Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.22.1

स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः ।
शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ ७.२२.१ ॥

闻其巨吼,主神毗婆斯伐多(阎摩)以为敌人已获胜,自己的军队已被消灭。

7.22.2

स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ।
अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ॥ ७.२२.२ ॥

他以为士兵已被杀死,怒目通红,急忙对御者说:“把这辆战车牵过来。”

7.22.3

तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् ।
स्थितः स च महातेजा ह्यध्यारोहत तं रथम् ।
प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ७.२२.३ ॥

于是御者牵来神圣的大战车并停住;那位光辉耀眼的人登上了战车。手持长矛与铁棒的死神,站在他的面前。

7.22.4

येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ।
कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ।
यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ७.२२.४ ॥

这三界不朽之物皆由其所收摄;时间之杖立于他身旁,化为有形之体。阎摩的神器以光辉燃烧,如火一般。

7.22.5

तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ ७.२२.५ ॥

他的两侧布置着无隙的时间之索。

7.22.6

पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ ७.२२.६ ॥

如火焰触碰般的铁棒,化为有形之体矗立在那里。

7.22.7

ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः ।
कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ७.२२.७ ॥

于是三界震动,天众战栗,见愤怒的迦罗(时间)令一切世界恐惧。

7.22.8

ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् ।
प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७.२२.८ ॥

于是御者驱策那些光彩熠熠的骏马,发出可怖的吼声,前往罗刹之王所在之处。

7.22.9

मुहूर्तेन यमं ते तु हया हरिहयोपमाः ।
प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ७.२२.९ ॥

顷刻之间,那些如同因陀罗之马、速度如意念的骏马,将他带到了战场准备就绪之处。

7.22.10

दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् ।
सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ७.२२.१० ॥

众大臣见那战车同样残破、伴随死亡,罗刹之王的谋臣们立刻四散奔逃。

7.22.11

लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः ।
नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ ७.२२.११ ॥

因心志怯弱,失去理智,被恐惧折磨,他们说:“我们无力在此作战。”于是向四方逃去。

7.22.12

स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।
नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ ७.२२.१२ ॥

然而十首罗波那见那令众世界恐惧的战车如此,既不惊慌,恐惧也未侵入他心中。

7.22.13

स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् ।
यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ॥ ७.२२.१३ ॥

阎摩走近罗波那,怒火中烧,投出长矛和投枪,刺中了罗波那的要害。

7.22.14

रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह ।
तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ ७.२२.१४ ॥

然而罗波那镇定下来,向毗婆沙多之子阎摩的战车倾泻箭雨,犹如乌云降下雨水。

7.22.15

ततो महाशक्तिशरैः पात्यमानैर्महोरसि ।
नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ ७.२२.१५ ॥

于是,罗刹被巨大的长矛和箭矢击中宽阔的胸膛,因箭伤而痛苦,无法还击。

7.22.16

एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा ।
सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ ७.२२.१६ ॥

就这样,征服敌人的阎摩用各种兵器,在战斗中连续七夜使敌人失去知觉、背转而逃。

7.22.17

तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः ।
जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ ७.२२.१७ ॥

于是阎摩与罗刹之间爆发了激烈的战斗。英雄啊,二者都渴望胜利,在战斗中都不退缩。

7.22.18

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ ७.२२.१८ ॥

于是诸神与乾闼婆、悉陀及大仙,推举生主(梵天)在前,在那战场上聚集。

7.22.19

संवर्त इव लोकानां क्रुध्यतोरभवत्तदा ।
राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ ७.२२.१९ ॥

那时,如同世界的末劫,罗刹之主与亡灵之主同时大怒。

7.22.20

राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् ।
निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ॥ ७.२२.२० ॥

罗刹之主也拉开如因陀罗霹雳般闪耀的弓,射出的箭矢密布天空,不留一丝空隙。

7.22.21

मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् ।
यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ ७.२२.२१ ॥

他以四支箭射伤死神,以七支箭射伤其御者,又迅速以十万支箭击中阎摩的要害。

7.22.22

ततः क्रुद्धस्य वदनाद्यमस्य समजायत ।
ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ॥ ७.२२.२२ ॥

于是,从震怒的阎摩面上升起一团愤怒之火,火焰为环,喷吐气息与浓烟。

7.22.23

तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ ।
प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ ७.२२.२३ ॥

那时,在诸天神与檀那婆面前见到这一奇事,死神与时间既欢喜又极为愤怒。

7.22.24

ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत ।
मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् ।
नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ॥ ७.२२.२४ ॥

于是死神更加愤怒,对毗婆娑之子阎摩说:请在战斗中放我出去,让我击打这个罪恶的罗刹。按其本性,今天这罗刹不应有此限制。

7.22.25

हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ।
विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ॥ ७.२२.२५ ॥

