蚁垤《罗摩衍那》 · 篇 7.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.23.1
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।
रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ ७.२३.१ ॥
随后,十首罗波那战胜了三十天神中的最优者阎摩;而好夸耀战功的罗波那看见了他自己的同伴。
7.23.2
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।
रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ॥ ७.२३.२ ॥
于是罗刹们看见罗波那全身浸满鲜血、被打击得支离破碎,惊惶地走近他。
7.23.3
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।
पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ७.२३.३ ॥
众罗刹以摩里者为首,歌颂胜利,并受到罗波那的安慰,全都登上了普什帕卡飞车。
7.23.4
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् ।
दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ७.२३.४ ॥
随后他前往地底世界,进入了水之宝藏——大海。那里居住着众多达提耶与蛇神,并由伐楼那妥善守护。
7.23.5
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।
कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥ ७.२३.५ ॥
他前往由婆苏吉守护的薄伽婆提城,制服了龙众,欢喜地前往宝石之城。
7.23.6
निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।
राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ७.२३.६ ॥
住在那里的是获得恩赐的尼婆多迦婆查达提耶,他们走近罗刹之主,向他挑战以求一战。
7.23.7
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।
नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥ ७.२३.७ ॥
那些勇猛的提提亚们,力量强大,手持各种兵器,在那里欢欣雀跃,沉醉于战斗的狂热之中。
7.23.8
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।
अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ ७.२३.८ ॥
愤怒的罗刹与檀那婆以长矛、三叉戟、金刚杵、铁棒、剑和斧相互刺杀。
7.23.9
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।
न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ॥ ७.२३.९ ॥
他们交战之际,已过了整整一年有余,双方既无胜负,也无伤亡。
7.23.10
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।
आजगाम द्रुतं देवो विमानवरमास्थितः ॥ ७.२३.१० ॥
于是,三界的依归、不灭的祖父,乘坐殊胜的天车迅速来到那里。
7.23.11
निवातकवचानां तु निवार्य रणकर्म तत् ।
वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ७.२३.११ ॥
阻止了尼瓦塔卡伐恰的那场战斗后,年迈的祖父说出了意味深长的话。
7.23.12
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।
न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ ७.२३.१२ ॥
罗波那在战斗中即使诸天与阿修罗也无法战胜,你们即便与天神和檀那婆联手,也不能使他走向毁灭。
7.23.13
राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।
अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ ७.२३.१३ ॥
与罗刹结成的友谊,与你们在一起,令我欢喜。朋友的一切利益是不可分割的,这没有疑问。
7.23.14
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।
निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ ७.२३.१४ ॥
于是罗波那以火为证,在那里结成友谊,并与尼婆多迦婆迦们一同欢喜。
7.23.15
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।
स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥ ७.२३.१५ ॥
与他们依礼共住一年,十首罗刹虽远离自己的城邑,却得到了无差别的所爱。
7.23.16
ततोपधार्य मायानां शतमेकं समाप्तवान् ।
सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥ ७.२३.१६ ॥
于是他思量之后,完成了百种幻术中的一种,寻找水主的城邑,在地下界游荡。
7.23.17
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् ।
गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ ७.२३.१७ ॥
随后,他前往名为阿什摩那伽罗的城市,那里为迦罗刹耶所占,他在那里杀死了凶猛的迦罗刹耶……
7.23.18
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।
श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् ।
जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ ७.२३.१८ ॥
于是他以剑斩杀了首尔帕那卡的丈夫,同样斩杀了强大的内兄毗尤冀訶婆,以及在战斗中用舌头舔舐的罗刹。
7.23.19
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ ७.२३.१९ ॥
他顷刻间战胜对方,杀死了四百名达提耶。
7.23.20
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ ७.२३.२० ॥
此时,罗刹之主看见了伐楼那的神圣居所,它如浅色云朵,又如凯拉萨山般光辉。
7.23.21
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।
यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ ७.२३.२१ ॥
他在那里看见站立着、流淌着乳汁的苏罗跋伊神牛,乳汁的流出孕育了名为乳海的大海。
7.23.22
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।
यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ ७.२३.२२ ॥
罗波那在那里看见了牛群中至尊的源泉,清凉光芒的夜之主月亮便由此升起。
7.23.23
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।
अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥ ७.२३.२३ ॥
依靠它,饮用泡沫的至高仙人得以生存;甘露在此诞生,食用斯瓦达的祖灵的斯瓦达也在此产生。
7.23.24
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ॥ ७.२३.२४ ॥
罗波那绕行那头至为奇妙的神牛,世人称之为苏罗跋伊。
7.23.25
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ।
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ ७.२३.२५ ॥
他进入了这处极为可怖、由各种军队守卫的地方。随后他看见了伐楼那的殊胜宫殿,那里有数百道水流,形如秋云,常怀喜悦。
7.23.26
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।
अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥ ७.२३.२६ ॥
随后,他在战斗中杀死了他们的将领,又被他们击伤,便对战士们说:“快去禀报。”
7.23.27
