降雨的云团环绕山峰,用青铜投枪和长矛击打他,直到他喘不过气来。
7.21.39
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।
ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ७.२१.३९ ॥
他的铠甲已脱落,愤怒且被血流浸透,于是他离开了普什帕卡战车,站立在大地上。
7.21.40
ततः स कार्मुकी वाणी समरे चाभिवर्तत ।
लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ ७.२१.४० ॥
于是他手持弓箭在战斗中前进;片刻便恢复知觉,愤怒地挺立,如同死神阎摩。
7.21.41
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥ ७.२१.४१ ॥
于是他将神圣的波输巴多武器搭在弓上,对他们喝道:「站住,站住!」,然后拉开了弓。
7.21.42
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।
मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥ ७.२१.४२ ॥
于是因陀罗的敌人将弓拉至耳边,在战斗中放出那支箭——正如愤怒的湿婆向三城射出一样。
7.21.43
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।
वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ७.२१.४३ ॥
那支箭的形态如同一圈无烟的火焰,好似夏日里燃起、即将焚烧森林的野火。
7.21.44
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।
मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥ ७.२१.४४ ॥
那支缠绕着火焰花环、伴随食肉之物的箭,在战场上被射出,一路焚烧灌木与树木,疾驰而去。
7.21.45
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।
रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ७.२१.४५ ॥
被其光焰焚烧的阎摩(Vaivasvata)之军,在那场战斗中倒下,如同被野火烧焦的树木。
7.21.46
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।
ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ७.२१.४६ ॥
于是,那威猛可畏的罗刹与大臣们一同发出巨大的吼声,仿佛要震动大地。