光辉的希兰亚迦希布、纳穆契与商跋罗,还有毗桑地、烟彗,以及毗卢遮那之子钵利。

7.22.26

दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ।
राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ ७.२२.२६ ॥

顿布、达蚁之大王弗栗多,以及巴那;还有通晓典籍的王仙、乾达婆与大蛇。

7.22.27

ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः ।
युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ ७.२२.२७ ॥

诸仙人、龙蛇、阿修罗、夜叉,以及诸天女;在劫末的变换之时,大地连同大海。

7.22.28

क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ।
एते चान्ये च बहवो बलवन्तो दुरासदाः ॥ ७.२२.२८ ॥

大王啊,连同山岳、河流与树木的大地都被带入毁灭;他们与其他许多强大而难以接近的存在也是如此。

7.22.29

विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ ७.२२.२९ ॥

我所见被我击倒者尚且如此,何况这个夜行的罗刹。

7.22.30

मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।
नहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ७.२२.३० ॥

精通法者啊,请放开我,让我把他杀死;凡我所见的强者,也没有一个能活下来。

7.22.31

बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।
स दृष्टो न मया कालं मुहुर्तमापि जीवति ॥ ७.२२.३१ ॥

这并非我的力量,而是我天性的界限。我从未见他活过哪怕一瞬。

7.22.32

तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् ।
अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ७.२२.३२ ॥

法王听到他的话,威严地对死神说:“你停下,我亲自来杀他。”

7.22.33

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।
कालदण्डममोघं तु तोलयामास पाणिना ॥ ७.२२.३३ ॥

于是,双目通红、震怒的主神毗婆娑多以手掂量那不会落空的时间之杖。

7.22.34

यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः ।
पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ॥ ७.२२.३४ ॥

他两侧陈列着一切时间的绳索,一柄化为实体的铁杵矗立着,如同烈火与雷霆。

7.22.35

दर्शनादेव यः प्राणान्प्राणिनामपकर्षति ।
किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ७.२२.३५ ॥

只需一见便能夺去众生性命的,倘若被他触及或击倒,又将如何?

7.22.36

स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् ।
तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ॥ ७.२२.३६ ॥

它被火焰环绕,仿佛要焚烧罗刹一般;那巨大的兵器被强者触及,颤动起来。

7.22.37

ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे ।
सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ७.२२.३७ ॥

于是众人在战场上因他而惊恐奔逃;众神见阎摩举起刑杖,也都惶恐不安。

7.22.38

तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् ।
यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ७.२२.३८ ॥

阎摩想以刑杖击打罗波那时,祖父梵天亲自显现,对阎摩说了这些话。

7.22.39

वैवस्वत महाबाहो न खल्वमितविक्रम ।
न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ७.२२.३९ ॥

啊,毗婆娑之子,大臂者,无量威勇者!你不可用那根刑杖击杀这个夜行者。

7.22.40

वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव ।
स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ७.२२.४० ॥

诸神中的翘楚啊!我已经赐给他一个恩典;你不可使我所说的话成为虚妄。

7.22.41

यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा ।
त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ७.२२.४१ ॥

无论神还是人,若使我成为虚妄,那么三界便因他而成为虚妄,这一点毫无疑问。

7.22.42

क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये ।
प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ७.२२.४२ ॥

此物在愤怒中发出,不分亲疏,毁灭众生,令三界恐惧。

7.22.43

अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः ।
कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ७.२२.४३ ॥

此物万无一失,对一切众生光明无限。往昔我以死神居前而造出此时之杖。

7.22.44

तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि ।
नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ७.२२.४४ ॥

故善者,不可将其投于罗婆那之首;此物一落,无人能存活片刻。

7.22.45

यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः ।
म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ॥ ७.२२.४५ ॥

若此罗刹落其身而不死,或十首者死,则两种情形皆为虚妄。

7.22.46

तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् ।
सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ७.२२.४६ ॥

故当收回此高举于楞伽主之上的杖;若你顾念诸世界,今日便使我言而有实。

7.22.47

एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।
एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ७.२२.४७ ॥

如此被告,法魂之阎摩便答道:此杖已收回;因你对我们有权能。

7.22.48

किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ।
न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ७.२२.४८ ॥

我既已赴战,今当何为?若此人受赐恩惠,我竟不能杀之,

7.22.49

एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।
इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ७.२२.४९ ॥

他说:“因此我将从这罗刹的视野中消失。”说罢,连同战车和马匹,当场隐没不见。

7.22.50

दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।
आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ ७.२२.५० ॥

然而十首罗波,击败了他并宣扬了自己的名号,再次登上布须波迦车,离开了阎摩的居所。

7.22.51

स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।
जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ७.२२.५१ ॥

于是,毗婆娑多阎摩在梵天为首的诸神陪同下,欢喜地前往天界,大仙那罗陀也一同前往。