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।
वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ॥ ७.२३.२७ ॥
罗波那为求战而来;请与他交战。或者合掌说:“你无所畏惧,我已战败。”
7.23.28
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ ७.२३.२८ ॥
此时,伟大的伐楼那那愤怒的儿子与孙子们走了出来,还有高罗与补湿迦罗。
7.23.29
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।
युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ ७.२३.२९ ॥
他们具备勇力与德行,被自己的军队所环绕,驾起随意而行的战车,光芒如初升的太阳。
7.23.30
ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।
सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ७.२३.३० ॥
于是,水神之子与智慧的罗波那之间爆发了一场惨烈、令人毛骨悚然的大战。
7.23.31
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ ७.२३.३१ ॥
十颈罗刹的勇猛大臣们,在一刹那间击倒了婆楼那之子的全部军队。
7.23.32
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।
अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ७.२३.३२ ॥
婆楼那之子见自家军队在战场上被歼灭,又被箭网所困,便退出了战斗。
7.23.33
महीतलगतास्ते तु रावणं दृश्य पुष्पके ।
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ७.२३.३३ ॥
他们原在地面,见罗波那乘在普史巴卡上,便乘着疾驰的战车迅速冲入天空。
7.23.34
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।
आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ७.२३.३४ ॥
随后,他们取得了同等的位置,一场激烈的空中战斗爆发了,犹如天神与达那婆之间的战斗。
7.23.35
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।
विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ॥ ७.२३.३५ ॥
随后,他们以如火之箭使罗波那在战斗中败退,心中欢喜,发出各种吼声。
7.23.36
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥ ७.२३.३६ ॥
于是愤怒的摩诃陀罗见国王受辱,便舍弃对死亡的恐惧,渴望战斗的英雄环顾四周。
7.23.37
तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।
महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ७.२३.३७ ॥
他在战斗中以可怕的铁棒击毁了他们的战车,那些战车快如风、随意奔驰;它们坠落于地。
7.23.38
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् ।
मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ ७.२३.३८ ॥
他杀死了伐楼那之子的数百名战士和战马,见他们失去战车站立,便立即发出巨大的吼声。
7.23.39
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः ।
महोदरेण निहताः पतिताः पृथिवीतले ॥ ७.२३.३९ ॥
他们的战车连同战马和御者,被摩诃多罗击毁,坠落于大地表面。
7.23.40
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।
आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ७.२३.४० ॥
伟大的伐楼那之子们弃下战车,站立于空中;凭借自身的威力,这些英雄并不惊惶。
7.23.41
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ७.२३.४१ ॥
他们张好弓,射穿摩诃多罗,怒火中烧,一同在战场上向罗婆那冲去。
7.23.42
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।
दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ॥ ७.२३.४२ ॥
他们以从弓上射出、如雷霆般可怕的箭矢,极度愤怒地撕扯着他,犹如乌云撕裂巨大的山峰。
7.23.43
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।
शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ ७.२३.४३ ॥
于是愤怒的十首罗波那如劫火般冲出,以可怕的箭雨射中他们的要害。
7.23.44
ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।
मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ७.२३.४४ ॥
顿时,他们步兵因他的攻击而惊慌失措;随后,色彩斑斓的铁棍和数百支钩刃箭落下。
7.23.45
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ७.२३.४५ ॥
铁棍、长矛、百杀与投枪也是如此——这位无敌者站在他们上方,将它们纷纷击落。
7.23.46
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।
महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥ ७.२३.४६ ॥
那些被击伤的勇士步兵四散奔逃,如同六十岁的大象陷入深泥之中。
7.23.47
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।
ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ७.२३.४७ ॥
看见儿子们困惑痛苦,大力的罗波那欣喜地咆哮,如同巨大的雷云。
7.23.48
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।
नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ७.२३.४८ ॥
于是罗刹发出巨吼,以婆罗那神之箭攻击,配备各种兵器,如同云层倾泻瀑雨。
7.23.49
ततस्ते विमुखाः सर्वे पतिता धरणीतले ।
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ७.२३.४९ ॥
于是他们全都溃败倒在地上,本方的士兵很快把他们从战场上送回家中。
7.23.50
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ७.२३.५० ॥
那罗刹便对他们说:"去禀告婆楼那。"
7.23.51
रावणं त्वब्रवीन्मन्त्री प्रहस्तो नाम वारुणः ।
गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ॥ ७.२३.५१ ॥
然而婆楼那的大臣名叫普罗诃斯多,他对罗波那说:"水主大王已经前往梵天世界去了。"
7.23.52
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ।
तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।
ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥ ७.२३.५२ ॥
你在战场上挑战的那乾闼婆之乐,婆楼那已经去聆听了;勇士啊,国王已经离去,你的辛劳便是白费。至于在此的那些英勇王子,他们已经败北。
7.23.53
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।
हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ७.२३.५३ ॥
罗刹之王听后,报出自己的名号,欢喜地大声吼叫,离开了婆楼那的居所。
7.23.54
आगतस्तु पथा येन तेनैव विनिवृत्य सः ।
लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ ७.२३.५४ ॥
罗刹沿着来时的路折返,面向楞伽,穿越天空而去。